108 Buddhist stotras · अध्याय 41
यद्बुद्धैरिह शासनं नवविधं सूत्रादि संकीर्तितं लोकानां चरितानुरोधनिपुणं सत्यद्वयापाश्रयम् ।
तस्मिन् रागनिराकृतौ नहि कथा द्वेषक्षये जायते द्वेषस्यापि निराकृतौ नहि कथा रागक्षये जायते ॥
मानादेरपि यत् क्षयाय वचनं नान्यं मलं हन्ति तत् तस्माद्वयापितरं न तत्र च पुनस्तास्ता महार्थाः कथाः ।
मा मोहस्य परिक्षयाय तु कथा क्लेशानशेषानसौ हन्यान्मोहसमाश्रिता हि सकलाः क्लेशा जिनैर्भाषिताः ॥
मोहस्यास्य परिक्षयाय च यतो दृष्टाः प्रतीत्यादय स्तत्त्वं तत् प्रतिपच्च सैव सुगतैः संकीर्तिता मध्यमा ।
कायो धर्ममयो मुनेः स च यतः सा शून्यतेत्युच्यते बुद्धानां हृदयं स चापि महती विद्येति संकीर्त्यते ॥
यस्मात्सर्वगुणाकरो ऽयमुदितो बुद्धैरतस्तत्कथा शास्त्रे मध्यमके ऽथ विस्तरतरा मुख्यात्मना वर्णिता ।
कारुण्यद्रुतचेतसा प्रवचनं बुद्ध्वा यथावस्थितं बुद्धानां तनयेन तेन सुधिया नागार्जुनेनादरात् ॥
गम्भीरं जिनशासनं न हि जनो यो वेत्ति तत्संविदे मौनीन्द्राद् वचसः पृथङ्निगदितुं वाञ्छन्ति तत्त्वं च ये ।
अन्ये ये ऽपि कुबुद्धयः प्रवचनं व्याचक्षते चान्यथा तेषां चापि निराकृतौ कृतमिदं शास्त्रं हतान्तर्द्वयम् ॥
स्पष्टं राहुलभद्रपादसहितो नागार्जुनो तन्मत देवेनाप्यनुगम्यमानवचनः कालं चिरं दिष्टवान् ।
तच्छास्त्रप्रविवेकनिश्चितधियस्तीर्थ्यान् विजित्याखिलां स्तच्छिष्या अपि शासनं मुनिवरस्यादिष्टवन्तश्चिरम् ॥
आयाताय शिरो ऽर्थिंने करुणया प्रोत्कृत्य दत्त्वा शिरः संयाते तु सुखावतीं जिनसुते नागार्जुने तत्कृताः ।
ग्रन्थाः शिष्यगणाश्च ते ऽपि बहुना कालेन नाशं गताः तत्त्वार्के ऽस्तमिते ऽधुना न हि मतं स्पष्टं तदस्ति क्वचित् ॥
उत्प्रेक्षा रचितार्थमात्रनिपुणे दुरंगते सत्पथाद् उन्मत्ते ऽथ निपीय तर्कमदिरां लोके ऽधुना भूयसा ।
सर्वज्ञोदिततत्त्वबोधरहिते बौद्धे मते व्याकुले धन्यो ऽसौ क्षणमप्यपास्य विमतिं यः शून्यतां गाहते ॥
भीत्या वस्तुनिबन्धनोपरचितैर्यः शास्त्रपाशैर्वृत श्चित्त्वोत्प्लुत्य च याति वस्तुपरिखां चैको मृगो ऽसौ महान् ।
तं प्रत्यद्य न चिन्तया मम गुणश्चैकस्तु यो नाधुना तं प्रत्येव तदन्यशास्त्रमथनी वृत्तिः कृतेयं मया ॥
दृष्ट्वा सूत्रसमुच्चयं परिकथां रत्नावलीं संस्तुती रभ्यस्यातिचिरं च शास्त्रगदितास्ताः कारिका यत्नतः ।
युक्त्याख्यामथ षष्टिकां सविडलां तां शून्यतासप्ततिं या चासावथ विग्रहस्य रचिता व्यावर्तिनी तामपि ॥
दृष्ट्वा तच्छतकादिकं बहुविधं सूत्रं गभीरं तथा वृत्तिं चाप्यथ बुद्धपालितकृतां सूक्ष्मां च यद्भाविना ।
पारम्पर्यसमागतं प्रविचयाच्चासादितं यन्मया पिण्डीकृत्य तदेतदुन्नतधियां तुष्टौ समावेदितम् ॥
चिन्तामण्डल एष तर्कमथनः साक्षादिहावस्थितान् अर्थान् सम्यगनाकुलान् पटुधियां वागांशुभिर्भासयन् ।
वृत्तिं स्पष्टतरामिमां च विदधच्चन्द्रो ऽधुना कीर्तिमान् लोकानामुदितो निहन्ति विमतीः सान्द्रान्धकारैः सह ॥
कृत्वा वृत्तिमिमामनाकुलपदां सत्प्रक्रियामादरा श्राद्धानां सुधियां न निश्चयविधौ युक्त्यागमापाश्रयाम् ।
यत्पुण्यं मम शून्यतेव विपुलं तेनैव लोको ऽखिल स्त्यक्त्वा दृष्टिगणं प्रयातु पदवीं सर्वप्रपञ्चच्छिदाम् ॥
शास्तारं प्रणिपत्य गौतममहं तद्धर्मतावस्थितान् सम्बुद्धान् सकलं जिनात्मजगणं धर्मं च तैर्भाषितम् ।
चक्षुर्भूतमनन्तबुद्धवचनस्यालोचने देहिनाम् यो ऽमुं मध्यमकं चकार कृपया नागार्जुनस्तं नमे ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0