108 Buddhist stotras · अध्याय 42
सिद्धं प्रसिद्धं विजितामरं च शान्तं विरागं सुविशुद्धशीलम् ।
विश्वेश्वरं सर्वगुणाकरं वै श्रीशाक्यसिंहं प्रणमामि नित्यम् ॥
छत्राभशीर्षं वरनीलकेशं चोर्णासुशोभं हि महाललाटम् ।
नीलोत्पलाभं नयनं विशालं श्रीशाक्यसिंहं प्रणमामि नित्यम् ॥
उत्तुङ्गनासं भरपीनगण्डं बिम्बौष्ठकल्पं मृगराजवक्षसम् ।
उत्तप्तहेमाभसुवर्णवर्णं श्रीशाक्यसिंहं प्रणमामि नित्यम् ॥
पायोधकोषं शुभकर्णशोभं गण्डस्त्रिरेखावरचैलभूषम् ।
प्राजानुबाहुं द्विपनासकल्पं श्रीशाक्यसिंहं प्रणमामि नित्यम् ॥
विचित्रपुष्पैर्नरयाक्षमानं श्रीवत्सभद्रद्विगणोपयुक्तम् ।
अशीतिसुव्यञ्जनगात्रशोभं श्रीशाक्यसिंहं प्रणमामि नित्यम् ॥
शास्तारमग्र्यं नरवीरवीरं मायासुतं कारुणिकं जिनेन्द्रम् ।
शौद्धोदनिं लोकविदं मुनीन्द्रं श्रीशाक्यसिंहं प्रणमामि नित्यम् ॥
चक्राङ्कपाणिं नवपल्लवाभं मत्तेभलीलागमनं विराजम् ।
देवासुरैर्वन्दितपादयुग्मं श्रीशाक्यसिंहं प्रणमामि नित्यम् ॥
त्रैदुःखदुःखाद् भयवेदिलोकान् त्राणं च नीतुं वरबोधिमात्रैः ।
जिह्वा च मत्तेहि सुचक्षु सर्वं श्रीशाक्यसिंहं प्रणमामि नित्यम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0