भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 26

26.1

शमदमनिरतानां शान्तदान्ताशयानां खगपथसदृशानामन्तरीक्षसमानाम् ।
खिलमलविधुतनां मार्गज्ञानस्थितानां शृणुत वरविशेषं बोधिसत्त्वांश्च श्रेष्ठान् ॥

26.2

कुशलसतसहस्रं संचितं कल्पकोटया सुबुद्धशतसहस्रं पूजयित्वा गृहीतम् ।
प्रत्येकजिनवरान्वै पूजयित्वा त्वनन्तान् सकलजगहिताय जायते बोधिचित्तम् ॥

26.3

उत तपतपितानां क्षान्तिपारंगतानां हृतश्रितचरितानां पुण्यज्ञानोद्गतानाम् ।
विपुलगतिमतीनां पुण्यज्ञानाशयानां दशबलसमतुल्यं जायते बोधिचित्तम् ॥

26.4

प्रमुदितसुमतीनां दानधर्मे रतानां सकलजगहितार्थं नित्यमेवोद्यतानाम् ।
जिनगुणनिरतानां सत्त्वरक्षाव्रतानां त्रिभुवनहितकर्तृ जायते बोधिचित्तम् ॥

26.5

अकुशलविरतानां शुद्धमार्गे स्थितानां व्रतनियमरतानां शान्तसौम्येन्द्रियाणाम् ।
जिनशरणगतानां बोधिचर्याशयानां त्रिभुवनहितसाध्यं जायते बोधिचित्तम् ॥

26.6

अनुगतकुशलानां क्षान्तिस्वारस्यभाजां विदितगुणरसानां त्यक्तमानोत्सवानाम् ।
निहितशुभमतीनां दानसौम्याशयानां सकलहितविधानं जायते बोधिचित्तम् ॥

26.7

प्रचलति शुभकार्ये धीरवीर्याः सहाया निखिलजनहितार्थं प्रोद्यते मानसिंहः ।
अविरतगुणसाध्या निर्जितक्लेशसंधा झटिति मनसि तेषां जायते बोधिचित्तम् ॥

26.8

सुसमवहितचित्ता ध्वस्तमोहान्धकारा विगलितमदमाना त्यक्तसंक्लिष्टमार्गाः ।
समसुखनिरता ये त्यक्तसंसारसंगा झटिति मनसि तेषां जायते बोधिचित्तम् ॥

26.9

विमलखसमचित्ता ज्ञानविज्ञानविज्ञा निहतनमुचिमारा वान्तक्लेशाभिमानाः ।
जिनपदशरणस्था लब्धतत्त्वार्थकाये सपदि मनसि तेषां जायते बोधिचित्तम् ॥

26.10

त्रिभुवनशिवसाध्योपायविज्ञानधीराः करिबलपरिहारोपायविदृद्धिमन्तः ।
सुगतगुणसमीहा ये च पुण्यानुरागा सपदि मनसि तेषां जायते बोधिचित्तम् ॥

26.11

त्रिभुवनहितकामा बोधिसंभारपूर्त्यै प्रणिहितमनसा ये दुष्करे ऽपि चरन्ति ।
अविरतशुभकर्म प्रोद्यतां बोधिसत्त्वाः सपदि मनसि तेषां जायते बोधिचित्तम् ॥

26.12

दशबलगुणकामा बोधिचर्यानुरक्ता विजितकरिबलौघास्त्यक्तमानानुषङ्गाः ।
अनुगतशुभमार्गा लब्धधर्मार्थकामा झटिति मनसि तेषां जायते बोधिचित्तम् ॥

26.13

इति गणितगुणांशा बोधिचर्याश्चरन्तु जिनपदप्रणिधाना सत्समृद्धिं लभन्तु ।
त्रिभुवनपरिशुद्धा बोधिचित्तं लभन्तु त्रिशरणपरिशुद्धा बोधिसत्त्वा भवन्तु ॥

26.14

दशपारमिताः पूर्य दशभूमीश्वरो भवेत् ।
भूयो ऽपि कथ्यते ह्येतच्छृणुतैवं समासतः ॥

26.15

बोधिचित्तं यदासाद्य संप्रदानं करोति यः ।
तदा प्रमुदितां प्राप्तो जम्बूद्वीपेश्वरो भवेत् ॥

26.16

तत्रस्थः पालयेत् सत्त्वान् यथेच्छप्रतिपादनैः ।
स्वयं दाने प्रतिष्ठित्वा परांश्चापि नियोजयेत् ॥

26.17

सर्वान् बोधौ प्रतिष्ठाप्य संपूर्णदानपारगः ।
एतत्कर्मानुभावेन संवरं समुपाचरेत् ॥

26.18

सम्पच्छीलं समाधाय संवरं कुशली भवेत् ।
ततः स विमलां प्राप्तश्चातुर्द्वीपेश्वरो भवेत् ॥

26.19

तत्रस्थः पालयेत् सत्त्वानकुशलं निवारयेत् ।
स्वयं शीले प्रतिष्ठित्वा परांश्चापि नियोजयेत् ॥

26.20

सर्वान् बोधौ प्रतिष्ठाप्य सम्पूर्णकुशली भवेत् ।
एतद्धर्मविपाकेन क्षान्तिव्रतमुपाश्रयेत् ॥

26.21

सम्यक् क्षान्तिव्रतं धृत्वा क्षान्तिभृत् कुशली भवेत् ।
ततः प्राभाकरीं प्राप्तस्त्रयस्त्रिंशाधिपो भवेत् ॥

26.22

तत्रस्थः पालयेत् सत्वान् क्लेशमार्गनिवारणैः ।
स्वयं क्षान्तिव्रते स्थित्वा परांश्चापि नियोजयेत् ॥

26.23

सत्त्वान् बोधौ प्रतिष्ठाप्य शान्तिपारंगतो भवेत् ।
एतत्पुण्यविपाकेन वीर्यबलमुपाश्रयेत् ॥

26.24

सम्यग् वीर्यं समाधाय वीर्यभृत्कुशली भवेत् ।
ततश्चार्चिष्मतीं प्राप्य सुधामाधिपतिर्भवेत् ॥

26.25

तत्रस्थः पालयन् सर्वान् कुदृष्टीः संनिवारयेत् ।
सम्यग्दृष्टौ प्रतिष्ठाय बोधयित्वा प्रयत्नतः ॥

26.26

स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत् ॥

26.27

एतत्पुण्यविपाकेन ध्यानपारं समारभेत् ।
सर्वक्लेशान् विनिर्जित्य समाधिसुस्थितो भवेत् ॥

26.28

सम्यग्ध्यानं समाधाय समाधिकुशली भवेत् ।
ततः सुदुर्जयां प्राप्तः स तुषिताधिपो भवेत् ॥

26.29

तत्रस्थः पालयेत्सत्त्वांस्तीर्थ्यमार्गनिवारणैः ।
सत्त्वधर्मं प्रतिष्ठाप्य बोधयित्वा प्रयत्नतः ॥

26.30

स्वयं ध्यानव्रते स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य ध्यानपारंगतो भवेत् ॥

26.31

एतत्पुण्यविपाकेन प्रज्ञाव्रतमुपाश्रयेत् ।
सर्वान्मारान् विनिर्जित्य प्रज्ञाभिज्ञासमृद्धिमान् ॥

26.32

सम्यक् प्रज्ञां समाधाय स्वाभिज्ञाकुशली भवेत् ।
ततश्चाभिमुखीं प्राप्तः सुनिर्मिताधिपो भवेत् ॥

26.33

तत्रस्थः पालयेत् सत्त्वानभिमाननिवारणैः ।
शून्यतां सुप्रतिष्ठाप्य बोधयित्वा प्रयत्नतः ॥

