भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 33

33.1

कुन्दप्रसूनसदृशीं रुचिराङ्गरागां नानाविभूषणविभूषितवज्रदेहाम् ।
सव्येन हस्तकमलेन भयार्तिहन्त्रीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥

33.2

आलिङ्गितां निजमसव्यभुजेन पुत्रान् नेत्रैस्त्रिभिश्च परिशोभितचारुदेहाम् ।
नानाविधैर्मणिगणै रचितं किरीटं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥

33.3

तां वह्निमण्डलगतां वसुपत्रपद्मे श्रीरत्नपीठ उपरिस्थितपादपद्माम् ।
यक्षादिभिः परिवृतां ललितासनस्थां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥

33.4

लोकत्रयार्तिशमनीं शिशुजीवदात्रीं श्रीहारतीं करुणया निजभक्तदक्षाम् ।
दुःखापहां जनमनोहरभोगभाजां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥

33.5

संत्रासिनीं पिशुनवृत्तिवतां जनानां विस्फोटकादिरुजराशिविनाशकर्त्रीम् ।
भक्तेषु धातृसदृशीं च सुशीतलाङ्गीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥

33.6

बुद्धानुशासनरतामतिसूक्ष्मरूपां लोकत्रयार्चितपदां करुणार्चिभूताम् ।
गन्धर्वकिन्नरगणैः परिसेव्यमानां यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥

33.7

केयूरकुण्डलसुकङ्कणनूपुराढ्यां नानाविचित्रवसनप्रदधानशीलाम् ।
संरक्षणीं शिशुगणान् परिपालयन्तीं यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥

33.8

स्वर्भूरसातलमवस्थितभुक्तिदान संसक्तपूर्णहृदयां त्रिगुणात्मरूपाम् ।
तां संस्मराम्यहरहः शरणं प्रपद्ये यक्षेश्वरीं बहुसुतां प्रणमामि भक्त्या ॥

33.9

रक्षाकरीं स्तुतिमिमां प्रपठेन्मनुष्यः श्रीहारतीं निजगृहे शिशुरक्षणाय ।
वाचं श्रियं सुविपुलं च सुखादि सर्वं दात्री त्रिकं पठति यः प्रयतः प्रभाते ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc