108 Buddhist stotras · अध्याय 108
अथ वज्रधरः श्रीमान् दुर्दान्तदमकः परः ।
त्रिलोकविजयी वीरो गुह्यराट् कुलिशेश्वरः ॥
विबुद्धपुण्डरीकाक्षः प्रोत्फुल्लकमलाननः ।
प्रोल्लालयन् वज्रवरं स्वकरेण मुहुर्मुहः ॥
भृकुटीतरङ्गप्रमुखैरनन्तैर्वज्रपाणिभिः ।
दुर्दान्तदमकैर्वीरैर्वीरवीभत्सरुपिभिः ॥
उल्लालयदिभिः स्वकरैः प्रस्फुरद्वज्रकोटिभिः ।
प्रज्ञोपायमहाकरुणाजगदर्थकरैः परैः ॥
हृष्टतुष्टाशयैर्मुदितैः क्रोधविग्रहरुपिभिः ।
बुद्धकृत्यकरैर्नाथैः सार्द्धं प्रणतविग्रहै ॥
प्रणम्य नाथं संबुद्धं भगवन्तं तथागतम् ।
कृताञ्जलिपुटो भूत्वा इदमाह स्थितो ऽग्रतः ॥
मद्धिताय ममार्थाय अनुकम्पाय मे विभो ।
मायाजालाभिसंबोधेर्यथालाभि भवाम्यहम् ॥
अज्ञानपङ्कमग्नानां क्लेशव्याकुलचेतसाम् ।
हिताय सर्वसत्त्वानामनुत्तरफलाप्तये ॥
प्रकाशयतु संबुद्धो भगवान् शास्ता जगद्गुरुः ।
महासमयतत्त्वज्ञ इन्द्रियाशयवित् परः ॥
भगवन्! ज्ञानकायस्य महोष्णीषस्य गीष्पतेः ।
मञ्जुश्रीज्ञानसत्त्वस्य ज्ञानमूर्तेः स्वयम्भुवः ॥
गम्भीरार्थामुदारार्थां महार्थामसमां शिवाम् ।
आदिमध्यान्तकल्याणीं नामसङ्गीतिमुत्तामाम् ॥
यातीतैर्भाषिता बुद्धैर्भाषिष्यन्ते ह्यानागताः ।
प्रत्युत्पन्नाश्च संबुद्धा यां भाषन्ते पुनः पुनः ॥
मायाजाले महातन्त्रे या चास्मिन् संप्रगीयते ।
महावज्रधरैर्हृष्टैरमेयैर्मन्त्रधारिभिः ॥
अहं चैनां धारयिष्याम्यानिर्याणाद् दृढाशयः ।
यथा भवाम्यहं नाथ सर्वसंबुद्धगुह्यधृक् ॥
प्रकाशयिष्ये सत्त्वानां यथाशयविशेषतः ।
अशेषक्लेशनाशाय अशेषाज्ञानहानये ॥
एवमध्येष्य गुह्येन्द्रो वज्रपाणिस्तथागतम् ।
कृताञ्जलिपुतो भूत्वा प्रह्वकायःस्थितो ऽग्रतः ॥
अथ शाक्यमुनिर्भगवान् संबुद्धो द्विपदोत्तमः ।
निर्णमय्यायतां स्फीतां स्वजिह्वां स्वमुखाच्छुभाम् ॥
स्मितं संदश्र्य लोकानामपायत्रयशोधनम् ।
त्रिलोकाभासकरणं चतुर्मारारिशासनम् ॥
त्रिलोकमापूरयन्त्या ब्राह्म मधुरया गिरा ।
प्रत्यभाषत गुह्येन्द्रं वज्रपाणिं महाबलम् ॥
साधु वज्रधर श्रीमन् साधु ते वज्रपाणये ।
यस्त्वं जगद्धितार्थाय महाकरुणयान्वितः ॥
महार्थां नामसङ्गीतिं पवित्रामघनाशिनीम् ।
मञ्जुश्रीज्ञानकायस्य मत्तः श्रोतुं समुद्यतः ॥
तत्साधु देशयाम्येषः अहं ते गुह्यकाधिप ।
शृणु त्वमेकाग्रमनास्तत्साधु भगवन्निति ॥
अथ शाक्यमुनिर्भगवान् सकलं मन्त्रकुलं महत् ।
मन्त्रविद्याधरकुलं व्यवलोक्य कुलत्रयम् ॥
लोकलोकोत्तरकुलं लोकालोककुलं महत् ।
महामुद्राकुलं चाग्र्यं महोष्णीषकुलं महत् ॥
इमां षण्मन्त्रराजानां संयुक्तामद्वयो दयाम् ।
अनुत्पादधर्मिणीं गाथां भाषते स्म गिरांपतेः ॥
अ आ इ ई उ ऊ ए ऐ ओ औ अं अः स्थितो हृदि ।
ज्ञानमूर्तिरहं बुद्धो बुद्धानां त्र्यध्ववर्तिनाम् ॥
ओम् वज्रतीक्ष्णदुःखच्छेदप्रज्ञाज्ञानमूर्तये ।
ज्ञानकायवागीश्वरारपचनाय ते नमः ॥
तद्यथा भगवान् बुद्धः संबुद्धो ऽकारसम्भवः ।
अकारः सर्ववर्णाग्र्यो महार्थः परमाक्षरः ॥
महाप्राणो ह्यनुत्पादो वागदाहारवर्जितः ।
सर्वाभिलापहेत्व्ग्र्यः सर्ववाक्सुप्रभास्वरः ॥
महामहमहारागः सर्वसत्त्वरतिङ्करः ।
महामहमहाद्वेषः सर्वक्लेशमहारिपुः ॥
महामहमहामोहो मूढधीमोहसूदनः ।
महामहमहाक्रोधो महाक्रोधरिपुर्महान् ॥
महामहमहालोभः सर्वलोभनिषूदनः ।
महाकामो महासौख्यो महामोदो महारतिः ॥
महारुपो महाकायो महावर्णो महावपुः ।
महानामा महोदारो महाविपुलमण्डलः ॥
महाप्रज्ञायुधधरो महाक्लेशाङ्कुशो ऽग्रणीः ।
महायशा महाकीर्तिर्महाज्योतिर्महाद्युतिः ॥
महामायाधरो विद्वान् महामायार्थसाधकः ।
महामायारतिरतो महामायेन्द्रजालिकः ॥
महादानपतिः श्रेष्ठो महाशीलधरो ऽग्रणीः ।
महाक्षान्तिधरो धीरो महावीर्यपराक्रमः ॥
महाध्यानसमाधिस्थो महाप्रज्ञाशरीरधृक् ।
महाबलो महापायः प्रणिधिर्ज्ञानसागरः ॥
महामैत्रीमयो ऽमेयो महाकारुणिको ऽग्रधीः ।
महाप्रज्ञो महाधीमान् महोपायो महाकृतिः ॥
महाऋद्धिबलोपेतो महावेगो महाजवः ।
महर्द्धिको महेशाख्यो महाबलपराक्रमः ॥
महाभवाद्रिसंभेत्ता महावज्रधरो धनः ।
महाक्रूरो महारौद्रो महाभयभयङ्कर ॥
महाविद्योत्तमो नाथो महामन्त्रोत्तमो गुरुः ।
महायाननयारुढो महायाननयोत्तमः ॥
महावैरोचनो बुद्धो महामौनी महामुनिः ।
महामन्त्रनयोद्भूतो महामन्त्रनयात्मकः ॥
दशपारमिताप्राप्तो दशपारमिताश्रयः ।
दशपारमिताशुद्धिर्दशपारमितानयः ॥
दशभूमीश्वरो नाथो दशभूमिप्रतिष्ठितः ।
दशज्ञानविशुद्धात्मा दशज्ञानविशुद्धधृक् ॥
दशाकारो दशार्थार्थो मुनीन्द्रो दशबलो विभुः ।
अशेषविश्वार्थकरो दशाकारवशी महान् ॥
अनादिर्निष्प्रपञ्चात्मा शुद्धात्मा तथतात्मकः ।
भूतवादी यथावादी तथाकारी अनन्यवाक् ॥
अद्वयो द्वयवादी च भूतकोटिव्यवस्थितः ।
नैरात्म्यसिंहनिर्णादी कुतीथ्र्यमृगभीकरः ॥
सर्वत्रगो ऽमोघगतिस्तथागतमनोजवः ।
जिनो जितारिर्विजयो चक्रवर्ती महाबलः ॥
गणमुख्यो गणाचार्यो गणेशो गणपतिर्वशी ।
महानुभावो धौरेयो ऽनन्यनेयो महानयः ॥
वागिशो वाक्पतिर्वाग्मी वाचस्पतिरनन्तगोः ।
सत्यवाक् सत्यवादी च चतुःसत्योपदेशकः ॥
अवैवर्तिको ह्यनागामो खड्गः प्रत्येकनायकः ।
नानानिर्याणनिर्यातो महाभूतैककारणः ॥
अर्हन् क्षीणास्रवो भिक्षुर्वीतरागो जितेन्द्रियः ।
क्षेमप्राप्तो ऽभयप्राप्तः शीतीभूतो ह्यानाविलः ॥
विद्याचरणसंपन्नः सुगतो लोकवित्परः ।
निर्ममो निरहङ्कारः सत्यद्वयनयस्थितः ॥
संसारपारकोटिस्थः कृतकृत्यः स्थलस्थितः ।
कैवल्यज्ञाननिष्ठियुतः प्रज्ञाशस्त्रो विदारणः ॥
सद्धर्म्मो धर्मराड् भास्वान् लोकालोककरः परः ।
धर्मेश्वरो धर्मराजः श्रेयोमार्गोपदेशकः ॥
सिद्धार्थः सिद्धसंकल्पः सर्वसंकल्पवर्जितः ।
निर्विकल्पो ऽक्षयो धातुर्धर्मधातुः परो ऽव्ययः ॥
पुण्यवान् पुण्यसंभारो ज्ञानं ज्ञानाकरं महत् ।
ज्ञानवान् सदसज्ज्ञानी संभारद्वयसंभृतः ॥
शाश्वतो विश्वराड् योगी ध्यानं ध्येयो धियांपतिः ।
प्रत्यात्मवेद्यो ह्यचलः परमाद्यस्त्रिकायधृक् ॥
पञ्चकायात्मको बुद्धः पञ्चज्ञानात्मको विभुः ।
पञ्चबुद्धात्ममुकुटः पञ्चचक्षुरसङ्गधृक् ॥
जनकः सर्वबुद्धानां बुद्धपुत्रः परोवरः ।
प्रज्ञाभवोद्भवो योनिर्धर्मयोनिर्भवान्तकृत् ॥
घनैकसारो वज्रात्मा सद्योजातो जगत्पतिः ।
गगनोद्भवः स्वयम्भूः प्रज्ञाज्ञानानलो महान् ॥
वैरोचनो महादीप्तिर्ज्ञानज्योतिर्विरोचनः ।
जगत्प्रदीपो ज्ञानोल्को महातेजाः प्रभास्वरः ॥
विद्याराजो ऽग्रमन्त्रेशो मन्त्रराजो महार्थकृत् ।
महोष्णीषो ऽद्भुतोष्णीषो विश्वदर्शी वियत्पतिः ॥
सर्वबुद्धात्मभावाग्र्यो जगदानन्दलोचनः ।
विश्वरुपी विधाता च पूज्यो, मान्यो महाऋषिः ॥
कुलत्रयधरो मन्त्री महासमयमन्त्रधृक् ।
रत्नत्रयधरः श्रेष्ठस्त्रियानोत्तमदेशकः ॥
अमोघपाशो विजयी वज्रपाशो महाग्रहः ।
वज्राङ्कुशो महापाशः वज्रभैरवभीकरः ॥
क्रोधराट् षण्मुखो भीमः षण्णेत्रः षड्भुजो बली ।
दंष्ट्राकरालः कङ्कालो हलाहलः शताननः ॥
यमान्तको विघ्नराजो वज्रवेगो भयङ्करः ।
विघुष्टवज्रो हृद्वज्रो मायावज्रो महोदरः ॥
कुलिशेशो वज्रयोनिर्वज्रमण्डो नभोपमः ।
अचलैकजटाटोपो गजचर्मपटार्द्रधृक् ॥
हाहाकारो महाघोरो हीहीकारो भयानकः ।
अट्टहासो महाहासो वज्रहासो महारवः ॥
वज्रसत्त्वो महासत्त्वो वज्रराजो महासुखः ।
वज्रचण्डो महामोदो वज्रहूंकारहूंकृतिः ॥
वज्रबाणायुधधरो वज्रखड्गो निकृन्तनः ।
विश्ववज्रधरो बज्री एकवज्री रणञ्जहः ॥
वज्रज्वालाकरालाक्षो वज्रज्वालाशिरोरुहः ।
वज्रावेशो महावेशः शताक्षो वज्रलोचनः ॥
वज्ररोमाङ्कुरतनुर्वज्ररोमैकविग्रहः ।
वज्रकोटिनखारम्भो वज्रसारघनच्छवि ॥
वज्रमालाधरः श्रीमान् वज्राभरणभूषितः ।
हाहाट्टहासो निर्घोषो वज्रघोषः षडक्षरः ॥
मञ्जुघोषो महानादस्त्रैलोक्यैकरवो महान् ।
आकाशधातुपर्यन्तघोषो घोषवतां वरः ॥
तथताभूतनैरात्म्यभूतकोटिरनक्षरः ।
शून्यतावादिवृषभो गम्भीरोदारगर्जनः ॥
धर्मशङ्खो महाशब्दो धर्मगण्डी महारणः ।
अप्रतिष्ठितनिर्वाणो दशदिग्धर्मदुन्दुभिः ॥
अरुपो रुपवानग्र्यो नानारुपो मनोमयः ।
सर्वरुपावभासश्रीरशेषप्रतिबिम्बधृक् ॥
अप्रधृष्यो महेशाख्यस्त्रैधातुकमहेश्वरः ।
समुच्छ्रितार्यमार्गस्थो धर्मकेतुर्महोदय ॥
त्रैलोक्यैककुमाराङ्गः स्थविरो वृद्धः प्रजापति ।
द्वात्रिंशल्लक्षणधरः कान्तस्त्रैलोक्यसुन्दरः ॥
लोकज्ञानगुणाचार्यो लोकाचार्यो विशारदः ।
नाथस्त्राता त्रिलोकाप्तः शरणं ताय्यनुत्तरः ॥
गगनाभोगसम्भोगः सर्वज्ञज्ञानसागरः ।
अविद्याण्डकोशसंभेत्ता भवपञ्जरदारणः ॥
शमिताशेषसंक्लेशः संसारार्णवपारगः ।
ज्ञानाभिषेकमुकुटः सम्यक्संबुद्धभूषणः ॥
त्रिदुःखदुःखशमनस्त्र्यन्तो ऽनन्तस्त्रिमुक्तिगः ।
सर्वावरणनिर्मुक्त आकाशसमतां गतः ॥
सर्वक्लेशमलातीतस्त्र्यध्वानध्वगतिं गतः ।
सर्वसत्त्वमहानागो गुणशेखरशेखरः ॥
सर्वोपधिविनिर्मुक्तो व्योमवत्र्मनि सुस्थितः ।
महाचिन्तामणिधरः सर्वरत्नोत्तमो विभुः ॥
महाकल्पतरुः स्फीतो महाभद्रघटोत्तमः ।
सर्वसत्त्वार्थकृत्कर्त्ता हितैषी सत्त्ववत्सलः ॥
शुभाशुभज्ञः कालज्ञः समयज्ञः समयो विभुः ।
सत्त्वेन्द्रियज्ञो वेलज्ञो विमुक्तित्रयकोविदः ॥
गुणी गुणज्ञो धर्मज्ञः प्रशस्तो मङ्गलोदयः ।
सर्वमङ्गलमाङ्गल्यः कीर्तिर्लक्ष्मीर्यशः शुभः ॥
महोत्सवो महाश्वासो महानन्दो महारतिः ।
सत्कारः सत्कृतिर्भूतिः प्रमोदः श्रीर्यशस्पतिः ॥
वरेण्यो वरदः श्रेष्ठः शरण्यः शरणोत्तमः ।
महाभयारिः प्रवरो निःशेषभयनाशनः ॥
शिखी शिखण्डी जटिलो जटी मौण्डी किरीटिमान् ।
पञ्चाननः पञ्चशिखः पञ्चचीरकशेखरः ॥
महाब्रतधरो मौञ्जी ब्रह्मचारी ब्रतोत्तमः ।
महातपास्तपोनिष्ठः स्नातको गौतमो ऽग्रणी ॥
ब्रह्मविद् ब्राह्मणो ब्रह्मा ब्रह्मनिर्वाणमाप्तवान् ।
मुक्तिर्मोक्षो विमोक्षाङ्गो विमुक्तिः शान्तता शिवः ॥
निर्वाणं निर्वृतिः शान्तिः श्रेयो निर्याणमन्तगः ।
सुखदुःखान्तकृन्निष्ठा वैराग्यमुपधिक्षयः ॥
अजयो ऽनुपमो ऽव्यक्तो निराभासो निरञ्जनः ।
निष्कलः सर्वगो व्यापी सूक्ष्मो बीजमनाश्रवः ॥
अरजो विरजो विमलो वान्तदोषो निरामयः ।
सुप्रबुद्धो विबुद्धात्मा सर्वज्ञः सर्ववित्परः ॥
विज्ञानधर्मतातीतो ज्ञानमद्वयरुपधृक् ।
निर्विकल्पो निराभोगस्त्र्यध्वसंबुद्धकार्यकृत् ॥
अनादिनिधनो बुद्ध आदिबुद्धो निरन्वयः ।
ज्ञानैकचक्षुरमलो ज्ञानमूर्तिस्तथागतः ॥
वागीश्वरो महावादी वादिराड् वादिपुङ्गवः ।
वदतांवरो वरिष्ठो वादिसिंहो ऽपराजितः ॥
समन्तदर्शी प्रामोद्यस्तेजोमाली सुदर्शनः ।
श्रीवत्सः सुप्रभो दीप्तिर्भाभासुरकरद्युतिः ॥
महाभिषग्वरः श्रेष्ठः शल्यहर्ता निरुत्तरः ।
अशेषभैषज्यतरुः क्लेशव्याधिर्महारिपुः ॥
त्रैलोक्यतिलकः कान्तः श्रीमान् नक्षत्रमण्डलः ।
दशदिग्व्योमपर्य्यन्तो धर्मध्वजमहोच्छ्रयः ॥
जगच्छत्रैकविपुलो मैत्रीकरुणमण्डलः ।
पद्मनृत्येश्वरः श्रीमान् रत्नच्छत्रो महाविभुः ॥
सर्वबुद्धमहाराजः सर्वबुद्धात्मभावधृक् ।
सर्वबुद्धमहायोगः सर्वबुद्धैकशासनः ॥
वज्ररत्नाभिषेकश्रीः सर्वरत्नाधिपेश्वरः ।
सर्वलोकेश्वरपतिः सर्ववज्रधराधिपः ॥
सर्वबुद्धमहाचित्तः सर्वबुद्धमनोगतिः ।
सर्वबुद्धमहाकायः सर्वबुद्धसरस्वती ॥
वज्रसूर्य्यमहालोको वज्रेन्दुविमलप्रभः ।
विरागादिमहारागो विश्ववर्णोज्ज्वलप्रभः ॥
सम्बुद्धवज्रपर्यङ्को बुद्धसङ्गीतिधर्मधृक् ।
बुद्धपद्मोद्भवः श्रीमान् सर्वज्ञज्ञानकोषधृक् ॥
विश्वमायाधरो राजा बुद्धविद्याधरो महान् ।
वज्रतीक्ष्णो महाखड्गो विशुद्धः परमाक्षरः ॥
दुःखच्छेदमहायानवज्रधर्ममहायुधः ।
जिनजिग् वज्रगाम्भीर्यो वज्रबुद्धिर्यथार्थवित् ॥
सर्वपारमितापूरी सर्वभूमिविभूषणः ।
विशुद्धधर्मनैरात्म्यः सम्यग्ज्ञानेन्दुहृत्प्रभः ॥
मायाजालमहोद्योगः सर्वतन्त्राधिपः परः ।
अशेषवज्रपर्यङ्को निःशेषज्ञानकायधृक् ॥
समन्तभद्रः सुमतिः क्षितिगर्भो जगद्धृतिः ।
सर्वबुद्धमहागर्भो विश्वनिर्माणचक्रदृक् ॥
सर्वभावस्वभावाग्य्रः सर्वभावस्वभावधृक् ।
अनुत्पादधर्मा विश्वार्थः सर्वधर्मस्वभावधृक् ॥
एकक्षणमहाप्राज्ञः सर्वधर्मावबोधधृक् ।
सर्वधर्माभिसमयो भूतान्तमुनिरग्रधीः ॥
स्तिमितः सुप्रसन्नात्मा सम्यक्संबुद्धबोधिधृक् ।
प्रत्यक्षः सर्वबुद्धानां ज्ञानार्चिः सुप्रभास्वरः ॥
इष्टार्थसाधकः परः सर्वापायविशोधकः ।
सर्वसत्त्वोत्तमो नाथः सर्वसत्त्वप्रमोचकः ॥
क्लेशसंग्रामशूरैकः अज्ञानरिपुदर्पहा ।
धीशृङ्गारधरः श्रीमान् वीरबीभत्सरुपधृक् ॥
बाहुदण्डशताक्षेपपदनिक्षेपनर्त्तनः ।
श्रीमच्छतभुजाभोगगगनाभोगनर्त्तनः ॥
एकपादतलाक्रान्तमहीमण्डतले स्थितः ।
ब्रह्माण्डशिखराक्रान्तपादाङ्गुष्ठनखे स्थितः ॥
एकार्थो ऽद्वयधर्मार्थः परमार्थो ऽविनश्वरः ।
नानाविज्ञप्तिरुपार्थश्चित्तविज्ञानसंततिः ॥
अशेषभावार्थरतिः शून्यतारतिरग्रधीः ।
भवरागाद्यतीतश्च भवत्रयमहारतिः ॥
शुद्धः शुभ्राभ्रधवलः शरच्चन्द्रांशुसुप्रभः ।
बालार्कमण्डलच्छायो महारागनखप्रभः ॥
इन्द्रनीलाग्रसच्चीरो महानीलकचाग्रधृक् ।
महामणिमयूखश्रीर्बुद्धनिर्वाणभूषणः ॥
लोकधातुशताकम्पी ऋद्धिपादमहाक्रमः ।
महास्मृतिधरस्तत्त्वश्चतुःस्मृतिसमाधिराट् ॥
बोध्यङ्गकुसुमामोदस्तथागतगुणोदधिः ।
अष्टाङ्गमार्गनयवित् सम्यक्संबुद्धमार्गवित् ॥
सर्वसत्त्वमहासङ्गो निःसङ्गो गगनोपमः ।
सर्वसत्त्वमनोजातः सर्वसत्त्वमनोजवः ॥
सर्वसत्त्वेत्द्रियार्थज्ञः सर्वसत्त्वमनोहरः ।
पञ्चस्कन्धार्थतत्त्वज्ञः पञ्चस्कन्धविशुद्धधृक् ॥
सर्वनिर्याणकोटिस्थः सर्वनिर्याणकोविदः ।
सर्वनिर्याणमार्गस्थः सर्वनिर्याणदेशकः ॥
द्वादशाङ्गभवोत्खातो द्वादशाकारशुद्धधृक् ।
चतुःसत्यनयाकारो अष्टज्ञानावबोधधृक् ॥
द्वादशाकारसत्यार्थः षोडशाकारतत्त्ववित् ।
विंशत्याकारसंबोधिर्विबुद्धः सर्ववित्परः ॥
अमेयबुद्धनिर्माणकायकोटिविभावकः ।
सर्वक्षणाभिसमयः सर्वचित्तक्षणार्थवित् ॥
नानायाननयोपायजगदर्थविभावकः ।
यानत्रितयनिर्यात एकयानफले स्थित ॥
क्लेशधातुविशुद्धात्मा कर्मधातुक्षयङ्करः ।
ओघोदधिसमुत्तीर्णो योगकान्तारनिसृतः ॥
क्लेशोपक्लेशसंक्लेशसुप्रहीणसवासनः ।
प्रज्ञोपायमहाकरुणा अमोघजगदर्थकृत् ॥
सर्वसंज्ञाप्रहोणार्थो विज्ञानार्थो निरोधकृत् ।
सर्वसत्त्वमनोविषयः सर्वसत्त्वमनोगतिः ॥
सर्वसत्त्वमनो ऽन्तस्थस्तच्चित्तसमताङ्गतः ।
सर्वसत्त्वमनोह्लादी सर्वसत्त्वमनोरतिः ॥
सिद्धान्तो विभ्रमापेतः सर्वभ्रान्तिविवर्जितः ।
निःसंदिग्धमतिस्त्र्यर्थः सर्वार्थस्त्रिगुणात्मकः ॥