26.34

स्वयं प्रज्ञाव्रते स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य प्रज्ञापारंगतो भवेत् ॥

26.35

एतत्पुण्यविपाकैश्च समुपायव्रतं चरेत् ।
सर्वदुष्टान् विनिर्जित्य सद्धर्मकुशली सुधीः ॥

26.36

समुपायविधानेन सत्त्वान् बोधौ नियोजयेत् ।
ततो दूरङ्गमां प्राप्तो वशवर्तीश्वरो भवेत् ॥

26.37

तत्रस्थः पालयेत्सत्त्वानभिसमयबोधनैः ।
बोधिसत्त्वनियामेषु प्रतिष्ठाय प्रबोधयेत् ॥

26.38

तत्रोपाये स्वयं स्थित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य उपायपारगो भवेत् ॥

26.39

एतत्पुण्यानुभावश्च सुप्रणिधीनुपाश्रयेत् ।
मिथ्यादृष्टिं विनिर्जित्य सम्यग्दृष्टिः कृतो बुधैः ॥

26.40

सुप्रतिष्ठितचित्तेन सम्यग्बोधौ प्रतिष्ठितः ।
ततश्चाप्यचलां प्राप्तो बुद्धया साहस्रिकाधिपः ॥

26.41

तत्रस्थः पालयेत्सत्त्वान् त्रिपानं संपिबेत् शनैः ।
लोकधातौ परिज्ञाने प्रतिष्ठाप्य प्रबोधयेत् ॥

26.42

सुप्रणिधौ स्वयं स्थित्वा परांश्चापि नियोजयेन् ।
सर्वान् बोधौ प्रतिष्ठाप्य प्राणिषु पारगो भवेत् ॥

26.43

एतत्पुण्यानुसारैश्च बलव्रतमुपाश्रयेत् ।
सर्वदुष्टान् विनिर्जित्य सम्बोधिकृतनिश्चयः ॥

26.44

सम्यग्यत्नसमुत्साहैः सर्वतीर्थ्यान् विनिर्जयेत् ।
ततः साधुमतीं प्राप्तो महाब्रह्मा भवेत् कृती ॥

26.45

तत्रस्थः पालयन् सत्त्वान् बुद्धयानोपदेशनैः ।
सत्त्वासमपरिज्ञाने सम्यग्बोधौ प्रबोधयेत् ॥

26.46

स्वयं बले प्रतिष्ठित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य बलपारंगतो भवेत् ॥

26.47

एतत्पुण्यविपाकैश्च ज्ञानव्रतमुपाश्रयेत् ।
चतुर्मारान् विनिर्जित्य बोधिसत्त्वगुणाकरः ॥

26.48

सम्यग्ज्ञानं समाधाय सद्धर्मकुशलो भवेत् ।
धर्ममेघां ततः प्राप्तो महेश्वरो भवेत् कृती ॥

26.49

तत्रस्थः पालयन् सर्वान् सर्वाकारानुबोधनैः ।
सर्वाकारवरे ज्ञाने प्रतिष्ठाप्य प्रबोधयेत् ॥

26.50

स्वयं ज्ञाने प्रतिष्ठित्वा परांश्चापि नियोजयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य ज्ञानपारंगतो भवेत् ॥

26.51

एतत्पुण्यानुभावैश्च दशभूमीश्वरो जिनः ।
सर्वाकारगुणाधारः सर्वज्ञो धर्मलाभवित् ॥

26.52

इति मत्वा भुवभिश्च सम्बुद्धपदलब्धये ।
दशपारमितारूपे चरितव्यं समाहितैः ॥

26.53

तथा बोधिं शिवां प्राप्य चतुर्मारान् विनिर्जयेत् ।
सर्वान् बोधौ प्रतिष्ठाप्य निर्वृतिं समवाप्स्यथ ॥

26.54

एतज्ज्ञात्वा परिच्छायां चरध्वं बोधिशासने ।
निर्विध्नं बोधिमासाद्य लभध्वं सौगतं पदम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc