108 Buddhist stotras · अध्याय 1
सर्वदा सर्वथा सर्वे यस्य दोषा न सन्ति ह ।
सर्वे सर्वाभिसारेण यत्र चावस्थिता गुणाः ॥
तमेव शरणं गन्तुं तं स्तोतुं तमुपासितुम् ।
तस्यैव शासने स्थातुं न्याय्यं यद्यस्ति चेतना ॥
सवासनाश्च ते दोषा न सन्त्येकस्य तायिनः ।
सर्वे सर्वविदः सन्ति गुणास्ते चानपायिनः ॥
न हि प्रतिनिविष्टो ऽपि मनोवाक्कायकर्मसु ।
सह धर्मेण लभते कश्चिद्भगवतो ऽन्तरम् ॥
सो ऽहं प्राप्य मनुष्यत्वं ससद्धर्ममहोत्सवम् ।
महार्णवयुगच्छिद्रकूर्मग्रीवार्पणोपमम् ॥
अनित्यताव्यनुसृतां कर्मच्छिद्रससंशयाम् ।
आत्तसारां करिष्यामि कथं नेमां सरस्वतीम् ॥
इत्यसंख्येयविषयानवेत्यापि गुणान्मुनेः ।
तदेकदेशप्रणयः क्रियते स्वार्थगौरवात् ॥
स्वयम्भुवे नमस्ते ऽस्तु प्रभूताद्भुतकर्मणे ।
यस्य संख्याप्रभावाभ्यां न गुणेष्वस्ति निश्चयः ॥
इयन्त इति नास्त्यन्त ईदृशा इति का कथा ।
पुण्या इत्येव तु गुणान्प्रति ते मुखरा वयम् ॥
विषह्यमविषह्यं वेत्यवधूय विचारणाम् ।
स्वयमभ्युपपन्नं ते निराक्रन्दमिदं जगत् ॥
अव्यापारितसाधुस्त्वं त्वमकारणवत्सलः ।
असंस्तुतसखाश्च त्वमनवस्कृतबान्धवः ॥
स्वमांसान्यपि दत्तानि वस्तुष्वन्येषु का कथा ।
प्राणैरपि त्वया साधो मानितः प्रणयी जनः ॥
स्वैः शरीरैःशरीराणि प्राणैःप्राणाः शरीरिणाम् ।
जिघांसुभिरुपात्तानां क्रीतानि शतशस्त्वया ॥
न दुर्गतिभ्यां नेष्टा[भ्या] मभिप्रार्थयता गतिम् ।
केवलाशयशुद्धयैव शोलं सात्मीकृतं त्वया ॥
जिह्माअनां नित्यविक्षेपादृजूनां नित्यसेवनात् ।
कर्मणां परिशुद्धानां त्वमेकायनतां गतः ॥
पीडयमानेन बहुशस्त्वया कल्याणचेतसा ।
क्लेशेषु विवृतं तेजो जनः क्लिष्टो ऽनुकम्पितः ॥
परार्थे त्यजतः प्राणान् या प्रीतिरभवत् तव ।
न सा नष्टोपलब्धेषु प्राणेषु प्राणिनां भवेत् ॥
यद्रुजा निरपेक्षस्य च्छिद्यमानस्य ते ऽसकृत् ।
वधकेष्वपि सत्त्वेषु कारुण्यमभवत् प्रभो ॥
सम्यक्सम्बोधिबीजस्य चित्तरत्नस्य तस्य ते ।
त्वमेव वीर सारज्ञो दूरे तस्येतरो जनः ॥
नाकृत्वा दुष्करं कर्म दुर्लभं लभ्यते पदम् ।
इत्यात्मनिरपेक्षेण वीर्यं संवर्धितं त्वया ॥
विशेषोत्कर्षनियमो न कदाचिदभूत् तव ।
अतस्त्वयि विशेषाणां छिन्नस्तरतमक्रमः ॥
सुसुखेष्वपि सङ्गो ऽभूत् सफलेषु समाधिषु ।
न ते नित्यानुबद्धस्य महाकरुणया हृदि ॥
त्वादृशान् पीडयत्येव नानुगृह्णाति तत् सुखम् ।
प्रणीतमपि सद्वृत्त यदसाधारणं परैः ॥
विमिश्रात् सारमादत्तं सर्वं पीतमकल्मषम् ।
त्वया सूक्तं दुरुक्तं तु विषवत् परिवर्जितम् ॥
क्रीणता रत्नसारज्ञ प्राणैरपि सुभाषितम् ।
पराक्रान्तं त्वया बोधौ तासु तासूपपत्तिषु ॥
इति त्रिभिरसंख्येयैरेवमुद्यच्छता त्वया ।
व्यवसायद्वितीयेन प्राप्तं पदमनुत्तरम् ॥
अकृत्वेर्ष्यां विशिष्टेषु हीनाननवमत्य च ।
अगत्वा सदृशैः स्पर्धां त्वं लोके श्रेष्ठतां गतः ॥
हेतुष्वभिनिवेशो ऽभूद् गुणानां न फलेषु ते ।
तेन सम्यक्प्रतिपदा त्वयि निष्ठां गुणा गताः ॥
तथात्मा प्रचयं नीतस्त्वया सुचरितैर्यथा ।
पुण्यायतनतां प्राप्तान्यपि पादरजांसि ते ॥
कर्शयित्वोद्धृता दोषा वर्धयित्वा विशोधिताः ।
गुणास्तेन सुनीतेन परां सिद्धिं त्वमध्यगाः ॥
तथा सर्वाभिसारेण दोषेषु प्रहृतं त्वया ।
यथैषामात्मसन्ताने वासनापि न शेषिता ॥
तथा संभृत्य संभृत्य त्वयात्मन्याहिता गुअणाः ।
प्रतिरुपकमप्येषां यथा नान्यत्र दृश्यते ॥
उपघातावरणवन्मितकालं प्रदेशि च ।
सुलभातिशयं सर्वमुपमावस्तु लौकिकम् ॥
अद्वन्द्विनामगम्यानां ध्रुवाणामनिवर्तिनाम् ।
अनुत्तराणां का तर्हि गुणानामुपमा ऽस्तु ते ॥
गोष्पदोत्तानतां याति गाम्भीर्यं लवणाम्भसः ।
यदा ते बुद्धिगाम्भीर्यमगाधापारमीक्ष्यते ॥
शिरीषपक्ष्माग्रलघु स्थैर्यं भवति पार्थिवम् ।
अकम्प्ये सर्वधर्माणां त्वत्स्थैर्ये ऽभिमुखीकृते ॥
अज्ञानतिमिरघ्नस्य ज्ञानालोकस्य ते मुने ।
न रविर्विषये भूमिं खाद्योतिमपि विन्दति ॥
मलिनत्वमिवायान्ति शरच्चन्द्राम्बराम्भसाम् ।
तव वाग्बुद्धिचेष्टानां शुद्धिं प्रति विशुद्धयः ॥
अनेन सर्वं व्याख्यातं यत् किञ्चित्साधु लौकिकम् ।
दूरे हि बुद्धधर्माणां लोकधर्मास्तपस्विनः ॥
यस्यैव धर्मरत्नस्य प्राप्त्या प्राप्तस्त्वमग्रताम् ।
तेनैव केवलं साधो साम्यं ते तस्य च त्वया ॥
आत्मेच्छाच्छलमात्रं तु सामान्योपांशु किंचन ।
यत्रोपक्षिप्य कथ्येत सा वक्तुरतिलोलता ॥
प्रतन्विव हि पश्यामि धर्मतामनुचिन्तयन् ।
सर्वं चावर्जितं मारविजयं प्रति ते जगत् ॥
महतो ऽपि हि संरम्भात् प्रतिहन्तुं समुद्यताः ।
क्षमाया नातिभारो ऽस्ति पात्रस्थाया विशेषतः ॥
यत्तु मारजयान्वक्षं सुमहत्क्लेशवैशसम् ।
तस्यामेव कृतं रात्रौ तदेव परमाद्भुतम् ॥
तमोविधमने भानोर्यः सहस्रांशुमालिनः ।
वीर विस्मयमागच्छेत् स तीर्थ्यविजये तव ॥
सरागो वीतरागेण जितरोषेण रोषणः ।
मूढो विगतमोहेन त्रिभिर्नित्यं जितास्त्रयः ॥
प्रशंससि च सद्धर्मानसद्धर्मान् विगर्हसि ।
अनुरोधविरोधौ च न स्तः सदसतोस्तव ॥
नैवार्हत्सु न तीर्थ्येषु प्रतिघानुनयं प्रति ।
यस्य ते चेतसो ऽन्यत्वं तस्य ते का स्तुतिर्भवेत् ॥
गुणेष्वपि न संगो ऽभूत् तृष्णा न गुणवत्स्वपि ।
अहो ते सुप्रसन्नस्य सत्त्वस्य परिशुद्धता ॥
इन्द्रियाणां प्रसादेन नित्यकालानपायिना ।
मनो नित्यप्रसन्नं ते प्रत्यक्षमिव दृश्यते ॥
आबालेभ्यः प्रसिद्धास्ते मतिस्मृतिविशुद्धयः ।
गमिता भावपिशुनैः सुव्याहृतसुचेष्टितैः ॥
उपशान्तं च कान्तं च दीप्तमप्रतिघाति च ।
निभृतं चोर्जितं चेदं रुपं कमिव नाक्षिपेत् ॥
येनापि शतशो दृष्टं यो ऽपि तत्पूर्वमीक्षते ।
रुपं प्रीणाति ते चक्षुः समं तदुभयोरपि ॥
असेचनकभावाद्धि सौम्यभावाच्च ते वपुः ।
दर्शने दर्शने प्रीतिं विदधाति नवां नवाम् ॥
अधिष्ठानगुणैर्गात्रमधिष्ठातृगुणैर्गुणः ।
परया संपदोपेतास्तवान्योन्यानुरुपया ॥
क्वान्यत्र सुनिविष्टाः स्युरिमे ताथागता गुणाः ।
ऋते रुपात्तवैवास्माल्लक्षणव्यञ्जनोज्ज्वलात् ॥
धन्यमस्मीति ते रुपं वदतीवाश्रितान् गुणान् ।
सुनिक्षिप्ता वयमिति प्रत्याहुरिव तद्गुणाः ॥
सर्वमेवाविशेषेण क्लेशैर्बद्धमिदं जगत् ।
त्वं जगत्क्लेशमोक्षार्थं बद्धः करुणया चिरम् ॥
कं नु प्रथमतो वन्दे त्वां महाकरुणामुत ।
ययैवमपि दोषज्ञस्त्वं संसारे धृतश्चिरम् ॥
विवेकसुखसात्म्यस्य यदाकीर्णस्य ते गताः ।
काला लब्धप्रसरया तत् ते करुणया कृतम् ॥
शान्तादरण्याद् ग्रामान्तं त्वं हि नाग इव ह्रदात् ।
विनेयार्थं करुणया विधयेवावकृष्यसे ॥
परमोपशमस्थो ऽपि करुणापरवत्तया ।
कारितस्त्वं पदन्यासं कुशीलवकलास्वपि ॥
ऋद्धिर्या सिंहनादा ये स्वगुणोद्भावनाश्च याः ।
वान्तेच्छोपविचारस्य कारुण्यनिकषः स ते ॥
परार्थैकान्तकल्याणी कामं स्वाश्रयनिष्ठुरा ।
त्वय्येव केवलं नाथ करुणा करुणाभवत् ॥
तथा हि कृत्वा शतधा धीरा बलिमिव क्वचित् ।
परेषामर्थसिद्धयर्थं त्वां विक्षिप्तवती दिशः ॥
त्वदिच्छयैव तु व्यक्तमनुकूला प्रवर्तते ।
तथा हि बाधमानापि त्वां सती नापराध्यते ॥
सुपदानि महार्थानि तथ्यानि मधुराणि च ।
गूढोत्तानोभयार्थानि समासव्यासवन्ति च ॥
कस्य न स्यादुपश्रुत्य वाक्यान्येवंविधानि ते ।
त्वयि प्रतिहतस्यापि सर्वज्ञ इति निश्चयः ॥
प्रायेण मधुरं सर्वमगत्या किञ्चिदन्यथा ।
वाक्यं तवार्थसिद्धया तु सर्वमेव सुभाषितम् ॥
यच्छ्लक्षणं यच्च परुषं यद्वा तदुभयान्वितम् ।
सर्वमैवैकरसतां विमर्दे याति ते वचः ॥
अहो सुपरिशुद्धानां कर्मणां नैपुणं परम् ।
यैरिदं वाक्यरत्नानामीदृशं भाजनं कृतम् ॥
अस्मद्धि नेत्रसुभगादिदं श्रुतिमनोहरम् ।
मुखात् क्षरति ते वाक्यं चन्द्राद्द्रवमिवामृतम् ॥
रागरेणुं प्रशमयद्वाक्यं ते जलदातये ।
वैनतेयायते द्वेषभुजङ्गोद्धरणं प्रति ॥
दिवाकरायते भूयो ऽप्यज्ञानतिमिरं नुदत् ।
शक्रायुधायते मानगिरीनभिविदारयत् ॥
दृष्टार्थत्वादवितथं निष्क्लेशत्वादनाकुलम् ।
गमकं सुप्रयुक्तत्वात् त्रिकल्याणं हि ते वचः ॥
मनांसि तावच्छ्रोतॄणां हरन्त्यादौ वचांसि ते ।
ततो विमृश्यमानानि रजांसि च तमांसि च ॥
आश्वासनं व्यसनिनां त्रासनं च प्रमादिनाम् ।
संवेजनं च सुखिनां योगवाहि वचस्तव ॥
विदुषां प्रीतिजननं मध्यानां बुद्धिवर्धनम् ।
तिमिरघ्नं च मन्दानां सार्वजन्यमिदं वचः ॥
अपकर्षति दृष्टिभ्यो निर्वाणमुपकर्षति ।
दोषान् निष्कर्षति गुणान् वाक्यं ते ऽभिप्रवर्षति ॥
सर्वत्राव्याहता बुद्धिः सर्वत्रोपस्थिता स्मृतिः ।
अवन्ध्यं तेन सर्वत्र सर्वं व्याकरणं तव ॥
यन्नादेशे न चाकाले नैवापात्रे प्रवर्तसे ।
वीर्यं सम्यगिवारब्धं तेनामोघं वचस्तव ॥
एकायनं सुखोपायं स्वनुवन्धि निरत्ययम् ।
आदिमध्यान्तकल्याणं तव नान्यस्य शासनम् ॥
एवमेकान्तकान्तं ते दृष्टिरागेण बालिशाः ।
मतं यदि विगर्हन्ति नास्ति दृष्टिसमो रिपुः ॥
अनवभुङ्क्था यदस्यार्थे जगतो व्यसनं बहु ।
तत् संस्मृत्य विरुपे ऽपि स्थेयं ते शासने भवेत् ॥
प्रागेव हितकर्तुश्च हितवक्तुश्च शासनम् ।
कथं न नाम कार्यं स्यादादीप्तशिरसापि ते ॥
भुजिष्यता बोधिसुखं त्वद्गुणापचितिः शमः ।
प्राप्यते त्वन्मतात् सर्वमिदं भद्रचतुष्टयम् ॥
त्रासनं सर्वतीर्थ्यानां नमुचेरुपतापनम् ।
आश्वासनं नृदेवानां तवेदं वीर शासनम् ॥
त्रैधातुकमहाभौममसङ्गमनवग्रहम् ।
शासनेन तवाक्रान्तमन्तकस्यापि शासनम् ॥
त्वच्छासननयज्ञो हि तिष्ठेत् कल्पमपीच्छया ।
प्रयाति तत्र तु स्वैरी यत्र मृत्योरगोचरः ॥
आगमस्यार्थचिन्ताया भावनोपासनस्य च ।
कालत्रयविभागो ऽस्ति नान्यत्र तव शासनात् ॥
एवं कल्याणकलितं तदेवमृषिपुङ्गव ।
शासनं नाद्रियन्ते यत् किं वैशसतरं ततः ॥
श्रवणं तर्पयति ते प्रसादयति दर्शनम् ।
वचनं ह्लादयति ते विमोचयति शासनम् ॥
प्रसूतिर्हर्षयति ते वृद्धिर्नन्दयति प्रज्ञाः ।
प्रवृत्तिरनुगृह्णाति निवृत्तिरुपहन्ति च ॥
कीर्तनं किल्बिषहरं स्मरणं ते प्रमोदनम् ।
अन्वेषणं मतिकरं परिज्ञानं विशोधनम् ॥
श्रीकरं ते ऽभिगमनं सेवनं धीकरं परम् ।
भजनं निर्भयकरं शंकरं पर्युपासनम् ॥
शीलोपसम्पदा शुद्धः प्रसन्नो ध्यानसम्पदा ।
त्वं प्रज्ञासम्पदा ऽक्षोभ्यो ह्रदः पुण्यमयो महान् ॥
रुपं द्रष्टव्यरत्नं ते श्रव्यरत्नं सुभाषितम् ।
धर्मो विचारणारत्नं गुणरत्नाकरो ह्यसि ॥
त्वमोघैरुह्यमानानां द्वीपस्त्राणं क्षतात्मनाम् ।
शरणं भवभीरुणां मुमुक्षूणां परायणम् ॥
सत्पात्रं शुद्धवृत्तत्वात् सत्क्षेत्रं फलसम्पदा ।
सन्मित्रं हितकारित्वात् सर्वप्राणभृतामसि ॥
प्रियस्त्वमुपकारित्वात् सुरतत्वान्मनोहरः ।
एकान्तकान्तः सौम्यत्वात् सर्वैर्बहुमतो गुणैः ॥
हृद्यो ऽसि निरवद्यत्वाद्रम्यो वागरुपसौष्ठवात् ।
धन्यः सर्वार्थसिद्धत्वान्माङ्गल्यो गुणसंश्रयात् ॥
स्थायिनां त्वं परिक्षेप्ता विनियन्तापहरिणाम् ।
समाधाता विजिह्मानां प्रेरको मन्दगामिनाम् ॥
नियोक्ता धुरि दान्तानां खटुङ्कानामुपेक्षकः ।
अतो ऽसि नरदम्यानां सत्सारथिरनुत्तरः ॥
आपन्नेष्वनुकम्पा ते प्रस्वस्थेष्वर्थकामता ।
व्यसनस्थेषु कारुण्यं सर्वेषु हितकामता ॥
विरुद्धेष्वपि वात्सल्यं प्रवृत्तिः पतितेष्वपि ।
रौद्रेष्वपि कृपालुत्वं का नामेयं तवार्यता ॥
गुरुत्वमुपकारित्वान्मातापित्रोर्यदीष्यते ।
केदानीमस्तु गुरुता त्वय्यत्यन्तोपकारिणि ॥
स्वकार्यनिरपेक्षाणां विरुद्धानामिवात्मनाम् ।
त्वं प्रपाततटस्थानां प्राकारत्वमुपागतः ॥
लोकद्वयोपकाराय लोकातिक्रमणाय च ।
तमोभूतेषु लोकेषु प्रज्ञालोकः कृतस्त्वया ॥
भिन्ना देवमनुष्याणामुपभोगेषु वृत्तयः ।
धर्मसम्भोगसामान्यात्त्वय्यसम्भेदमागताः ॥
उपपत्तिवयोवर्णदेशकालनिरत्ययम् ।
त्वया हि भगवन् धर्मसर्वातिथ्यमिदं कृतम् ॥
अविस्मितान् विस्मितवत्स्पृहयन्तो गतस्पृहान् ।
उपासते प्राञ्जलयः श्रावकानपि ते सुराः ॥
अहो संसारमण्डस्य बुद्धोत्पादस्य दीप्तता ।
मानुष्यं यत्र देवानां स्पृहणीयत्वमागतम् ॥
खेदः शमसुखज्यानिरसज्जनसमागमः ।
द्वन्द्वान्याकीर्णता चेति दोषान् गुणवदुद्वहन् ॥
जगद्धितार्थं घटसे यदसङ्गेत चेतसा ।
का नामासौ भगवति बुद्धानां बुद्धधर्मता ॥
कदन्नान्यपि भुक्तानि क्वचित्क्षुदधिवासिता ।
पन्थानो विषमाः क्षुण्णाः सुप्तं गोकण्टकेष्वपि ॥
प्राप्ताः क्षेपावृताः सेवा वेषभाषान्तरं कृतम् ।
नाथ वैनेयवात्सल्यात् प्रभुणापि सता त्वया ॥
प्रभूतमपि ते नाथ सदा नात्मनि विद्यते ।
वक्तव्य इव सर्वैर्हि स्वैरं स्वार्थे नियुज्यसे ॥
येन केन चिदेव त्वं यत्र तत्र यथा तथा ।
चोदितः स्वां प्रतिपदं कल्याणीं नातिवर्तसे ॥
नोपकारपरे ऽप्येवमुपकारपरो जनः ।
अपकारपरे ऽपि त्वमुपकारपरो यथा ॥
अहितावहिते शत्रौ त्वं हितावहितः सुहृत् ।
दोषान्वेषणनित्ये ऽपि गुणान्वेषणतत्परः ॥
यतो निमन्त्रणं ते ऽभूत् सविषं सहुताशनम् ।
तत्राभूदभिसंयानं सदयं सामृतं च ते ॥
अक्रोष्टारो जिताः क्षान्त्या द्रुग्धाः स्वस्त्ययनेन च ।
सत्येन चापवक्तारस्त्वया मैत्र्या जिघांसवः ॥
अनादिकालप्रहता बहृयः प्रकृतयो नृणाम् ।
त्वया विभावितापायाः क्षणेन परिवर्तिताः ॥
यत्सौरत्यं गतास्तीक्ष्णाः कदर्याश्च वदान्यताम् ।
क्रुराः पेशलतां यातास्तत् तवोपायकौशलम् ॥
इन्द्रियोपशमो नन्दे मानस्तब्धे च संनतिः ।
क्षमित्वं चाङ्गुलीमाले कं न विस्मयमानयेत् ॥
बहवस्तृणशय्यासु हित्वा शय्यां हिरण्मयीम् ।
अशेरत सुखं धीरास्तृप्ता धर्मरसस्य ते ॥
पृष्टेनापि क्वचिन्नोक्तमुपेत्यापि कथा कृता ।
तर्षयित्वा परत्रोक्तं कालाशयविदा त्वया ॥
पूर्वं दानकथाद्याभिश्चेतस्युत्पाद्य सौष्ठवम् ।
ततो धर्मो गतमले वस्त्रे रङ्ग इवार्पितः ॥
न सो ऽस्त्युपायः शक्तिर्वा येन न व्यायतं तव ।
घोरात् संसारपातालादुद्धर्तृं कृपणं जगत् ॥
बहूनि बहुरुपाणि वचांसि चरितानि च ।
विनेयाशयभेदेन तत्र तत्र गतानि ते ॥
विशुद्धान्यविरुद्धानि पूजितान्यर्चितानि च ।
सर्वाण्येव नृदेवानां हितानि महितानि च ॥
न हि वक्तुं च कर्तुं च बहु साधु च शक्यते ।
अन्यथानन्यथावादिन् दृष्टं तदुभयं त्वयि ॥
केवलात्मविशुद्धयैव त्वया पूतं जगद्भवेत् ।
यस्मान्नैवंविधं क्षेत्रं त्रिषु लोकेषु विद्यते ॥
प्रागेवात्यन्तनष्टानामनादौ भवसंकटे ।
हिताय सर्वसत्त्वानां यस्त्वमेवं समुद्यतः ॥
न तां प्रतिपदं वेद्मि स्याद्ययापचितिस्तव ।
अपि ये परिनिर्वान्ति ते ऽपि ते नानृणा जनाः ॥
तव ते ऽवस्थिता धर्मे स्वार्थमेव तु कुर्वते ।
यः श्रमस्तन्निमित्तं तु तव का तस्य निष्कृतिः ॥
त्वं हि जागर्षि सुप्तानां संतानान्यवलोकयन् ।
अप्रमत्तः प्रमत्तानां सत्त्वानां भद्रबान्धवः ॥
क्लेशानां वध आख्यातो मारमाया विघाटिता ।
उक्तं संसारदौरात्म्यमभया दिग्विदर्शिता ॥
किमन्यदर्थकामेन सत्त्वानां करुणायता ।
करणीयं भवेद् यत्र न दत्तानुनयो भवान् ॥
यदि संचारिणो धर्माः स्युरिमे नियतं त्वया ।
देवदत्तमुपादाय सर्वत्र स्युर्निवेशिताः ॥
अत एव जगन्नाथ नेहान्यो ऽन्यस्य कारकः ।
इति त्वमुक्तवान् भूतं जगत् संज्ञापयन्निव ॥
चिराय भुवि सद्धर्मं प्रेर्य लोकानुकम्पया ।
बहूनुत्पाद्य सच्छिष्यांस्त्रैलोक्यानुग्रहक्षमान् ॥
साक्षाद्विनेयवर्गीयान् सुभद्रान्तान् विनीय च ।
ऋणशेषं किमद्यापि सत्त्वेषु यदभूत् तव ॥
यस्त्वं समाधिवज्रेण तिलशो ऽस्थीनि चूर्णयन् ।
अतिदुष्करकारित्वमन्ते ऽपि न विमुक्तवान् ॥
परार्थावेव मे धर्मरुपकायाविति त्वया ।
दुष्कुहस्यास्य लोकस्य निर्वाणे ऽपि निदर्शितम् ॥
तथाहि सत्सु संक्राम्य धर्मकायमशेषतः ।
तिलशो रुपकायं च भित्त्वासि परिनिर्वृतः ॥
अहो स्थितिरहो वृत्तमहो रुपमहो गुणाः ।
न नाम बुद्धधर्माणामस्ति किञ्चिदनद्भुतम् ॥
उपकारिणि चक्षुष्ये शान्तवाक्कायकर्मणि ।
त्वय्यपि प्रतिहन्यन्ते पश्य मोहस्य रौद्रताम् ॥
पुण्योदधिं रत्ननिधिं धर्मराशिं गुणाकरम् ।
ये त्वां सत्त्वा नमस्यन्ति तेभ्यो ऽपि सुकृतं नमः ॥
अक्षयास्ते गुणा नाथ शक्तिस्तु क्षयिणी मम ।
अतः प्रसङ्गभीरुत्वात् स्थीयते न वितृप्तितः ॥
अप्रमेयमसंख्येयमचिन्त्यमनिदर्शनम् ।
स्वयमेवात्मनात्मानं त्वमेव ज्ञातुमर्हसि ॥
न ते गुणांशावयवो ऽपि कीर्तितः परा च नस्तुष्टिरवस्थिता हृदि ।
अकर्शनेनैव महाह्रदाम्भसां जनस्य तर्षाः प्रशमं व्रजन्ति ह ॥
फलोदयेनास्य शुभस्य कर्मणो मुनिप्रसादप्रतिभोद्भवस्य मे ।
असद्वितर्काकुलमारुतेरितं प्रयातु चित्तं जगतां विधेयताम् ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0