108 Buddhist stotras · अध्याय 13
भुवनत्रयवन्दितलोकगुरुम् अमराधिपतिस्तुतब्रह्मवरम् ।
मुनिराजवरं द्युतिसिद्धिकरं प्रणमाम्यवलोकितनामधरम् ॥
सुगतात्मजरुपसुरुपधरं बहुलक्षणभूषितदेहवरम् ।
अमिताभतथागतमौलिधरं कनकाब्जविभूषितवामकरम् ॥
कुटिलामलपिङ्गलधूम्रजटं शशिबिम्बसमुज्ज्वलपूर्णमुखम् ।
कमलायतलोचनचारुवरं हिमखण्डविपाण्डुरगण्डयुगम् ॥
अधरं जितपङ्कजनाभिसमं शरदम्बुदगर्जितमेघरुतम् ।
बहुरत्नविभूषितबाहुयुगं तनुकोमलशाद्वलपाणितलम् ॥
मृगचर्मविवेष्टितवामतनुं शुभकुण्डलमण्डितलोलधरम् ।
विमलं कमलोदरनाभितलं मणिमण्डितमेखलहेमवरम् ॥
कटिवेष्टितचित्रसुवस्त्रधरं जिनबोधिमहोदधिपारगतम् ।
बहुपुण्यमुपार्जितलब्धवरं ज्वरव्याधिहरं बहुसौख्यकरम् ॥
शुभशान्तिकरं त्रिभवास्यकरं सचरं खचरं स्तुतिदेहधरम् ।
विविधाकुलनिर्जितमारबलं दशपारमितापरमार्थकरम् ॥
चतुरस्रविहारविवेकपरं तथताद्वयबोधविबोधकरम् ।
मणिनूपुरगर्जितपादयुगं गजमन्दविलम्बितहंसगतिम् ॥
परिपूर्णमहामृतलब्धधृतिं क्षीरोदजलार्णवनित्यगतिम् ।
श्रीपोतलकाभिनिवासरतिं करुणामयनिर्मलचारुदृशम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0