पञ्चस्कन्धार्थस्त्रिकालः सर्वक्षणविभावकः ।
एकक्षणाभिसंबुद्धः सर्वबुद्धस्वभावधृक् ॥
अनङ्गकायः कायाग्य्रः कायकोटिविभावकः ।
अशेषरुपसन्दर्शी रत्नकेतुर्महामणिः ॥
सर्वसंबुद्धबोद्धव्यो बुद्धबोधिरनुत्तरः ।
अनक्षरो मन्त्रयोनिर्महामन्त्र कुलत्रयः ॥
सर्वमन्त्रार्थजनको महाबिन्दुरनक्षरः ।
पञ्चाक्षरो महाशून्यो बिन्दुशून्यः षडक्षरः ॥
सर्वाकारो निराकारः षोडशार्धार्धबिन्दुधृक् ।
अकलः कलनातीश्चतुर्थध्यानकोटिधृक् ॥
सर्वध्यानकलाभिज्ञः समाधिकुलगोत्रवित् ।
समाधिकायः कायाग्य्रः सर्वसंभोगकायराट् ॥
निर्माणकायः कायाग्य्रो बुद्धनिर्माणवंशधृक् ।
दशदिग्विश्वनिर्माणो यथावज्जगदर्थकृत् ॥
देवातिदेवो देवेन्द्रः सुरेन्द्रो दानवाधिपः ।
अमरेन्द्रः सुरगुरुः प्रमथः प्रमथेश्वरः ॥
उत्तीर्णभवकान्तार एकः शास्ता जगद्गुरुः ।
प्रख्यातदशदिग्लोको धर्मदानपतिर्महान् ॥
मैत्रीसन्नाहसन्नद्धः करुणावर्मवर्मितः ।
प्रज्ञाखड्गो धनुर्बाणः क्लेशाज्ञानरणञ्जहः ॥
मारारिर्मारजिद्वीरश्चतुर्मारभयान्तकृत् ।
सर्वमारचमूजेता सम्बद्धो लोकनायकः ॥
वन्द्यः पूज्यो ऽभिवाद्यश्च माननीयश्च नित्यशः ।
अर्चनीयतमो मान्यो नमस्यः परमो गुरुः ॥
त्रैलोक्यैकक्रमगतिर्व्योमपर्य्यन्तविक्रमः ।
त्रैविद्यः श्रोत्रियः पूतः षडभिज्ञः षडनुस्मृतिः ॥
बोधिसत्त्वो महासत्त्वो लोकातीतो महर्द्धिकः ।
प्रज्ञापारमितानिष्ठः प्रज्ञातत्त्वत्वमागतः ॥
आत्मवित्परवित्सर्वः सर्वीयो ह्यग्रपुद्गलः ।
सर्वोपमामतिक्रान्तो ज्ञेयो ज्ञानाधिपः परः ॥
धर्मदानपतिः श्रेष्ठश्चतुर्मुद्रार्थदेशकः ।
पर्युपास्यतमो जगतां निर्याणत्रययायिनाम् ॥
परमार्थविशुद्धश्रीस्त्रैलोक्यसुभगो महान् ।
सर्वसम्पत्करः श्रीमान् मञ्जुश्रीः श्रीमतांवरः ॥
नमस्ते वरदवज्राग्य्र भूतकोटे नमो ऽस्तु ते ।
नमस्ते शून्यतागर्भ बुद्धबोधे नमोस्तु ते ॥
बुद्धराग नमस्ते ऽस्तु बुद्धकाम नमो नमः ।
बुद्धप्रीते नमस्तुभ्यं बुद्धमोद नमो नमः ॥
बुद्धस्मित नमस्तुभ्यं बुद्धहास नमो नमः ।
बुद्धवाच नमस्तुभ्यं बुद्धभाव नमो नमः ॥
अभवोद्भव नमस्तुभ्यं नमस्ते बुद्धसंभव ।
गगनोद्भव नमस्तुभ्यं नमस्ते ज्ञानसंभव ॥
मायाजाल नमस्तुभ्यं नमस्ते बुद्धनाटक ।
नमस्ते सर्वसर्वेभ्यो ज्ञानकाय नमो ऽस्तु ते ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0