भाषा

ENहिગુ
ग्रंथ पाठ

108 Buddhist stotras · अध्याय 101

101.1

एवंकारसमासीना(ने) सहजानन्दरूपिणि ।
प्रज्ञा(वि)ज्ञानदेहस्था (स्थे) नमस्ते वज्रयोगिनि ॥

101.2

विचित्रादिप्रमो(भे)देन चतुरानन्ददेहदे ।
रागपारमिताप्राप्ते नमस्ते वज्रयोगिनि ॥

101.3

शरत्पूर्णेन्दुसंकाशे सत्त्वजाष्टकयोगजे ।
वर्णाग्रबीजसंभूते नमस्ते वज्रयोगिनि ॥

101.4

भावाभावद्वयातीते आद्यन्तमध्यवर्जिते ।
स्वपरत्वविनिर्मुक्ते नमस्ते वज्रयोगिनि ॥

101.5

रागारागयोर्मिश्रं(श्रे) संकल्पत्रयवर्जितं(ते) ।
महासुखसुखकारे नमस्ते वज्रयोगिनि ॥

101.6

सत्त्वार्थकरणैर्युक्ते जातसंभोगरूपिणि ।
करुणारक्तदेहस्ते(स्थे) नमस्ते वज्रयोगिनि ॥

101.7

भवनिर्वाणमारूढे रूपाकारविराजिते ।
कायवाकचित्तनेत्राय(द्ये) नमस्ते वज्रयोगिनि ॥

101.8

वामे कपालखट्वाङ्गे दक्षिणे कर्तिधारिणि ।
शून्यताकरुणावाहि नमस्ते वज्रयोगिनि ॥

101.9

जिनदुर्दान्तबीभत्सि(त्से) सर्वमारनिषूदिनि ।
निर्जिताशेषसेवाग्रे नमस्ते वज्रयोगिनि ॥

101.10

कला(कलाप)संयुक्ते श्मशानाष्टनिवासिनि ।
बुद्धनाटरसैर्युक्ते नमस्ते वज्रयोगिनि ॥

101.11

सत्त्वाशयवशेनैव निर्मितानेकरूपिणो (णि) ।
श्यामपीतसिताभासे नमस्ते वज्रयोगिनि ॥

101.12

पञ्चबुद्धजनोत्पन्ने पञ्चयोगिनितां गते ।
तथा परमाणुसंख्याते नमस्ते वज्रयोगिनि ॥

101.13

शैवे शक्तिरिति ख्याते तीर्थे चण्डीति कल्पिते ।
वेदे वेदेति प्रख्याते नमस्ते वज्रयोगिनि ॥

101.14

कुलाख्ये कुब्जिकाख्याते आत्मवेषवती मते ।
विश्वरूपे क्रियाकारे नमस्ते वज्रयोगिनि ॥

101.15

सत्त्वदृष्टिविरोधेन गता नैव विधायिनि ।
सर्वाकारवरोपेते नमस्ते वज्रयोगिनि ॥

101.16

नैरात्म्यधर्मगम्भीरयोगदृष्ट्यैकगोचरे ।
सदसत्कल्पनातीते नमस्ते वज्रयोगिनि ॥

101.17

श्यामपीतादिनिर्मुक्ते वर्णावर्णविवर्जिते ।
प्रज्ञापारमितामातर्नमस्ते वज्रयोगिनि ॥

101.18

निर्विकल्पे निरालम्बे निष्प्रपञ्चे निरालये ।
वियद्वयापि(नि) नैरात्म्ये नमस्ते वज्रयोगिनि ॥

101.19

सर्वरत्नविदां पात्रे जननि वज्रयोगिनि ।
नमस्ते वज्रवाराहि नमस्ते वज्रयोगिनि ॥

101.20

त्वं सद्गुरुमुखकमलान्निर्गता कामरूपिणी ।
महा ऽज्ञानविनाशाय नमस्ते वज्रयोगिनि ॥

101.21

इति गुणयुक्ताया मातुर्विधायैकविंशिकाम् ।
पुण्यं यदवाप्तं तेन जनाः सन्तु(लभन्तु) पूर्णत्वम् ॥

मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc