108 Buddhist stotras · अध्याय 10
आराधितो ऽसि भुजगासुरलोकसंघैर्गन्धर्वयक्षमुनिभिः परिवन्दिताय ।
द्वात्रिंशदादिवरलक्षणभूषिताय नित्यं नमामि शिरसा करुणामयाय ॥
बालार्ककोटिसमतेजकलेवराय आलोकिते सुगतशेखरधारिताय ।
शुभ्रांशुमौलितिलकाय जटधराय नित्यं नमामि शिरसा करुणामयाय ॥
अम्भोजपाणिकमलासनसंस्थिताय यज्ञोपवीतफणिराजसुमण्डिताय ।
रत्नादिहारकनकोज्ज्वलभूषिताय नित्यं नमामि शिरसा करुणामयाय ॥
उत्पादभङ्गभवसागरतारकाय दुर्ग्राहदुर्गतिभुवां परिमोचकाय ।
रागादिदोषपरिमुक्त सुनिर्मलाय नित्यं नमामि शिरसा करुणामयाय ॥
मैत्र्यादिभिश्चतुरब्रह्मविहारणाय धारामृतैः सकलसत्त्वसुपोषणाय ।
मोहान्धकारकृतदोषविदारणाय नित्यं नमामि शिरसा करुणामयाय ॥
दैत्येन्द्रवंशवलितारणमोक्षदाय सत्त्वोपकारत्वरितकृतनिश्चयाय ।
सर्वज्ञज्ञानपरिपूरितदेशनाय नित्यं नमामि शिरसा करुणामयाय ॥
अष्टादशनरकमार्गविशोधनाय अज्ञानगाढतिमिरपरिध्वंसनाय ।
ज्ञानैकदृष्टिव्यवलोकितमोक्षदाय नित्यं नमामि शिरसा करुणामयाय ॥
त्वं लोकनाथ भुवनेश्वर सुप्रदाय दारिद्रयदुःखमयपञ्जरदारणाय ।
त्वत्पादपङ्कजयुगप्रतिवन्दिताय नित्यं नमामि शिरसा करुणामयाय ॥
मार्तण्डमण्डलरुचिस्तथतास्वभावं त्वां नौम्यहः सुफलदः विमलप्रभावम् ।
चिन्तामणिं सुसदृशं त्वतिदुर्भगो ऽहं नित्यं नमामि शिरसा करुणामयाय ॥
यद्भक्तितो दशनखाञ्जलिसोत्तमाङ्गमष्टाङ्गकैः प्रणमितं तव पादपद्म ।
दुःखार्णवे पतितमुद्धर मां कृपालो नित्यं नमामि शिरसा करुणामयाय ॥
सप्ताष्टभूतगतमाधवशुक्लपक्षे तारापुनर्वसु सहे भृगुसूनुवारे ।
श्रीक्रौंचदारणतिथौ च स्तुतिं करोमि मे देहि वाञ्छितफलं भुवनैकनाथ ॥
ये पठन्ति महापुण्यं पवित्रं पापनाशनम् ।
सर्वकामार्थसिद्धिं च गमिष्यन्ति सुखावतीम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0