108 Buddhist stotras · अध्याय 30
खर्वं स्थूलतरं गजेन्द्रवदनं लम्बोदरं सुन्दरं विध्नेशं मधुगन्धलुब्धमधुपव्यालोलगण्डस्थलम् ।
दन्तोद्घाटविदारिताहितजनं सिन्दूरशोभाकरं वन्दे शैलसुतासुतं गणपतिं सिद्धिप्रदं कामदम् ॥
हेरम्बः परमो देवः कार्यसिद्धिविधायकः ।
सैभाग्यरुपसम्पन्नां देहि मे सुखसम्पदम् ॥
एकदन्तं महाकायं लम्बोदरं गजाननम् ।
सर्वसिद्धिप्रदातारं गङ्गापुत्रं नमाम्यहम् ॥
वन्दे तं गणनाथमार्यमनघं दारिद्रयदावानलं शुण्डादण्डविधूयमानशमलं संसारसिन्धोस्तरिम् ।
यं नत्वा सुरकोटयः प्रभुवरं सिद्धिं लभन्ते परां सिन्दूरारूणविग्रहं परिपतद्दानाम्बुधाराहृतम् ॥
उच्चैर्ब्रह्माण्डखण्डद्वितयसहचरं कुम्भयुग्मं दधान प्रेषन्नागारिपक्षप्रतिभटविकटश्रोत्रतालाभिरामः ।
देवः शम्भोरपत्यं भुजगपतितनुस्पर्द्धिवर्धिष्णुहस्त स्त्रैलोक्याश्चर्यमूर्तिर्जयति त्रिजगतामीश्वरः कुञ्जरास्यः ॥
गणपतिश्च हेरम्बो विध्नराजो विनायकः ।
देवीपुत्रो महातेजा महाबलपराक्रमः ॥
महोदरो महाकायश्चैकदन्तो गजाननः ।
श्वेतवस्त्रो महादीप्तस्त्रिनेत्रो गणनायकः ॥
अक्षमालां च दन्तं च गृह्णन् वै दक्षिणे करे ।
परशुं मोदकपात्रं च वामहस्ते विधारयन् ॥
नानापुष्परतो देवो नानागन्धानुलेपनः ।
नागयज्ञोपवीताङ्गो नानाविध्नविनाशनः ॥
देवासुरमनुष्याणां सिद्धगन्धर्ववन्दितम् ।
त्रैलोक्यविध्नहर्तारमाख्वारूढं नमाम्यहम् ॥
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।
लम्बोदरश्च विकटो विध्नराजो विनायकः ॥
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।
वक्रतुण्डः शूर्पकर्णो हेरम्बः स्कन्दपूर्वजः ॥
षोडशैतानि नामानि यः पठेच्छुणुयादपि ।
विद्यारम्भे विवाहे च प्रवेशे निर्गमे तथा ॥
संग्रामे संकटे चैव विध्नस्तस्य न जायते ।
विध्नवल्लीकुठाराय गणाधिपतये नमः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0