108 Buddhist stotras · अध्याय 107
ओम्कारोत्पन्नशुक्लाभं मध्यसिंहासनस्थितम् ।
बोध्यं त्रिमुद्रया युक्तं वैरोचनमुनिं नुमः ॥
हूंकारोत्पन्ननीलाभं पूर्वे गजासनस्थितम् ।
भूस्पर्शमुद्रया युक्तम् अक्षोभ्यं श्रीघन नुमः ॥
त्रांकारोत्पन्नहेमाभं दक्षिणे ऽश्वमारूढम् ।
वरदमुद्रया युक्तं नमामि रत्नसंभवम् ॥
झिङ्कारोत्पन्नरक्ताभं पश्चिमे मयूरासनम् ।
ध्यानमूर्तिधरं नाथम् अमिताभमुनिं नुमः ॥
खङ्कारोत्पन्नश्यामाभम् उत्तरे गरुडासनम् ।
अभयमुद्रसंबद्धममोघसिद्धिं नमाम्यहम् ॥
रोचना मामकी चैव पाण्डरा तारणी तथा ।
ब्रह्मादिकोणसंस्थाश्च चतुर्देव्यो नमो नमः ॥
निरंजनं निराकारं प्रत्येकज्योतिरूपिणम् ।
चैत्यमध्यस्थितं देवं वज्रसत्त्वं नुमो वयम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0