108 Buddhist stotras · अध्याय 102
नटनी रजकी ब्राह्मी कपालिनी च सास(शाश्व) ता ॥
अमृता ऽमृतकुण्डली च ज्ञानज्योतिःप्रकाशिका ।
सर्वाशावीरदेवीनामियमेका महासुखा ॥
शून्यता गीयते चासौ पराशक्तिः परात्परा ।
अमृतोर्ध्वमना दिव्या उपाया नित्यवाहिनी ॥
खेचरी भूचरी चैव पातालवासिनी तथा ।
प्रवि(ति)ष्ठापूरणी नित्यं त्रैलोक्यक्षोभती(भिणी) तथा ॥
बिन्दुनादकला देवी चन्द्रसूर्यात्मिका हि सा ।
(नित्या) नैर्माणिकी चैव संभागी च महासुखा ॥
बिन्दुनादकलातीता प्रज्ञापारमिता मता ।
सर्वभावस्वभावा हि सर्वभावविवर्जिता ॥
प्रलयोत्पत्तिहीना च प्रलयोत्पत्तिकारिणी ।
शाश्वतत्वात् स्थिता प्रोक्ता शाश्वतेन च वर्जिता ॥
गम्भीरालिङ्गितोदारा महार्था स्वधिमुक्तिका ।
शून्यतात्रयहीना च प्रभास्वरस्वरूपिणी ॥
एकाराक्षररूपा च वंकाराक्षरसंगता ।
विचित्रादिक्षणैर्युक्ता चतुरानन्दरूपिणी ॥
बाह्यमण्डलचक्रे ऽपि स्फुरन्ती च त्रिकायतः ।
कायवाकचित्तभावेषु कायवाकचित्तभूषणी ॥
अतीत्य कायवाकचित्तैः समत्वेन च मध्यगा ।
नैरात्म्यरूपिणी देवी तथतायां प्रतिष्ठिता ॥
कमलकुलिशाक्रान्तशून्यतात्रयरूपिणी ।
ललनारसनायोगादवधूती महासुखा ॥
संसारतारणी चैषां तथा तासां प्रतीत्यजा ।
यां लब्ध्वा योगिनीं मुक्ता भवसंसारबन्धनात् ॥
इत्येषा ऋद्धिदा प्रोक्ता सिद्धिदा चैव योगिनी ।
मोक्षद्वारपरा चैव सतताभ्यासकारिणाम् ॥
वज्रवत् कुरुते देहं रससिद्धिं ददाति च ।
गुरुपादप्रसादेन लब्धेयं वज्रयोगिनी ॥
य(ए) तस्याः पाठमात्रेण पुण्यसंभारमादरात् ।
प्राप्नोति सततं योगी ज्ञानसंभारसंभृतः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0