108 Buddhist stotras · अध्याय 24
ओम् नमः श्रीचण्डिकायै ऊं ऊं ऊं उग्रचण्डं चचकितचकितं चंचरा(ला) दुर्गनेत्रं हूं हूं हूंकाररूपं प्रहसितवदनं खङ्गपाशान् धरन्तम् ।
दं दं दं दण्डपाणिं डमरुडिमिडिमां डण्डमानं भ्रमन्तं भ्रं भ्रं भ्रं भ्रान्तनेत्रं जयतु विजयते सिद्धिचण्डी नमस्ते ॥
घ्रं घ्रं घ्रं घोररूपं घुघुरितघुरितं घर्घरीनादघोषं हुं हुं हुं हास्यरूपं त्रिभुवनधरितं खेचरं क्षेत्रपालम् ।
भ्रूं भ्रूं भ्रूं भूतनाथं सकलजनहितं तस्य देहा (?) पिशाचं हूं हूं हूंकारनादैः सकलभयहरं सिद्धिचण्डी नमस्ते ॥
व्रं व्रं व्रं व्योमघोरं भ्रमति भुवनतः सप्तपातालतालं क्रं क्रं क्रं कामरूपं धधकितधकितं तस्य हस्ते त्रिशूलम् ।
द्रुं द्रुं द्रुं दुर्गरूपं भ्रमति च चरितं तस्य देहस्वरूपं मं मं मं मन्त्रसिद्धं सकलभयहरं सिद्धिचण्डी नमस्ते ॥
झं झं झंकाररूपं झमति झमझमा झंझमाना समन्तात् कं कं कंकालधारी धुधुरितधुरितं धुन्धुमारी कुमारी ।
धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपास्त्रिशूलं तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते ॥
रं रं रं रायरुद्रं रुरुधितरुधितं दीर्घजिह्वाकरालं पं पं पं प्रेतरूपं समयविजयिनं सुम्भदम्भे निसुम्भे ।
संग्रामे प्रीतियाते जयतु विजयते सृष्टिसंहारकारी ह्रीं ह्रीं ह्रींकारनादे भवभयहरणं सिद्धिचण्डी नमस्ते ॥
हूंकारी कालरुपी नरपिशितमुखा सान्द्ररौद्रारजिह्वे हूंकारी घोरनादे परमशिरशिखा हारती पिङ्गलाक्षे ।
पङ्के जाताभिजाते चुरु चुरु चुरुते कामिनी काण्डकण्ठे कङ्काली कालरात्री भगवति वरदे सिद्धिचण्डी नमस्ते ॥
ष्ट्रीं ष्ट्रीं ष्ट्रींकारनादे त्रिभुवननमिते घोरघोरातिघोरं कं कं कं कालरूपं घुघुरितघुरितं घुं घुमा बिन्दुरूपी ।
धूं धूं धूं धूम्रवर्णा भ्रमति भुवनतः कालपाशत्रिशूलं तं तं तं तीव्ररूपं मम भयहरणं सिद्धिचण्डी नमस्ते ॥
झ्रीं झ्रीं झ्रींकारवृन्दे प्रचरितमहसा वामहस्ते कप्ःलं खं खं खं खङ्गहस्ते डमरुडिमडिमां मुण्डमालासुशोभाम् ।
रुं रुं रुं रुद्रमालाभरणविभूषिता दिर्घजिह्वा कराला देवि श्री उग्रचण्डी भगवति वरदे सिद्धिचण्डी नमस्ते ॥
आरुणवर्णसङ्काशा खड्गफेटकबिन्दुका ।
कामरूपी महादेवी उग्रचण्डी नमो ऽस्तुते ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0