भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 22

22.1

जातिं बोधिं प्रबलमतुलं धर्मचक्रमरण्ये चैत्ये चार्यं त्रिभुवननमितं श्रीमतं प्रातिहार्यम् ।
स्थाने चैत्ये गिरिनगरनिभे देवदेवावतारं वन्दे भक्त्या प्रणमितशिरसा निर्वृता येन बुद्धाः ॥

22.2

वैशाल्यां धर्मचक्रे प्रथितजिनवरे पर्वते गृध्रकूटे श्रावस्त्यां लुम्बिकायां कुशिनगरवरे कापिलाख्ये च स्थाने ।
कौशल्यां स्थूलकूटे मधुरवरपुरे नन्दगोपासराते ये चान्ये धातुचैत्या दशबलबलिता तान् नमस्यामि बुद्धान् ॥

22.3

कैलाशे हेमकूटे हिमवति निलये मन्दरे मेरूशृङ्गे पाताले वैजयन्ते धनपतिनिलये सिद्धगन्धर्वलोके ।
ब्रह्माण्डे विष्णुभूम्यां पशुपतिनगरे चन्द्रसूर्यातिरेके ये चान्ये धातुचैत्या दशबलवलिता तान् नमस्यामि बुद्धान् ॥

22.4

काश्मीरे चीनदेशे खसतवरपुरे बल्कले सिंहले वा राताद्ये सिंहपोटे सततमविरतं वल्लखे कापिलाख्ये ।
नेपाले कामरूपे कुवसवरपुरे कान्तिशोभासराते ये चान्ये धातुचैत्या दशबलवलिता तान् नमस्यामि बुद्धान् ॥

22.5

ये च स्युर्धातुगर्भा दशबलतनुजाः कुम्भसंज्ञाश्च चैत्याः अङ्गाराः क्षारस्थाने हिमरजतनुमास्तूपरत्नप्रकाशम् ।
पाताले ये च भूम्यां गिरिशिखरगता ये च वित्ताः समन्ताद् बुद्धानां ये च विम्बाः प्रतिदिनसुकृतस्तान् नमस्यामि बुद्धान् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc