योगयात्रा · अध्याय 4
देहः कोशो योद्धा वाह्यं मन्त्रः शत्रुर् मार्गो ऽप्य् आयुः।
चित्तं कर्म प्राप्तिर् मन्त्री प्राग्लग्नाद्या भावाश् चिन्त्याः॥
त्रिलाभवर्जं रविसौरिभौमा[क्.रविसौरभौमा] निघ्नन्ति नो कर्मणि सूर्यभौमौ[क्.सूर्यभौमाः]।
पुष्णन्ति सौम्या रिपुराशिवर्ज्यम् अस्तं[क्.रिपुराशिवर्जम् न ऽस्तं] भृगुर् मृत्युविलग्नम् इन्दुः॥
तिथ्युद्गमेन्दुकरणर्क्षदिनक्षणेषु शुद्धेष्व्[क्.पापेष्व्] अभीष्टफलदा नृपतेर् यथा स्यात्।
यात्रा तथा परम् इदं कथयामि गुह्यं शिष्याय नै ऽतद् अचिराद् ह्य् उषिताय दद्यात्॥
योगैः क्षितिपा विनिर्गताः शकुनैस् तस्करचारणादयः।
नक्षत्रबलैर्[क्.नक्षत्रगुणैर्] द्विजातयः क्षणवीर्याद् इतरो जनो ऽर्थभाक्॥
यद् यद् योगवशाद् व्रजत्य् अगदतां द्रव्यैर् विषं योजितम्
संयुक्तं मधुना घृतं च विषतां गच्छेद्[क्.गच्छद्] यथा दृश्यते।
तद्वद् योगसमुद्भवं प्रकुरुते हित्वा ग्रहः स्वं फलं
यस्मात् तेन समुद्यतो ऽस्मि गदितुं योगान् विचित्रान् इमान्॥
लग्ने गुरुर् बुधभृगू हिबुकात्मजस्थौ षष्ठौ कुजार्कतनयौ दिनकृत् तृतीयः।
चन्द्रश् च यस्य दशमो भवति प्रयाणे तस्य ऽभिवाञ्छितफलाप्तिर् अलं नृपस्य॥
होरातृतीयरिपुलाभगतैः क्रमेण जीवार्किभौमरविभिर् भृगुजे ऽनुकूले।
यातो ऽतिदृप्तम् अपि शत्रुबलं निहन्ति नैशं तमिस्रम् इव तिग्मम् अयूखकाली[क्.अयूखमाली]॥
उदयारिनभः स्थलगैर्[क्.उदयारिनभस्थलगैर्] दिनकृद्यमशीतकरैः।
न भवन्त्य् अरयो ऽभिमुखा हरिणा इव केशरिणः॥
गुरुर् उदये रिपुराशिगतो ऽर्को यदि निधने न च[क्.च न] शीतमयूखः।
भवति गतो ऽत्र शशी ऽव नरेन्द्रो रिपुवनिताननतामरसानाम्॥
शुकवाक्पतिबुधैर् धनसंस्थैः सप्तमे शशिनि लग्नगते ऽर्के।
निर्गतो नृपतिर् एति कृतार्थो वैनतेयवद् अहिं[क्.अरीन्] विनिगृह्य॥
मूर्त्तिवित्तसहजेषु संस्थिताः शुक्रचन्द्रसुततिग्मरश्मयः।
यस्य यानसमये रणानले तस्य यान्ति शलभा इव ऽरयः॥
सूर्येन्दू वलवर्जितौ वलयुतौ जन्मेशलग्नेश्वरौ
पाताले दशमे ऽपि वा शशिसुतो लग्नस्थितो वाक्पतिः।
षट्सप्ताष्टमवर्जितेषु भृगुजः स्थानेषु यस्य स्थितो
यातुस् तस्य न विद्विषो रणमुखे तिष्ठन्ति योषा इव॥
सौरे भौमे[क्.वा] लग्नगे ऽर्फे[क्.ऽर्के] खमध्ये कर्मण्य् आये[क्.वा] भार्गवे चन्द्रजे च।
यायाद् भूपः[क्.भूपालः] शत्रुदेशं निहन्तुं दृप्तं शत्रुं[क्.वा] कालवत्[क्.कालयत्] क्रूरचेष्टः॥
लाभशत्रुसहजेषु यमारौ सौम्यशुक्रगुरवो बलयुक्ताः।
गच्छतो यदि ततो ऽस्य धरित्री सागराम्बुरसना वशम् एति॥
पापास् तृतीये हिबुके ? जीवो बिलग्ने शशलाञ्छनो ऽस्ते।
यस्योद्यमे तस्य बलं रिपूणां कृतं कृतघ्नेस्व् इव यात् नाशम्॥
चन्द्रे ऽस्तगे देवगुरौ विलग्ने ज्ञशुक्रयोः कर्मणि लाभगे ऽर्के।
सौरारयोर् भ्रातृगयोश् च यातो नृपः स्वभृत्यान् इव शास्ति शत्रून्॥
गुरौ विलग्ने यदि वा शशाङ्के षष्ठे रवौ कर्मगते ऽर्कपुत्रे।
सितज्ञयोर् बन्धुसुतस्थयोश् च यात्रा जनित्री ऽव हितानि धत्ते॥
पत्यौ गिरां लग्नगते ऽवशेषैर् एकादशार्थोपगतैर् यियासोः।
विदार्यते शत्रुबलं समन्ताद् धर्मो यथा हेतुशतैर् युगान्ते॥
त्रिषण्णवान्त्येष्व् अबलः शशाङ्कश् चान्द्रिर् बली यस्य गुरुश् च केन्द्रे।
तस्य ऽरियोषाभरणैः प्रियाणि प्रियाः प्रियाणां जनयन्ति सैन्ये॥
केन्द्रोपगतेन वीक्षिते गुरुणा त्रयायचतुर्थगे सिते।
पापैर् अनवाष्टसप्तमैर्[क्.अनवाष्टसप्तगैर्] वसु किं तन् न यद् आप्नुयाद् गतः॥
लग्नारिकर्महिबुकेषु शुभेक्षिते ज्ञे द्यूनान्त्यलग्नरहितेष्व् अशुभग्रहेषु।
यातुर् भयं न भवति प्रतरेत् समुद्रं यद्य् अश्मना[क्.ऽपि] किम् उत शत्रुसमागमेषु[क्.उत ऽरिसमागमेषु]॥
यस्यो ऽदयास्तारिचतुस्त्रिसंस्थाः शुक्राङ्गिरो ऽङ्गारक --- सौम्यसौराः।
द्विषद्बलस्त्रीवदनानि तस्य क्लान्तानि कान्तान् अवलोकयन्ति॥
पूर्वोक्तयोगे धनगो बुधश् चेच् छशाङ्कसूर्यौ च दशायसंस्थौ।
अस्मिन् गतस्य ऽलिकुलोपगीता नानावनोत्था द्विरदा भवन्ति॥
सूर्यादयो ऽरिसहजाम्बरशत्रुलग्नबन्ध्वायगाः सुरगुरोर् दिवसश् च[क्.दिवसो ऽपि] यस्य।
याने ऽरिसैन्यम् उपगच्छति तस्य नाशं म मांसकश्रवणकेष्व्[क्.मीमांसकश्रवणकेष्व्] इव तीर्थपुण्यम्॥
त्रिनिधनतनुसप्तमारिसंस्थाः कुजसितजीवबुधा रविश् च यस्य।
खलजनजनिते ऽव लोकयात्रा न भवति यस्य चिराय शत्रुसेना॥
कुजरविजयुते ऽरिभे[क्.ऽतिभे] गतानां सुखसहजोपगतिः सितार्कजीवैः।
रिपुबलम्[क्.परबलम्] उपयाति नाशम् आशु श्रुतम् अधनस्य कुटुम्बचिन्तयैव[क्.कुटुम्बचिन्तये ऽव]॥
लग्नत्रिधर्मारिदशायगेषु सितार्किजीवेन्दुकुजेन्दुजेषु।
सार्के बुधे च ऽरिबलं विनाशम् आयाति गुह्यं पिशुनेष्व् इवो ऽक्तम्॥
एकान्तरर्क्षे भृगुजात् कुजाद् वा सौम्ये स्थिते सूर्यसुताद् गुरोर् वा।
प्रध्वस्यते[क्.प्रध्वंसते] ऽरिर् न चिराद् गतस्य वेषाधिको भृत्य इवे ऽऽश्वरस्य॥
निरन्तरम् यदि भवनेषु पञ्चसु ग्रहाः स्थिता दिवसकरेण वर्जिताः।
यियासतोर्[क्.यियासतो] यदि च भवन्ति पृष्ठतस् तदा परान् बलभिद् इव ऽवकृन्तति॥
बृगुपुत्रमहेन्द्रगुरू गमने सहितौ यदि भं युगपत् त्यजतः।
ज्ञगुरू यदि वा ऽंशकम् एकगतौ[क्.एकम् इतौ] समरे सुरराड्[क्.अमरराड्] इव भाति तदा॥
निस्त्रिंशवक्रोपगते च वक्रे वक्रेण वक्रं नृपतिं[क्.नृपतिर्] निहन्यात्।
पानप्रसक्तं निशि वा प्रसुप्तं तस्यै ऽव च ऽस्ते यदि वा ऽंशकः स्यात्॥
पुत्रो धरित्र्या दिनकृत् सुतश् च यदा त्यजेतां युगपन् नवांशम्।
तदा ह्य् अवस्कन्दगतो नरेन्द्रो भुङ्क्ते रिपून् तार्क्ष्य इव द्विजिह्वान्॥
बुधभार्गवमध्यगते हिमगौ हिबुकोपगते च नृपः प्रविशन्[क्.प्रवसन्]।
पुरुहूतदिशं यदि वा ऽन्तकृतः पुरुहूतयमप्रतिमो भवति॥
सितेन्दुजौ चतुर्थगौ निशाकरश् च सप्तमे।
यदा तदा गतो नृपः प्रशास्त्य् अरीन् विना रणान्[क्.रणात्]॥
शशिनि चतुर्थगृहं समुपेते बुधसहिते ऽस्तगते भृगुपुत्रे।
गमनम् अवाप्य पतिर् मनुजानां जयति रिपून् समरेण विनै ऽव॥
क्षितितनययुतान् नवांशकाद् यदि शतमे[क्.शतगो] भृगुजो ऽथवा गुरुः।
शतगुणम् अपि हन्त्य् अरेर् बलं विषम् इव कायम् असृक्पथोपपन्नम्[क्.असृक्पथोपगम्]॥
शतांशकाद् ऊर्ध्वम् अवस्थिते बुधे यमारयोस् तत्र गतस्य भूभृतः।
प्रयाति नाशं समरे द्विषड् बलं यथा ऽर्थिभावोपगतस्य गौरवम्॥
नक्षत्रम् एकं युगपत् प्रविष्टौ यदा धरित्रीतनयामरेज्यौ।
कुर्यात् तदा ऽन्तं द्विषतां बलस्य द्रौणिर् यथा ऽरेर् निशि सौप्तिकेन॥
ऋक्षं गुरुज्ञौ बुधभार्ग्वौ वा यदा प्रविष्टौ युगपत् समेतौ।
अर्थान् अवाप्नोति तदा विचित्रान् छात्रः सुतीर्थान्[क्.सुतीर्थाद्] गुरुपूजयैव[क्.गुरुपूजये ऽव]॥
यात्रादिगीशाद् यदि पञ्चमे ऽन्यो गृहे ग्रहो वीर्ययुतो ऽवतिष्ठेत्।
समुद्यताशाकथितानि भङ्क्त्वा फलानि वीर्यान् नयति स्वकाष्ठाम्॥
एको ऽपि जीवज्ञसितासितानां कुजात् त्रिकोणे रवितो ऽथ वे ऽन्दुः।
यत्रो ऽद्यतस् तत्र न याति याता तयोर् बलीयान् नयति स्वकाष्ठाम्॥
जन्मोदयर्क्षं हिबुकास्तसंस्थं यस्य ऽशुभैर् दृष्टयुतं न सौम्यैः।
स शाण्डिलीं प्राप्य यथा गरुत्मान् दन्यं[क्.दैन्यं] गतो ऽभ्येति हतस्वपक्षः॥
होराष्टमे जन्मगृहाष्टमे वा स्वाच् छत्रुभाच् छत्रुगृहोदये वा।
तद्राशिपैर् वा गमनं विलग्ने तुल्यं नराणां विषभक्षणेन॥
रिपुनिधनविलग्ने स्वात् त्रिषड्लाभगे वा
बलवति भवनेशे स्वे कृशे शत्रुपक्षे।
अनभिमुखदिगीशे दिक्पतौ सुस्थिते च
व्रजति यदि यथेष्टं प्राप्नुयात् तत्र यता॥
केन्द्रत्रिकोणेषु शुभाः प्रशस्तास् तेष्व् एव पापा न शुभप्रदाः स्युः।
पपो ऽपि कामं बलवन् नियोज्यः केन्द्रेषु शून्यं न शिवाय केन्द्रम्[क्.लग्नम्]॥
सौम्यैश् च पापैश् च चतुष्टयस्थः कृच्छ्रेण सिद्धिं समुपैति याता।
प्रपातपातप्रतिघातवक्रैर्[क्.प्रपातयानप्रतिघातवक्रा] नदी ऽव धात्रीधरकन्दरेषु॥
गुरो[क्.गुरौ] विलग्ने भृगुजे ऽरिसंस्थे चन्द्रे ऽष्टमे हन्ति गतो ऽरिसेनाम्।
विष्टं[क्.वृष्टिं] यथा दक्षिणमार्गचारी रूक्षो अथवा[क्.यदा] ह्रस्वतनुश् च शुक्रः॥
सिंहाजतौलिमिथुना[क्.सिंहाजतौलिमिथुनं] मृगकर्कटौ च स्वेशान्विता यदि भवति[क्.भवति] यस्य शनिश् च लग्ने।
तत्सैनिकाः परबलं क्सपयन्ति यातुर् मूर्खस्य वित्तम् इव चारणचाटुकाराः[क्.चारणचाटचक्षाः(?)]॥
उदये गुरुसौम्यभार्गवैः सहजे ऽर्कार्किकुजैश् च गच्छतः।
न भवन्त्य् अरयो रणे स्थिराः कितवानाम् इव वित्तसंचयाः॥
जातकोक्तनृपयोगगतानाम् प्रत्यहं[क्.प्रतिदिनम्] भवति राज्यविवृद्धिः।
वातघूर्णितम् इव ऽर्णवयानम् परबलं हि समुपैति विनाशम्॥
होराऽऽश्रिते[क्.होराश्रिते] देवगुरौ प्रयाता क्रूरग्रहैः कर्मणि लाभगैर् वा।
कृत्वा रिपूणां क्षयम् अक्षताङ्गः स्वयं[क्.क्षयं] क्षितीशो ऽक्षयकोशम् एति[क्.ऽक्षयकोश ऐति]॥
लाभार्थलग्नेषु शुभा रविः खे यस्य ऽऽरसौरौ सहजे ऽरिभे वा।
तस्य ऽर्थकोशः समुपैति वृद्धिं लाभो[क्.लोभो] यथा प्रत्यहम् अर्थवृद्ध्या॥
स्वोच्चपगैर् जीवकुजार्कजार्कैर् एभ्यस् त्रिभिर् वा कथितैकलग्ने।
राज्ञः प्रणाशं समुपैति शत्रुः सौख्यं द्विभार्यस्य यथा ऽधनस्य॥
एको ऽपि जीवार्ककुजार्कजानां स्वोच्चे विलग्ने स्वगृहे यदी ऽन्दुः।
जातस्य[क्.यातस्य] यान्त्य् अत्र पराः प्रणाशम् महाकुलानी ऽव कुटुम्बभेदैः॥
लग्नाच् चतुर्थे अतिबले शशाङ्के[क्.विबलः शशाङ्कः] योगाद् विना चन्द्रबलेन याता[क्.यातः]।
लब्धा ऽपि लक्ष्मीं बहुरत्नपूर्णां[क्.लक्ष्मीर् बहुरत्नपूर्णा] क्षिप्रं क्षयं याति यथा शशाङ्कः॥
येषां गमे नवमपञ्चमकण्टकस्थाः सौम्यास् तृतीयरिपुलाभगताश् च पापाः।
आयान्ति ते स्वभवनानि पुनः कृतार्था दत्ता द्विजातिषु पुरा विधिवद् यथार्थाः॥
मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0