108 Buddhist stotras · अध्याय 31
भगवति बहुरूपे निर्विकारे निरञ्जे निमितनिखिलरूपे निश्चयातीतरूपे ।
अखिलनिगमपारे नित्यनित्यस्वभावे चरणकमलयुग्मं नौमि देवि त्वदीयम् ॥
हसितमुखशशाङ्कं ज्योत्स्नया रात्रिभूतं दशशतकिरणोद्यद्वक्त्रमाध्यन्दिनं ते ।
अरुणवदनशोभा औदयी चास्तकाले चरणकमलयुग्मं नौमि देवि त्वदीयम् ॥
गलजठरपदेषु स्वर्गमर्त्याहिलोकाः सकलभगणदन्ता रोमराजी द्रुमास्ते ।
गिरय इव नितम्बा रक्तशुक्लाः समुद्राश् चरणकमलयुग्मं नौमि देवि त्वदीयम् ॥
पवनदहनवेगाः श्वासप्रश्वास एव प्रलयप्रभवकालो मीलनोन्मीलनाभ्याम् ।
द्विदशतपनभूता भीमवक्त्रास्त्वदीयाश् चरणकमलयुग्मं नौमि देवि त्वदीयम् ॥
अनुपमतनुदेहं व्याप्यमानं समन्तान् निखिलनिगमसारं दर्शयन् देवि दिव्यम् ।
त्रिभुवनमखिलं ते दर्शितुमेति बुद्धिश् चरणकमलयुग्मं नौमि देवि त्वदीयम् ॥
विधिमुखविबुधास्ते किंकराः पादसंस्था मुकुटविधृतबुद्धे सर्वमार्गा हि शुद्धे ।
किमु तव महिमानं वर्णये गुह्यदेवि चरणकमलयुग्मं नौमि देवि त्वदीयम् ॥
अनुपठति समाप्तौ पूजने भक्तिमान् यो नुतिमति वितगोति स्पष्टमेवास्य बुद्धिः ।
सकलजनजनन्या भक्तिसम्पत्तिमुच्चैः करतलवशगास्ताः सिद्धिपुष्टयौ लभन्ते ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0