भाषा

ENहिગુ
ग्रंथ पाठ

योगयात्रा · अध्याय 1

1.1

यश् चक्षुर् जगतः सहस्रकरबद् धाम्नां च धामा ऽर्कवन्
मोक्षद्वारम् अपावृत्तं च रविवद् ध्वान्तान्तकृत् सूर्यवत्।
आत्मा सर्वशरीरिणां सवितृवत् तिमांशुवत् कालकृत्
साध्वीं नः स गिरं करोतु सविता यो ऽअन्यैर् अतुल्योपमः॥

1.2

वक्ष्यामि भूपम् अधिकृत्य गुणोपपन्नं
विज्ञातजन्मसमयं प्रविभ्क्तभाग्यम्।
अज्ञातसूतिम् अथवा ऽविदितैष्य भाग्यं
सामुद्रयात्रिकनिमित्तशतैः पृथूक्तैः॥

1.3

कर्म ऽन्यजन्मजनितं[क्.न्यजन्मनि कृतं] सद् असच् च दैवं
तत् केवलं भवति जन्मनि सत्कुलाद्ये।
बाल्यात् परं विनयसौष्ठवपात्रता च[क्.ऽपि]
पुंदैवजा कृषिवद् इत्य् उपपाद्यम् एतत्[क्.अत उद्यमेत]॥

1.4

सामन्तकालयसु[क्.वसु]धोद्यममन्त्रभृत्यैर्
दैवेन चेति कृषिवन् नृपतेः फलाप्तिः।
स्याच् छिद्रम् एकम् अपि चेत् तत एव सर्वं
नाशं प्रयाति हि दृतेः स्रवणाद्[क्.दृतेश् चरणाद्] इव ऽम्भः॥

1.5

ग्रहर्क्षतिथ्युद्गमराशिहोरा
द्रेष्काणभागाद्यनुकूलमात्रम्।
भवेद् यियासोर् यदि सिद्धिहेतुः
स्वयं भवेद् दैवविद् एव राजा॥

1.6

मन्त्राभिषेकमणिबन्धनशान्तिकर्म
होमोपवाससुरयागजपादिमात्रम्।
स्यात् सिद्धिहेतुर् अथ चेद् विजगीआअतो[क्.विजिगीषतो] ऽरीण्
कस्मात् तदा नरपतिर् न भवेत् पुरोधाः॥

1.7

बुधार्थशास्त्राण्य्[क्.बुद्ध्वा ऽर्थशास्त्राण्य्] अपि मन्त्रिणो ऽपि
कुयुः प्रणामं न नरेश्वराणाम्।
यद्य् आभिजात्यद्विपवाजिपत्ति
कोशाद्यपेक्षा न भवेत् प्रधाना॥

1.8

स्वदेशे सन्तुष्टः करितुरगकोशे सति न यो
भवेद् यायी सैन्धैः[क्.सो ऽन्यैः] कृतपरिभवो याति विलयम्।
स्वचक्रेणैव ऽसौ क्षपितधनराष्ट्रो भवति वा।
गतो यो नादत्ते[क्.ऽन्यान् आदत्ते] सुनयचरितो नीतिविधूरान्॥

1.9

उलूकस्य ध्वांक्षो निशि वलिभुजां सो ऽह्नि वशगः
स्थले नक्रं सिंहो मृगपम् उद्के हन्ति जलजः।
अबुध्या यः कालं व्रजति नृपतिर् देशम् अथवा[क्.ओमित्तेद्]
हते दर्पे वाक्यं स्मरति विदुषां सो ऽरिवशगः॥[क्.थिस् ल्लिने ओमित्तेद्]

1.10

रिपोः कृत्वा ऽवज्ञां जितम् इति विदित्वा मदबलान्
न यत्नो हातव्यः शिखिविषसमो ऽल्पो ऽपि हि रिपुः।
प्रमत्तो ऽद्रेः कुञ्जाद् अयुतबलभागैर् अपि नरैर्
हतो बद्धस्तम्भे कखति[क्.बद्धः स्तम्भेकषति] मदलेखां द्विपपतिः॥

1.11

वप्रप्राकारयन्त्रप्रहरणपरिखातोय*मेयेन्धनाढ्यं[क्.धान्येन्धनाढ्यं
दुर्गं कृत्वा ऽऽत्मगुपतं[क्.ऽऽत्मगुल्म] द्विपतुरगभिषक्शिल्पिविप्राभ्युपेतम्।
लुब्धत्रस्ताभिमानिप्रकुपितकुभृतां ज्ञातशीलैर् विहीनं
कृत्वा शूराप्तसंस्थं परविषयम् इयाच् छुद्धपार्ष्णिर् नरेन्द्रः॥

1.12

बुध्वा शक्तिं स्वपरबलयोः सामम् एकप्रदानैः[क्.सामभेकप्रदानैः]
कृत्वोपायैर् व्यसनसमरोपायसंरक्षणैश्[क्.गमनसमरोपायसंसर्पणैश्] च।
भक्त्या[क्.साम्ना] साधून् धनविरहितान् अर्थलुब्धांश् च दानैर्
नेयाद्[क्.भेद्यान्] भेदैस् त्रिभिर् अपि न ये साधयेत् तांश् च दण्डैः॥

1.13

साम्नो जीवः सभृगुतनयो दण्डनाथौ कुजार्कौ
दानस्येन्दुः शिखियमबुधाः सासुरा भेदनाथाः।
वीर्योपेतैर् उपचयकरैर् लग्नगैर् वीर्यगैर्[क्.केन्द्रगैर्] वा
तत् तत् सिद्धिं व्रजति तद् अहःस्व् आंशकैर्[क्.अंशके] वापि तेषां॥

1.14

षाड्गुण्ये सन्धिर् आदौ परिपणरचितो विग्रहो ऽस्यापकारी[क्.ऽस्यपाकारो]
नैतौ चेद् आसनं तत् परपुरगमनं सर्वसैनेय्न यानम्।
सैन्यार्द्धेनाभियुक्ते परपुरम् अपि यत् तद् द्विधायानम् उक्तं
संश्लेषो ऽन्यत्र यः स्यात् स खलु निगदितः संश्रयो ऽन्यो[क्.ऽन्त्यो] गुणानम्॥

1.15

मध्याह्ने ऽर्कस् तुहिनकिरणो नित्यम् आक्रन्दसंज्ञः
पौरः पूर्वे भवति दिनकृद् यायिसंज्ञो ऽन्त्यसंस्थाः[क्.ऽन्त्यसंस्थः]।
जीवः सौरिस्[क्.सौरस्] तुहिनकिरणास्यात्मजश् चेति पौराः
केतुर् यायी सभृगुजकुजः सिद्धिकानन्दनश् च॥

1.16

यानं यायिभिर् आसनं शुभकरैर् वीर्यान्वितैर् नागरैर्
द्वैधीभावम् इयाद् यदा शुभकराः पौराः सयायिग्रहाः।
सौम्यैः सन्धिर् असद्ग्रहैश् च बलिभिर् युद्धे ऽनुकूलैर् जयः
सर्वैर् अप्य् अशुभप्रदैर् नरपतिर् दैवाम्बितं संश्रयेत्॥

1.17

कोशो हि राज्यतरुमूलम् अतो ऽस्य शाखाः
पक्षी विपक्ष इव किं निधनः[क्.विधनं] करोति।
अन्नाद् इवेन्द्रियगणो वसुतस् तथा ऽन्नं
तत्प्राप्तिरक्षणविवृद्धिषु यत्नवान् स्यात्॥

1.18

नीचाचिराढ्यनृपवल्लभतस्करेभ्यो
राष्ट्रं नृपेण परिरक्ष्यम् अतो ऽस्य कोशः।
काले करप्रणयनं च यथोचितानां
तन्[क्.तं] नार्थयेद् भवति येन जनापवादः॥

1.19

यात्रा नृपस्य शरदीष्टफला मधौ च
छिद्रे रिपोर् न नियमो ऽस्ति[क्.ऽत्र] च केचिद् आहुः।
छिद्रे ऽप्य् अरेर् भवति दैवयुतस्य सिद्धिः
सामान्यम् आमिषम् इदं प्रतिभूमिपानाम्॥

1.20

शत्रोर् वधाय सचिवं शुभदैवयुक्तम्
आज्ञापयेन् नृपतिर् आत्मनि दैवहीने।
जह्यान् न चार्थम् अति[क्.अपि] दैवपरो ऽपि भूत्वा
दृष्टे द्विपे द्विपपदानुसृतिः किम् अर्थम्॥

1.21

कालो ऽभ्युपैति सकृद् एव नरं कथंचित्
प्राप्नोति तन् न समयं[क्.स पुनः] खलु कालकांक्सी।
कालेन गोचरगतान् अनपेक्ष्य भक्ष्यान्
मन्दक्रमो ऽप्य् अजगरः समुपैति सिद्धिम्॥

1.22

दुर्गस्थितं फलम् अपक्वम् अनल्पयत्नात्[क्.अनल्पयत्नं]
संसिद्धिम् अप्य् उपकरोति गुणं न पुंसाम्।
साधारणं स्वपतितं च भवेद् यतो ऽतः
काले ऽभियुक्तपतितं रसवत् सुखाय॥ए22

मूल पाठ: Yogayātrā · Edition: Ramacandra Jha, Darabhanga, KMSG 23, 1986 with reference to Kern, Hendrick, ``Die Yogayatra des Varahamihira, Adhyaya 1--9'' Verspreide Geschriften, Vol. 1, pp.99--168, Hague, 1913 and Bhattotpala's commentary in the Brhatsamhita · Data entry Mizue Sugita · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc