108 Buddhist stotras · अध्याय 103
ओम् नमः श्री वज्रयोगिन्यै, नमोबुद्धधर्मसंघेभ्यः, नमो गुरुबुद्धबोधिसत्त्वेभ्यः, नमो लोचनादिदशवज्रविलासिनीभ्यः, नमो यमान्तकादिदशक्रोधवीरेभ्यः सप्रज्ञेभ्यः ।
ओम् ओ आ हूं इति कायवाकचित इन्द्रियविज्ञानानि, वाकचित्तानि मनोविज्ञानानि, परचित्तज्ञानाभिज्ञा, परकायप्रवेशाभिज्ञा पुण्डरीकेषु नाभिस्थे रक्तसूर्य मण्डलः ॥
धर्मोदया पद्ममध्ये सिन्दूरारुणरूपिणी ।
त्रिशृङ्गा हि त्रिकोणा वा चतुःपीठसमन्विता ॥
ह्रींकारं मध्यभागे ऽस्याः पीतवर्णः प्रकीर्तितः ।
तद्भवा पीतवर्णा च अवधूत्या(ती) स्वयं स्थिता ॥
ललनायां तु सुश्यामा रसनायां च गौरिका ।
प्रत्यालीढपदा नाम्ना मध्ये पीता मनोरमा ॥
त्रिमार्गे संस्थिता देवी त्रिकायवज्रयोगिनी ।
सेयं नाम्ना भवेदेका सर्वसम्बुद्धडाकिनी ॥
त्रैलोक्ये दिव्यरूपा च सर्वाशापरिपूरिका ।
स्वकर्तिना कर्तितं च वामहस्ते स्वमस्तकम् ॥
दक्षिणे ऽस्या स्थिता कर्तिर्जगतो दुःखच्छेदिनी ।
अस्या वामे स्थिता श्यामा नाम्ना सा वरवर्णिनी ॥
कर्परः सव्यहस्ते च कर्तिर्वामे च संस्थिता ।
दक्षिणे चैव पीता वै वज्रवैरोचनी स्थिता ॥
कर्तिका दक्षिणे हस्ते वामे कपालधारिणी ।
प्रत्यालीढपदा देवी नग्निका तु विशेषतः ॥
करौ च द्वौ तयोः पादौ विपरीतौ तथा स्थितौ ।
बुद्धानां जननी मध्या सम्यक्सम्बुद्धरूपिणी ॥
अक्षया सुभगा नित्यं हन्त्री च मृत्युजन्मनोः ।
धर्मसंभोगनिर्माणमहासुखस्वरूपिणी ॥
सेयं त्रिभुवने देवी राजये चन्द्रवत्सदा ।
कबन्धादवधूत्याश्च प्रविशेत्स्वमुखेष्वसृक् ॥
ललनारसनाभ्यां च निःसृत्य शिरसि तथा ।
करूणारक्तरूपेण पिबन्ती सर्वशान्तये ॥
दुःखं संप्रेक्ष्य लोकानां चतुर्मारनिषूदिनी ।
दौर्मनस्यादि कर्त्या च कर्तन्ती सर्वमेव तत् ॥
स्तुता हि जिनमातस्त्वं सुप्रसीद भवार्णवे ।
स्वार्थं कर्तुं परार्थं च भवाम्यहं यथा क्षमः ॥
तत्त्वया देवी कर्तव्यमनुग्रहं मयि सृज ।
बालो ऽहमज्ञरूपी च कायवाकचित्तदोषतः ॥
गुरुभक्तिं न जाने ऽहं त्वद्भक्तिं च विशेषतः ।
इत्याकलय लोकेशि कृपा मयि विधीयताम् ॥
कायवाकचेतसां साम्यं कुरु मे त्वं प्रसादतः ।
येन मुञ्चामि संसारं षड्गतिं न विशाम्यहम् ॥
यथा च वज्रवद्देहो यावन्मुक्तो भवाम्यहम् ।
मारैः सर्वैः परित्यक्तो यथा कायो भवेन्मम ॥
लीलया सिद्धिभागाः स्युर्निर्विघ्नः सर्वसिद्धिभाक् ।
सर्वसाधनसिद्धि स्यात् कायश्चैवाजरामरः ॥
त्रासनं सर्वमाराणां सर्वाशापरिपूरणम् ।
देहि मे त्वं वरां सिद्धिं हित्वा चैव गमागमम् ॥
मनो विलीयतां देवि पञ्चेन्द्रियानुसंयुतम् ।
सिद्ध्येच्च वज्रसत्त्वायुर्यौवनारोग्यसत्सुखम् ॥
त्वत्प्रसादान्महामुद्रा सर्वेषामेव संभवेत् ।
देवासुरमनुष्याश्च यत्र यत्र च संस्थिताः ।
सुखिनस्ते च सर्वे स्युर्बुद्धत्वफललाभिनः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0