भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 19

19.1

संबुद्धं पुण्डरीकाक्षं सर्वज्ञं करुणात्मकम् ।
समन्तभद्रं शास्तारं शाक्यसिंहं नमाम्यहम् ॥

19.2

श्रीघनं श्रीमतिं श्रेष्ठं शीतराशिं शिवंकरम् ।
श्रीमन्तं श्रीकरं शान्तं शान्तमूर्तिं नमाम्यहम् ॥

19.3

नैरात्म्यवादिनमिन्दुं निरवद्यं निराश्रयम् ।
श्रुतिज्ञं निर्मलात्मानं निस्थूलकं नमाम्यहम् ॥

19.4

निरोधकं नित्यज्ञानं निर्विकल्पं तथागतम् ।
नियतं निधिनाकेशं निष्प्रपञ्चं नमाम्यहम् ॥

19.5

विश्वेश्वरं विमुक्तिज्ञं विश्वरुपं विनायकम् ।
विश्वब्रह्म सुसम्पन्नं वीतरागं नमाम्यहम् ॥

19.6

विद्याचरणसंपन्नं विश्वेशं विमलप्रभम् ।
विनिमज्ञं सविष्टम्भं वीतमोहं नमाम्यहम् ॥

19.7

दुर्दान्तदमकं शान्तं शुद्धं शौद्धोदनिं मुनिम् ।
सुगतं सुगतिं सौम्यं शुभ्रकीर्तिं नमाम्यहम् ॥

19.8

योगेश्वरं दशबलं लोकज्ञं लोकपूजितम् ।
लोकाचार्यं लोकमूर्तिं लोकनाथं नमाम्यहम् ॥

19.9

कनकमूर्तिं कर्माब्धिमकलङ्कं कलाधरम् ।
कान्तमूर्तिं दयापात्रं कनकाभं नमाम्यहम् ॥

19.10

महामतिं महावीर्यं महाविज्ञं महाबलम् ।
महामहं महाधैर्यं महाबाहुं नमाम्यहम् ॥

19.11

आद्यं पवित्रं तद्ब्रह्ममपराजितमद्भुतम् ।
आर्यं परहितं नाथममिताभं नमाम्यहम् ॥

19.12

देवदेवं महादेवं दिव्यं वन्दितमव्ययम् ।
प्रमाणभूतं देवेशं दिव्यरूपं नमाम्यहम् ॥

19.13

परमार्थं परज्योतिं परमं परमेश्वरम् ।
भावाभावकरं श्रेष्ठं भगवन्तं नमाम्यहम् ॥

19.14

चतुर्मारादिविजितं तत्त्वज्ञं शंकरं शिवम् ।
तत्त्वसारं सदाचारं सार्थवाहं नमाम्यहम् ॥

19.15

जितेन्द्रियं जितक्लेशं जिनेन्द्रं पुरुषोत्तमम् ।
उत्तमं सत्पदं ब्रह्म पुण्यक्षेत्रं नमाम्यहम् ॥

19.16

एतैः स्तुत्वा मुनिश्रेष्ठं नरा विगतकल्मषाः ।
प्राप्नुवन्ति पदं मोक्षं दिव्यं त्वथ सनातनम् ॥

19.17

यस्त्विदं पठते नित्यं प्रातरूत्थाय पण्डितः ।
नाम्नामष्टोत्तरशतं पवित्रं पापनाशनम् ॥

19.18

लभते चेप्सितान् भोगान् सौमनस्येन वर्णितान् ।
व्याधयो ऽपि न बाध्यन्ते पातकं च विनश्यति ॥

19.19

आयुरारोग्यमैश्वर्यसर्वमोक्षसमन्वितः ।
मेधावी च तथा वाग्मी जायते जन्मजन्मनि ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc