भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 20

20.1

यः पूर्वं बोधिमूले रविगमनपथे मारगान्नृत्यगीतान् गंगौ गंगौ गगंगौ घघनघनमृदुद्वन्द्वमन्त्रैरजस्रैः ।
यः स्त्रीभिर्दिव्यरूपैरुपरतरभितुं दूदुभिर्दुर्भिदूर्भिः क्षोभं नैवाभियातः सुरनरनमितः पातु वः शाक्यसिंहः ॥

20.2

यः कन्दर्पाङ्गनानां ककहकहकहा हाहहेति प्रहासै र्यः स्फीताडम्बराणां तटिति तटतटा तातटीति प्रलापैः ।
कुत्कुद् बुद्बुद् कुकूचित् कुकुहकुहकुहैः किङ्कराणां च वाग्भि र्नो त्रस्यः सो ऽस्तु सौम्यः श्रुतसकलमलः शान्तये वो मुनीन्द्रः ॥

20.3

भ्रूक्षेपापाङ्गभङ्गैः स्मरशरविलसत्पक्ष्मताराक्षिपातै प्रौढानङ्गाङ्गनानां ललितभुजलतालास्यलीलायिताङ्गैः ।
सव्रीडैः सस्मितोक्तैः कलमृदुमधुरामोदरम्यैर्वचोभि र्भ्रान्तिं चेतो न चित्रं स्मरबलजयिनो यस्य तस्मै नमो ऽस्तु ॥

20.4

उर्वीं सञ्चालयन्तः खरशरनिकरैश्छादयन्तोःन्तरीक्षं ज्वालाभिः क्रोधंवह्नेर्ज्वलितदशदिशः क्षोभयन्तो ऽम्बुराशिम् ।
हेलोत्खातासिचक्रक्रकचपटुरवाराविणो मारवीराः मैत्रीशस्त्रेण येन प्रसभमभिजिताः पातु वः सो मुनीन्द्रः ॥

20.5

विस्फूर्जज्जातकोपप्रकटितविकटाटोपनिर्घोषघोरं गर्जज्जीमूतजालप्रकटगजघटाटोपबद्धान्धकारम् ।
कन्दर्पोद्दामवह्निस्फुरदसिकिरणोद्भासिताशेषविश्वं पुष्पेषोः सैन्यमुच्चैर्झटिति विघटितं येन बुद्धः स वो ऽव्यात् ॥

20.6

दिव्यैराकणंपूरैः कमलदलनिभैः पक्ष्मलैर्लोलतारैर् भावस्निग्धैर्विदग्धैः प्रचलितललितैः सस्मितैर्भ्रूविलासैः ।
नेत्रैर्माराङ्गनानां परिगतवलयैर्लोहितान्तैरशान्तैर् नाकृष्टः सर्वथा यस्तमहमृषिवरं वान्तदोषं नमामि ॥

20.7

नोद्भ्रान्तं यस्य चित्तं स्फुटविकटसटान्तोत्कटैर्लोलजिह्वैर् मारैः शूलाग्रहस्तैर्गजतुरगमुखैः सिंहशार्दूलवक्त्रैः ।
प्रद्युम्नः कामदेवस्तृणवदगणितो येन संरम्भभीरुः संबुद्धः पातु युष्मान् व्यपगतकलुषो लोकनाथो मुनीन्द्रः ॥

20.8

अक्षोभ्या यस्य बुद्धिर्धरणिनगनदीसागराम्भोधरद्भिर् गर्जद्भिर्मारवीरैर्विविधमुखशतैर्घोररूपैरनन्तैः ।
येनासौ पुष्पकेतुस्तृणवदगणितः सर्वविद् वीतरागः स श्रीमान् बुद्धवीरः कलुषभयहरः पातु वो वीतरागः ॥

20.9

मारानीकैर्महोग्रैरसिपरशुधनुःशक्तिशूलाग्रहस्तैर् उल्कापातैरनेकैर्गहनपटुरवैर्भीषणैर्भीमनादैः ।
न क्षुब्धं यस्य चित्तं गिरिसममचलं गाढपर्यङ्कबन्धं तं वन्दे वन्दनीयं त्रिभवभयहरं बुद्धवीरं प्रवीरम् ॥

20.10

उच्चैरट्टाट्टहासैः प्रकटपटुभटाबद्धघण्टै रणद्भिः साटोपास्फोटटङ्कस्फुटजटिलजटैः किङ्करैः कोटराक्षैः ।
भग्नं कर्तु न शक्ताः पटुपटहपटस्फालनैर्यस्य बोधौ दृप्तानां गृध्रकूटे पटुपटहपटुः सो ऽस्तु वो बुद्धवीरः ॥

20.11

कोकण्डं रामकण्डं प्रतिभयकुहरं दर्पदर्पं रणाण्डं डिम्बं डिम्बं डडिम्बं डुह डुहक डुहं तृंखलस्तृंखलस्तृम् ।
झिम्बं झिम्बं झझिम्बं खमु खमु खमुखं मंखु मंखुः खुमंखुर् एभिर्ध्वानैर्न भीतः सुरवरनमितः पातु वः शाक्यसिंहः ॥

20.12

यं माराङ्गारधाराधरसमयसमारम्भसंरम्भयुक्तं नक्तं माराङ्गनानां मुखकमलवनश्रीविपक्षैकपक्षा ।
सम्यक्संबोधिलक्ष्मीः शशिनमिव शरत्कौमुदी संप्रपेदे तस्येयं धर्मदूती ध्वनति भगवतो धर्मराजस्य गण्डी ॥

20.13

निघ्नन्नप्राप्तदृष्टिः क्षणमपि च चिरादन्तको यद् दुरन्तं तस्मिन्निक्षिप्तचित्ताः कुरुत सुचरितेष्वादरं सर्वकाले ।
इत्थं रत्नत्रयाज्ञामिव वदति मुहुः प्राणिनां यस्य सैषाम् एषा शब्दायमाना प्रथितमुखरदिङ्मण्डला धर्मगण्डी ॥

20.14

मार्तण्डमण्डलमिवोडुगणं विजित्य भातीह तीर्थिकजनं जिनशासनं च ।
रंरम्यते धरणिमण्डलमण्डनस्य गण्डी यमस्य जयडिण्डिमवत्प्रचण्डा ॥

20.15

यस्यात्यन्तं दृढत्वं जमि जमि डुडुभं रञ्जितेनालिनालिं डिम्बं डिम्बं डिडिम्बं डुभडुभडुडुभं नाडिवन्नाडिभण्डम् ।
रुण्डं रुण्डं रुरुण्डं यरलव खखुमं मंखुमंखुः खुमंखुः पश्य त्वं जीवलोके दशबलबलिनः पीड्यते मारसैन्यम् ॥

20.16

भूकम्पोत्कम्पजाता प्रचलितवसुधा कम्पते मेरुराज उत्त्रस्ता देवसंघा ग्रहगणसहिता नागराजाः समस्ताः ।
श्रुत्वा गण्डीं प्रचण्डां विविधभयकरीं त्रासनीं तैर्थिकानां बौद्धानां शान्तिहेतोः प्रतिरणति महीं रावयन्तीव सद्यः ॥

20.17

एषा विहारशिखरे प्रविरौति गण्डी मेघस्वनेन कुरुते च मनोज्ञघोषान् ।
मातेव वत्सलतया सुबहिर्गतांश्च पुत्रान् समाह्वयति भोजनकालगण्डी ॥

20.18

संसारचक्रपरिवर्तनतत्परस्य बुद्धस्य सर्वगुणरत्नविभूषितस्य ।
नादं करोति सुरदुन्दुभितुल्यघोषा गण्डी समस्तदुरितानि निवारयन्ती ॥

20.19

एषा हि गण्डी रणते नराणां संबोधिनी देवनरासुराणाम् ।
भद्राः शृणुध्वं सुगतस्य गण्डीमापूरितां भिक्षुगणैः समग्रैः ॥

20.20

नागैः संवर्तकालक्षुभितजलधराकारवद् व्योम्नि कीर्णैः क्वास्मिन् विघ्वंसशङ्का भयचकितजनैस्तत्प्रतीकारहेतोः ।
कुर्वन्त्यद्यापि यस्या ध्वनिमुपशमिताशेषतीर्थ्यावलेपं सा गण्डी पातु युष्मान् सकलमुनिवरैः स्थापिता धर्मवृद्ध्यै ॥

20.21

एषा सुरासुरमहोरगसत्कृतस्य शान्तिं परामुपगतस्य तथागतस्य ।
गण्डी रणत्यमरदुन्दुभितुल्यघोषान् कृत्वान्यतीर्थ्यहृदयानि विदारयन्ती ॥

20.22

पुण्ये तत्परमानसा भवत भोः स्वर्गापवर्गप्रदे पापं दुर्गतिदायकं कुरुत मा लोकाश्चलं जीवितम् ।
इत्थं मध्यविलीनभृङ्गविरुतं यत्नान्निवार्यं मया मारारेश्चरणाब्जयोर्विनिहितः पुष्पाञ्जलिः पातु वः ॥

20.23

मुञ्जद्भिः कुसुमानि तूर्यरणितैरापूरयद्भिर्दिशो जोजोकारपुरःसरैः सुरगणैः शक्रादिभिः सादरैः ।
स्वर्गाद् यस्य भुवं किलावतरतो दत्तानुयात्रा चिरं तस्याव्यात् करुणानिधेर्भगवतो गण्डी प्रचण्डा जगत् ॥

20.24

गत्वा सप्त पदानि मातुरुदरान्निष्क्रान्तमात्रः स्वयं संसारश्रवसं ममेति वचनं प्रोवाच यो ऽनन्यधीः ।
यस्मिन्नात्मभुवे पुनस्त्रिभुवनं भ्राजिष्ण्वभिव्याहृतं कुर्याद्वः सुगतस्य तस्य जयिनो गण्डी तमःखण्डिनी ॥

20.25

जित्वा मारबलं महाभयकरं कृत्वा च दोषक्षयं सर्वज्ञं पदमाप यत् सुरुचिरं तत्रैव रात्रौ बहिः ।
तस्याशेषगुणाकरस्य सुधियो बुद्धस्य शुद्धात्मनो गण्डी खण्डितचण्डकिल्विषहरा भूयाद् विभूत्यै नृणाम् ॥

20.26

ब्रह्मा जिह्म इवाभवत् सुरगुरुर्गर्वं जहौ सर्वथा शर्वः खर्वमतिर्बभूव भगवान् विष्णुश्च तूष्णीं स्थितः ।
इत्थं यद्गुणकीर्तनेषु विबुधा याता ह्रिया मूकतां गण्डी तस्य मुनेरियं जयति वः पायादपायाज्जगत् ॥

20.27

ब्रह्मादित्यशशाङ्कशङ्करशताक्षोपेन्द्रयक्षादयो गन्धर्वोरगकिन्नरासुरसमीरप्रेतपीडाम्बराः ।
ये तिष्ठन्त्यमरा नरा क्षितितले पाताललोकेषु च श्रोतुं धर्ममिमं तथागतगुरोः सर्वे समायान्तु ते ॥

20.28

यस्या जन्मनि दीनहीनमतयः प्रापुः शुचं तीर्थिकाः हर्षोत्कर्षविशेषवर्धितधियो बौद्धा धृतिं लेभिरे ।
यामासाद्य गुणाः प्रयान्ति विततिं दोषा व्रजन्ति क्षयं सा गण्डी कलिकालकल्मषहरा भूयाद् भवद्भूतये ॥

20.29

यां नत्वा विधिवद् विशुद्धमतयो गच्छन्ति तुङ्गां गतिं यस्याः क्षिप्रतरं प्रयान्ति विवशाः सर्वे विपक्षाः क्षयम् ।
ध्वस्तव्यस्तसमस्तमोहपटला सा धर्मगण्डी मुनेः संभूयाद् भवभाविसाध्वसभिदे युष्माकमायुष्मताम् ॥

20.30

श्रुत्वा यां पतिता महीतलमलं ब्रह्मादयः स्वर्भुवः कम्पन्ते धरणीधराः क्षितिरपि क्षिप्रं गता क्ष्मातलम् ।
तीर्थ्यानां भयकारिणी परहितायारम्भशुद्धात्मनां बौद्धानामुपशान्तये सपदि सा संताड्यतां गण्डिका ॥

20.31

प्रौढालीढाभिरुढो गुरुतरचरणक्रान्तगौरीस्तनाग्रं सर्वज्ञस्योत्तराङ्गं स्फुटविकटशता गर्जयन् वज्रमुख्या ।
ज्वालामालोज्ज्वलाङ्गं त्रिभुवनविवरव्याप्तहुंकारभीमो बद्धव्याबद्धमौलिर्जयति सुरनरादित्यचन्द्रासुरेन्द्रः ॥

20.32

पीनोत्तुङ्गस्तनीनां हरिणदृशदृशां हंसलीलागतीनां दं दं दं दं द दं दं तनि तनि तनितस्तालिका कामिनीनाम् ।
तुं तुं तुं तुं ततुं तुं नकटिनमभितो गीतितो गीतवाद्यैः टुं टुं टुं टुं टुटुं टुं टुमिति मितनता हन्यते गण्डिकेयम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc