भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 23

23.1

श्रीहेरुकं महावीरं चक्रसंवरसंवरम् ।
नमामि मारजेतारं डाकिनीजालमा(ना)यकम् ॥

23.2

वन्दे तां वज्रवाराहीं महारागानुरूपिणीम् ।
डाकिनीं च तथा लामां खण्डरोहां च रूपिणीम् ॥

23.3

चत्वारो(त्वरे ऽ)मृतभाण्डां च बोधिचित्तेन पूरिताम् ।
पुल्लीरमलयशिरसि प्रचण्डां वज्रडाकिनीम् ॥

23.4

जालन्धरशिखां चैव चण्डाक्षीं गतकिल्विषाम् ।
ओडियानाह्वये सर्वे श्रोत्रे देवीं प्रभावतीम् ॥

23.5

अर्बुदे पृष्ठवंशे तु महानासां नमाम्यहम् ।
गोदावरीं पुरे वामे कर्णे वीरमतीं शुभाम् ॥

23.6

रामेश्वरीं भ्रुवोर्मध्ये खर्वरीं वरवर्णिनीम् ।
देवीकोट्टे स्थितां मैत्रे श्रीमल्लङ्केश्वरीप्रभाम् ॥

23.7

मालवे स्कन्धदेशे तु द्रुमच्छायां नमाम्यहम् ।
कामरूपे कक्षद्वये देवीमैरावतीं शुभाम् ॥

23.8

ओड्रे स्तनद्वये वापि श्रीमहाभैरवां सतीम् ।
त्रिशकुन्याह्वये नाभौ वायुवेगां मनोरमाम् ॥

23.9

कोशले नासिकाग्रे वा सुराभक्षीं नमाम्यहम् ।
कलिङ्गे वदने रम्ये श्यामादेवीं सनातनीम् ॥

23.10

लम्पाके कण्ठदेशे तु सुभद्रां वरसुन्दरीम् ।
काञ्चीप्रेतहृदये हयकर्णां मनोरमाम् ॥

23.11

हिमालये पुरे मेढ्रे नमस्यामि खगाननाम् ।
प्रेतपुर्यां तथा लिङ्गे कौबेर्यां शस्यनीश्वरीम् ॥

23.12

गृहदेवता गुदे स्थाने खण्डरोहां मनोहराम् ।
सौराष्ट्रे ऊरुयुगले शौण्डिनो सुखदायिनीम् ॥

23.13

सुवर्णद्वीपे जंघायां संस्थितां चक्रवर्मिणीम् ।
नगरे चाङ्गुलीस्थाने सुवीरां वरयोगिनीम् ॥

23.14

सिन्धौ च पादयोः पृष्ठे स्थितां देवीं महाबलाम् ।
मरौ चाङ्गुष्ठयुगले च संस्थितां चक्रवर्तिनीम् ॥

23.15

कुलताजानुद्वये देवीं महावीर्या नमाम्यहम् ।
खण्डकपालवीराद्यां स्वप्रज्ञाशिष्टविग्रहाम् ॥

23.16

मम भक्त्या महावीरां कायवाकचित्तचक्रगाम् ।
काकतुण्डीमुलूकास्यां श्वानास्यां शूकराननाम् ॥

23.17

यमदाढीं यमदूतीं यमदंष्ट्रीं यमान्तिकाम् ।
एता देवीर्नमस्यामि दिग्विदिक्षु च संस्थिताः ॥

23.18

वीरवीरेश्वरीनाथं हेरुकं परमेश्वरम् ।
स्तुत्वेदं देवतीचक्रं यन्मयोपार्जितं शुभम् ॥
तेन पुण्येन लोको ऽस्तु वज्रडाको जगद्गुरुः ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc