भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 12

12.1

स्तुत्वा गुणैरनुपमैरनुबिन्दुपात्रं स्तोत्रं मया कृतमिदं जडवालिशेन ।
लोकेश्वरं गुणनिधिं गुणसागरं च नित्यं नमामि शिरसाञ्जलिसंपुटेन ॥

12.2

प्राणेषु यन् स्रवति येन रसाम्बुपारान् क्षुत्तृष्णदुःखपरिपीडितसर्वसत्त्वान् ।
एवंविधं जगदिदं परिपालनाय तस्मै नमो ऽस्तु सततं हि यथार्थनाम्ने ॥

12.3

सत्कुङ्कुमात्तमरुणाङ्कसमानवर्णं द्वात्रिंशलक्षणविभूषितगात्रशोभम् ।
सर्वेषु यस्य करुणामयवत्सलत्वं तस्मै नमामि भवते करुणामयाय ॥

12.4

संसारसागरमहालयनाशदक्ष एकस्त्वमेव शरणं भुवि नैकनाथ ।
केनापि त्वद्गुणगणा गणने न शक्यास्तं लोकनाथमवलोकितनामसंज्ञम् ॥

12.5

नानाविधाभरणमण्डितदिव्यरुपं बालेन्दुलग्नजटभूषितलोकनाथम् ।
वामे च मण्डलधरं वरदं च सव्ये त्वां लोकनाथ शरणं प्रव्रजामि नित्यम् ॥

12.6

ब्रह्मादिभिः परिवृतं सुरसिद्धसंघैर्गन्धर्वकिन्नरमहोरगनागयक्षैः ।
नाथस्य यस्य भवतश्चरणाम्बुजं च तं लोकनाथचरणं शरणं व्रजामि ॥

12.7

भूतैः पिशाचगरुडोरगराक्षसीभिः कुम्भाण्डपूतनमहल्लकराजराजैः ।
वैश्वानरासुरशतैः परिवारभूतं तं लोकनाथचरणं शरणं गतो ऽस्मि ॥

12.8

अब्धिर्दिवाकरकरैर्नहि शोषमेति तद्वत्कवीश्वरशतैर्गुणसागरस्ते ।
लोकेश्वर प्रथितकीर्तिनिधानभूतो न क्षीयते गुणनिधिर्गुणसागरस्य ॥

12.9

श्लोकाष्टकं प्रतिदिनं खलु ये पठन्ति ते प्राप्नुवन्ति सहसा धनपुत्रमोक्षान् ।
कुष्ठादिरोगनिकरं क्षमतां प्रयाति वन्दामहे च नितरां तव पादयुग्मे ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc