108 Buddhist stotras · अध्याय 21
नमो ऽस्तु बुद्धाय विशुद्धबोधये विशुद्धधर्मप्रतिभासबुद्धये ।
सद्धर्मपुण्योपगतानुबुद्धये भवाग्रशून्याय विशुद्धबुद्धये ॥
अहो अहो बुद्धमनन्ततेजसं अहो अहो सागरमेरुगुल्मम् ।
अहो अहो बुद्धमनन्तगोचरम् औदुम्बरं पुष्पमिवातिदुर्लभम् ॥
अहो महाकारुणिकस्तथागतः अहो अहो शाक्यकुलस्य केतुः ।
अहो प्रणम्यः स नरेन्द्रसूर्यो येनेदृशं भाषितसूत्रमुत्तमम् ॥
अनुग्रहार्थं स हि सर्वसत्त्वान् सद्धर्मचर्यामुपदिश्य नूनम् ।
शान्तेश्वरः शाक्यमुनिस्तथागतः सत्त्वोत्तमः शान्तपुरं प्रविष्टः ॥
गम्भीरशान्तं विरजासमाधिपदं प्रविष्टे जिनबुद्धगोचरे ।
शून्याश्च कायास्त्वथ श्रावकाणां शून्या विहारा द्विपदोत्तमानाम् ॥
ते सर्वधर्मा प्रकृतिश्च शून्या सत्त्वा हि शून्या नहि जातु विद्यते ॥
नित्यं च नित्यं च जिनं स्मरामि नित्यं च शोचामि जिनस्य दर्शनम् ।
नित्यं च नित्यं प्रणिधिं करोमि संबुद्धपूज्यस्य च दर्शनार्थम् ॥
स्थाप्येह नित्यं धरणीषु जानु शोकाभितप्तो जिनदर्शनाय ।
ओदन्तकारुण्यविनायकस्त्वमतीव तृष्णा सुगतस्य दर्शने ॥
सतां वरो यद्विजहार नित्यं ददाहि मे दर्शनतोयशीतलम् ।
सत्त्वाः सतृष्णास्तव रूपदर्शने प्रह्लादयैनान् करुणाजलेन ॥
कारुण्यभावं कुरु नाथ नायक ददाहि मे दर्शनं सौम्यरूपम् ।
त्वं पाहि त्रातर्जगदेकदेशिता शून्याश्च कायास्त्वथ श्रावकाणाम् ॥
आकाशतुल्या गगनस्वभावा मायामरीच्योदकचन्द्रकायाः ।
सर्वे च सत्त्वाः सुखितस्वभावा भवन्तु भो नायक त्वत्प्रसादात् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0