भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 25

25.1

श्रीहेरुकं महावीरं विशुद्धं कुलिशेश्वरम् ।
नमामि सर्वभावेन डाकिनीगणभूषितम् ॥

25.2

संवराय नमस्तुभ्यं द्वयाकाराय नमो नमः ।
चक्रस्थिताय देवाय चक्रसंवर ते नमः ॥

25.3

मेषवक्त्र नमस्ते ऽस्तु शिवशक्तिस्वरूपिणे ।
महाक्रोधस्वरूपाय मेषसंवर ते नमः ॥

25.4

अश्वाननाय देवाय रतिकर्मरताय च ।
भुक्तिमुक्तिप्रदात्रे च अश्वसंवर ते नमः ॥

25.5

व्याघ्रास्याय नमस्तुभ्यं शक्तियुक्ताय वै नमः ।
सुरामांसरतो नित्यं व्याघ्रसंवर ते नमः ॥

25.6

कूर्मास्याय नमस्तुभ्यं सुरते संरताय च ।
नमो देवाधिदेवाय कूर्मसंवर ते नमः ॥

25.7

नमामि मत्स्यवक्त्राय मानवानां हिताय वै ।
नमो नमस्ते देवेश मत्स्यसंवर ते नमः ॥

25.8

मकराकारवक्त्राय महाशक्तिधराय च ।
मनोवाञ्छाप्रदात्रे च मकरसंवर ते नमः ॥

25.9

संवरायोष्ट्रवक्त्राय शक्तिकालिङ्गणाय च ।
मैथुने तत्परायाथ उष्ट्रसंवर ते नमः ॥

25.10

नमामि गजवक्त्राय योनौ लिङ्गप्रदाय च ।
नमो भगवते तुभ्यं गजसंवर ते नमः ॥

25.11

मण्डूकानननाथाय त्रैलोक्येशाय ते नमः ।
नमो देवाधिदेवाय मण्डूकसंवराय च ॥

25.12

नमामि चाविवक्त्राय नित्यं रतिरताय च ।
नमस्ते देवदेवेश अहिसंवर ते नमः ॥

25.13

शुकाननाय देवाय द्वयाकाराकारशोभिने ।
नमो नमस्ते भीमाङ्ग शुकसंवर ते नमः ॥

25.14

संवराय नमस्ते ऽस्तु शक्तियुक्ताय वै नमः ।
सिंहाननाय वै नित्यं सिंहसंवर ते नमः ॥

25.15

मर्कटाननदेवाय शक्तिचुम्बनरताय च ।
नमस्ते ऽस्तु नमस्ते ऽस्तु हरिसंवर ते नमः ॥

25.16

श्वानवक्त्र नमस्ते ऽस्तु शक्तिचुम्बनकारिणे ।
नमस्ते भगवन् देव श्वानसंवर ते नमः ॥

25.17

वराहास्यवरेवान भगक्रीडनकारक ।
नमामि शक्तियुक्ताय घृष्टिसंवर ते नमः ॥

25.18

जम्बुकास्याय देवाय शक्तिकालिङ्गणाय च ।
सर्वपापहरायैव शिवासंवर ते नमः ॥

25.19

नमामि गृध्रवक्त्राय दुःखनाशाय ते नमः ।
द्वयाकारसिद्धिदेवाय गृध्रसंवर ते नमः ॥

25.20

काकाननाय शुद्धयक्ष शृङ्गाररूपधारिणे ।
नमो भगवते तुभ्यं काकसंवर ते नमः ॥

25.21

उलूकवक्त्रिणे तुभ्यं महासौख्यप्रदाय च ।
योनिमैथुनकृद्देवोलूकसंवर ते नमः ॥

25.22

तार्क्ष्याननाय देवाय तारिणे भवसागरात् ।
नमस्तुभ्यं नमस्तुभ्यं नमो गरुडसंवर ॥

25.23

गोवक्त्राय नमस्तुभ्यं गोहत्यापापहारिणे ।
गोत्रवृद्धिप्रदात्रे च धेनुसंवर ते नमः ॥

25.24

गर्दभाकारवक्त्राय गतागतक्षयाय ते ।
गणेश्वराय देवाय खरसंवर ते नमः ॥

25.25

महिषास्याय देवाय महाप्रलयकारिणे ।
शक्तियुक्ताय देवाय नमओ महिषसंवर ॥

25.26

विडालास्य नमस्तुभ्यं मूत्रकूण्डप्रक्रीडिने ।
श्रेष्ठाय परमेशाय नमो मार्जारसंवर ॥

25.27

नमामि शाल्ववक्त्राय द्वयङ्गमेकेव शोभितम् ।
नमामि देवदेवेश नमः शरभसंवर ॥

25.28

सिद्धाय सिद्धरूपाय गुणाय गुणवर्तिने ।
क्रौञ्चास्याय नमस्तुभ्यं क्रौञ्चसंवर ते नमः ॥

25.29

उल्काननाय शुद्धाय उत्तमाय नमो नमः ।
उग्राय भीमरूपाय उल्कसंवर ते नमः ॥

25.30

हंसवक्त्र नमस्ते ऽस्तु हंसस्वरस्वरूपिणे ।
हंसःसो ऽहंस्वरूपाय हंससंवर ते नमः ॥

25.31

मृगवक्त्राय देवाय नमामि परमेश्वर ।
ऋद्धिसिद्धिप्रदात्रे च मृगसंवर ते नमः ॥

25.32

शक्तियुक्त नमस्ते ऽस्तु चक्रवाकाननाय च ।
नमस्ते चकवाकाख्यसंवराय नमो नमः ॥

25.33

अजाननाय वीराय अविद्यानाशिने नमः ।
अपवर्गफलाप्त्यर्थमजसंवर ते नमः ॥

25.34

कुक्कुटास्याय देवाय कुलवृद्धिकराय च ।
नमस्ते कौटुकेशाय तुभ्यं कुक्कुटसंवर ॥

25.35

कृष्णसारसवक्त्राय नमस्ते कर्मसम्भव ।
कालनाशाय देवाय एणसंवर ते नमः ॥

25.36

मूषाननाय पूर्णाय ज्ञानदाय नमो नमः ।
सर्वदैत्यविनाशय मूषसंवर ते नमः ॥

25.37

सालूकास्य नमस्ते ऽस्तु मानादिवरदाय च ।
सिद्धिबुद्धिप्रदात्रे च नमः सालूकसंवर ॥

25.38

नमः कपोलवक्त्राय प्रज्ञोपायात्मरूपिणे ।
नमस्ते ऽस्तु महावीर कपोतसंवराय च ॥

25.39

नमामि ग्राहवक्त्राय भुक्तिमुक्तिप्रदाय च ।
नमो ऽस्तु सर्वभूतेश ग्राहसंवर ते नमः ॥

25.40

नमस्ते चिह्लवक्त्राय नमस्ते मैथुने रत ।
नमस्ते भगवन् देव चिह्लसंवर ते नमः ॥

25.41

चटकास्याय देवाय नमस्ते ऽस्तु जगद्गुरो ।
नमस्ते ऽस्तु गुणाधीश चटकसंवर ते नमः ॥

25.42

सारसास्य नमस्तुभ्यं नमस्ते गुणसागर ।
नमो भगवते तुभ्यं सारससंवराय च ॥

25.43

खञ्जनास्याय देवाय महादेवाय ते नमः ।
निर्वाणपददात्रे खञ्जरीटसंवराय च ॥

25.44

नमस्ते क्षेमकर्यास्य भुक्तिमुक्तिप्रदाय च ।
नमो भगवते देव क्षेमकरिसंवराय ते ॥

25.45

शशकास्य नमस्तुभ्यं नमस्ते भुवनेश्वर ।
कर्मप्रदाय ते नित्यं नमः शशकसंवर ॥

25.46

नमो भल्लूकवक्त्राय रतिक्रीडापराय च ।
कार्यसिद्धिप्रदात्रे च नमो भल्लूकसंवर ॥

25.47

पिकास्याय नमस्तुभ्यं मन्त्रसिद्धिकराय च ।
त्रिलोकेशाय सर्वाय पिकसंवर ते नमः ॥

25.48

नमामि वकवक्त्राय शक्तियुक्तगणाधिप ।
नमामि देवदेवेश वकसंवर ते नमः ॥

25.49

खङ्गिवक्त्राय देवाय सर्वदा शिरसा नमः ।
नमो ऽस्तु परमेशाय खङ्गिसंवर ते नमः ॥

25.50

कर्कटास्य नमस्तुभ्यं नमः संसारहेतवे ।
पापपुञ्जविनाशाय नमः कर्कटसंवर ॥

25.51

नमः शल्लकिवक्त्राय सर्वदोषनिवारिणे ।
संसारपाशनाशाय नमः शल्लकिसंवर ॥

25.52

वृश्चिकास्य नमस्तुभ्यं बलकल्याणदाय च ।
नमो नमस्ते देवाय नमो वृश्चिकसंवर ॥

25.53

अलिवक्त्राय देवाय अलिमोदाय ते नमः ।
अलिलोकविनाशाय अलिसंवर ते नमः ॥

25.54

जाहकास्य नमस्ते ऽस्तु जनमोहकृताय वै ।
जयकल्याणदात्रे च नमो जाहकसंवर ॥

25.55

चमरीवक्त्र ते नित्यं चातुर्यफलदायिने ।
चतुर्वर्गप्रदात्रे च नमश्चमरिसंवर ॥

25.56

सीम्निवक्त्रनमस्तुभ्यं सिद्धित्वफलदायिने ।
नमो भगवते नित्यं सीम्निसंवर ते नमः ॥

25.57

नमामि गोधवक्त्राय नमस्ते भीमविक्रम ।
नमस्ते दिव्यनेत्राय गोधासंवर ते नमः ॥

25.58

चकोरास्य नमस्तुभ्यं चाञ्चल्यदोषनाशक ।
नमो भगवते तुभ्यं चकोरसंवराय च ॥

25.59

गोधिकास्याय सततं सृष्टिसंहारकरिणे ।
नमस्ते परमानन्द गोधिकासंवराय च ॥

25.60

मधुमाक्षिकवक्त्राय नमस्ते मानदायक ।
सर्वज्ञाय परेशाय नमो माक्षिकसंवर ॥

25.61

पतङ्गवक्त्र ते नित्यं परमेश नमः सदा ।
दिव्याय दिवसेशाय नमः पतङ्गसंवर ॥

25.62

नरवक्त्राय देवाय नरकध्नाय ते नमः ।
नानारूपदधानाय नरसंवर ते नमः ॥

25.63

सृष्टिरूप जगद्धाम सृजते सर्वभूतकम् ।
नमो नमस्ते सततं सृष्टिसंवर ते नमः ॥

25.64

स्थितिरूपाय देवाय गुणाय गुणवर्तिने ।
नमः सारविनाशाय स्थितिसंवर ते नमः ॥

25.65

सर्वलोकस्य संहारकर्त्रे ते परमेश्वर ।
तस्मादहं नमस्यामि नमः प्रलयसंवर ॥

25.66

ज्योतिर्वक्त्र परं धाम नमस्ते जगदीश्वर ।
परात्परतरं सूक्ष्म ज्योतिःसंवर ते नमः ॥

25.67

इतीदं संवरस्तोत्रं त्रिषु लोकेषु दुर्लभम् ।
परात्परतरं स्तोत्रं चतुःषष्टिप्रमाणकम् ॥

25.68

चतुःषष्टिप्रमाणेषु आद्यमाद्यं तु वक्त्रितम् ।
भूयो ग्रन्थमयाच्चात्र आद्यमात्रं प्रचोदितम् ॥

25.69

कन्यार्थी लभते कन्यां धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥

25.70

वशीकरणमुच्चाटं मारमोहनस्तम्भनम् ।
आकर्षणं च विद्वेषं धातुवादं रसायनम् ॥

25.71

गुटिकां पादुकासिद्धिं खङ्गसिद्धिं तथैव च ।
खेचरीसिद्धि वैद्याङ्गं मन्त्रसिद्धिं च वाक्पटुः ॥

25.72

परकायप्रवेशं च द्रव्याकर्षणमेव च ।
लभते स्तोत्रराजेन सत्यं सत्यं मयोदितम् ॥

25.73

दुर्भिक्षं चापदि पाठं कुरुते शुभमाप्नुयात् ।
अतिवृष्टावनावृष्टौ महामारीसमुद्भवे ॥

25.74

राज्यभ्रंशे ज्ञानभ्रंशे स्त्रीभ्रंशे च धनक्षये ।
कलहे च विवादे च पठते स्तोत्रमुत्तमम् ॥

25.75

भिक्षुकेभ्यः सहस्रेभ्यः तुल्यं दानकृतं फलम् ।
बहुनात्र किमुक्तेन ब्रह्माण्डदानजं फलम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc