भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 27

27.1

वं कारं वज्रसत्त्वं च वज्रासनसदास्थितम् ।
वारुणमण्डलव्यापि वैरोचन नमो ऽस्तु ते ॥

27.2

अकारमादिस्वभावमाकाशे व्यापितं तथा ।
अर्कनीलसमस्तेज अक्षोभ्यश्री नमो ऽस्तु ते ॥

27.3

रकारं लक्ष्मीस्वभावं नानारत्नमनेकधा ।
रं व्यापितं च पृथ्वीं रत्नसंभव नमो ऽस्तु ते ॥

27.4

अकारमस्थिरं भावं पद्मनागसमप्रभम् ।
अग्नितेजःसमाधिस्थं अमिताभ नमो ऽस्तु ते ॥

27.5

अकारं तत्स्वभावं च गन्धवाहसमप्रभम् ।
अकारविश्ववज्रं च अमोधसिद्धि नमो ऽस्तु ते ॥

27.6

धकारं धर्मस्वभावं धर्मसंघस्वरूपकम् ।
धात्वष्टकं कीर्तितं च धर्मधातु नमो ऽस्तु ते ॥

27.7

सकारं सर्वसम्पत्तिः सर्वमङ्गलमर्थनम् ।
सर्वसिद्धिस्त्वमेवाथ सिद्धिवज्र नमो ऽस्तु ते ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc