108 Buddhist stotras · अध्याय 2
नमस्ते बुद्धरूपाय धर्मरूपाय ते नमः ।
नमस्ते संघरूपाय पञ्चबुद्धात्मने नमः ॥
पृथ्वीरूपायाब्रूपाय तेजोरूपाय ते नमः ।
नमस्ते वायुरूपायाकाशरूपाय ते नमः ॥
ब्रह्मणेसत्त्वरूपाय रजोरूपाय विष्णवे ।
तमोरूपमहेशाय ज्ञानरूपाय ते नमः ॥
प्रज्ञोपायात्मरूपाय गुह्यरूपाय ते नमः ।
दिग्रूपलोकपालाय विश्वरूपाय ते नमः ॥
चक्षूरूपाय कर्णाय घ्राणरूपाय जिह्वके ।
कायरूपाय श्रीधर्मरूपाय मनसे नमः ॥
नमस्ते रूपरूपाय रसरूपाय ते नमः ।
गन्धरूपशब्दरूपस्पर्शरूपाय ते नमः ॥
धर्मरूपधारकाय षडिन्द्रियात्मने नमः ।
मांसास्थिमेदमज्जानां संघातरूपिणे नमः ॥
रूपाय जङ्गमानां ते स्थावराणां च मुर्तये ।
तिरश्चां मोहरूपाय रूपायाश्चर्यमूर्तये ॥
सृष्टिकर्त्रे जन्मरूप कालरूपाय मृत्यवे ।
भव्याय वृद्धरूपाय बालाय ते नमो नमः ॥
प्राणापानसमानोदानव्यानमूर्तये नमः ।
वर्णापवर्णरूपाय भोक्त्रे तन्मूर्तये नमः ॥
दिनरूपाय सूर्याय चन्द्राय रात्रिरूपिणे ।
तिथिरूपाय नक्षत्रयोगवारादिमुर्तये ॥
बाह्याभ्यन्तररूपाय लौकिकाय नमोनमः ।
नैर्वाणाय नमस्तुभ्यं बहुरूपाय ते नमः ॥
आदिबुद्धद्वादशकं पुण्यं प्रातः पठिष्यति ।
यदिच्छति लभेन्नूनं मनुजो नित्यनिश्चयः ॥
मूल पाठ: 108 Buddhist stotras · Edition: Janardan Shastri Pandey: Bauddha stotra Samgrahah, Varanasi : Motilal Banarsidass, 1994 · Data entry members of the Digital Sanskrit Buddhist Canon Input Project · GRETIL (Göttingen) · CC BY-NC-SA 4.0