108 Buddhist stotras · अध्याय 32
तृष्णाजिह्वमसद्विकल्पशिरसं प्रद्वेषचञ्चत्फलं कामक्रोधवितर्कदर्शनमथो रागप्रचण्डेक्षणम् ।
मोहास्यं स्वशरीरकोटिशतचिन्तातिगं दारुणं प्रज्ञामन्त्रबलेन यः शमितवान् बुद्धाय तस्मै नमः ॥
बुद्धं प्रबुद्धं वरधर्मराजं शान्तं विशुद्धं समकीर्तिदं तं ।
गुणाकरं सत्त्वमुनीन्द्रराजं श्रीमन्महाबोधिमहं नमामि ॥
यो जात्यादिकदुःखतप्तमहसां चक्षुः सतां प्राणिनां यस्त्रैधातुकपञ्जरादहरहः सत्त्वान् समाकर्षति ।
अत्राणं च जगत्समुद्धरति यः संक्लेशदुःखार्णवात् संबुद्धांश्च पुनश्च्युताच्च महते धर्माय तस्मै नमः ॥
या सर्वज्ञतया नयत्युपशमं शान्तैषिणः श्रावकान् या मार्गज्ञतया जगद्धितकृता लोकार्थसम्पादिका ।
सर्वाकारमिदं वदन्ति मुनयो विश्वस्य या संगता तस्यै श्रावकबोधिसत्त्वगणिनो बुद्धस्य मात्रे नमः ॥
चत्वारः प्रत्युत्पन्नगा भवसुखे सुस्वादविद्वेषिण श्चत्वारश्च फले स्थिताः शमरताः शान्ता महायोगिनः ।
इत्यष्टौ वरपुंगला भगवता यस्मिन् गणे व्याकृताः प्रज्ञाशीलसमाधितप्तवपुषा संघाय तस्मै नमः ॥
बुद्धं नमामि सततं वरपद्मपाणिं मैत्र्यात्मकं गगनगंजसमन्तभद्रम् ।
यक्षाधिपं परिहितोद्धृतमञ्जुघोषं विष्कम्भिणं क्षितिगर्भं प्रणमामि भक्त्या ॥
गुरुर्बुद्धो गुरुर्धर्मो गुरुः संघस्तथैव च ।
गुरुर्वज्रधरः श्रीमान् तस्मै श्रीगुरवे नमः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0