भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.96-2

6.96-2.96

षण्णवतितमः सर्गः

6.96-2.1

श्रीवसिष्ठ उवाच ।
इति ब्रह्मणि विश्रान्तिमवाप्य स शिखिध्वजः ।
मुहूर्तमासीत्संशान्तमना निर्वातदीपवत्

6.96-2.2

निर्विकल्पसमाधानपरेणाशु विविक्षितम् ।
स्वलीलयेति कुम्भेन झटित्येव प्रबोधितः

6.96-2.3

कुम्भ उवाच ।
राजन्नज्ञाननिद्रातः प्रबुद्धोऽसि शिवः स्थितः ।
कार्यं नास्तमयेनैव न चानस्तमयेन ते

6.96-2.4

सकृदेव विभातात्मा नष्टानिष्टपदात्मकः ।
कलाकलननिर्मुक्तो जीवन्मुक्तोऽङ्ग सांप्रतम्

6.96-2.5

श्रीवसिष्ठ उवाच ।
कुम्भेन बोधितस्त्वेवं स बभूवावबोधवान् ।
विनिर्गतो रराजोच्चैर्महामोहसमुद्गकात्

6.96-2.6

विश्रान्तधीः क्षणेनैव पश्यन्दृश्यस्य वस्तुनः ।
असत्तामेव मुक्तात्मा लीलया समुवाच ह

6.96-2.7

शिखिध्वज उवाच ।
ज्ञातप्रायमपीदं तु यत्पृच्छामि तदुच्यताम् ।
भूयो निपुणबोधाय मम मानद मोदद

6.96-2.8

शिवे शान्ते निराभासे पदेऽनुल्लसितात्मनि ।
द्रष्टृदर्शनदृश्याख्यो विश्वात्मा प्रत्ययः कुतः

6.96-2.9

कुम्भ उवाच ।
साधु पृष्टं महाराज राजसे वाथ भास्वरः ।
एतदेव हि ते शिष्टं ज्ञातुं यत्तदिदं श्रृणु

6.96-2.10

यदिदं दृश्यते किंचिज्जगत्स्थावरजंगमम् ।
सर्वं सर्वप्रकाराढ्यं कल्पान्ते तद्विनश्यति

6.96-2.11

ततः स्तिमितगम्भीरं न तेजो न तमस्ततम् ।
महाकल्पविलासान्ते सत्सारमवशिष्यते

6.96-2.12

चिन्मात्रममलं शान्तमाभातं परमं नभः ।
समस्तकलनोन्मुक्तं युक्तं परमया धिया

6.96-2.13

यदेकोदितमत्यच्छं शान्तमाततमुज्ज्वलम् ।
परमात्मात्मकं तेजस्तिमितं ज्ञप्तिमात्रकम्

6.96-2.14

अप्रतर्क्यमविज्ञेयं समं शिवमनिन्दितम् ।
ब्रह्मनिर्वाणमापूर्णमापूर्णोदितसंविदा

6.96-2.15

अणीयसामणीयश्च स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि

6.96-2.16

ईदृशं तत्परं सूक्ष्मं तस्याग्रे यदिदं नभः ।
अणोः पार्श्वे महामेरुरिव स्थूलात्म लक्ष्यते

6.96-2.17

ईदृशं तत्परं स्थूलं यस्याग्रे यदिदं जगत् ।
परमाणुवदाभाति क्वचिदेव न भाति च

6.96-2.18

विश्वात्मकचनं नाम पदेऽसंभववेधसः ।
तदहंवेदनं विद्धि विराडात्मा जगत्स्थितम्

6.96-2.19

वातस्य वातस्पन्दस्य यथा भेदो न विद्यते ।
शून्यत्वखत्वोपमयोश्चिन्मात्राहंत्वयोस्तथा

6.96-2.20

जलेऽस्ति देशकालान्ते यथोर्म्यादि सकारणम् ।
परेऽसद्देशकालान्ते तथा जगदकारणम्

6.96-2.21

हेम्न्यस्ति देशकालान्ते कटकादि सकारणम् ।
ब्रह्मण्यदेशकालान्ते तथा जगदकारणम्

6.96-2.22

ईदृशं तद्वरिष्ठं च जगद्राज्यं तदक्षतम् ।
न द्वैतममलं शान्तं जगत्तृणलवायते

6.96-2.23

ईदृशं तत्परं श्रेयस्तस्मिन्सति यदीश्वरे ।
जगत्पदार्थसार्थश्रीः सा सत्तामेति वेदनात्

6.96-2.24

तत्सारमेकमेवेह विद्यते भूपते ततम् ।
एकमेकान्तचित्कान्तं नैकमप्यद्वितावशात्

6.96-2.25

तस्माद्द्वितीया कलना काचिन्नाम न विद्यते ।
आत्मतत्त्वमलं भातं तदेवापूर्णमक्षयम्

6.96-2.26

संस्थितं सर्वदा सर्वं सर्वाकारमिवोदितम् ।
अदृश्यत्वादलभ्यत्वान्न तत्कार्यं न कारणम्

6.96-2.27

प्रत्यक्षादेरगम्यत्वात्किमप्येव तदुत्तमम् ।
सर्वं सर्वात्मकं सूक्ष्ममच्छानुभवमात्रकम्

6.96-2.28

आख्यानाख्यास्वरूपस्य निराभासप्रभादृशः ।
सतो वाप्यसतो वाथ कथं कारणता भवेत्

6.96-2.29

यद्वै न कस्यचिद्बीजमनाख्यत्वान्न कारणम् ।
न किंचिज्जायते तस्मात्प्रमाणादि ततात्मनः

6.96-2.30

अकर्तृकर्मकरणं सत्यं चिद्धनमक्षतम् ।
आत्मरूपमनाभासं स्वयंवेदनमक्षतम्

6.96-2.31

तस्मान्न जायते किंचित्परस्माद्ब्रह्मणो मुने ।
कथं किं लभ्यते केन यथोर्म्यादि सकारणम्

6.96-2.32

परेऽसद्देशकालान्ते तथा जगदकारणम् ।
शिखिध्वज उवाच ।
जलादौ यत्तरङ्गादि तत्सकारणमस्ति हि

6.96-2.33

परे जगदहंतादि नाकारणमवैम्यहम् ।
कुम्भ उवाच ।
इदानीं तत्त्वतो ज्ञातमेतत्सत्यं महीपते

6.96-2.34

इदं जगदहंतादि नेह किंचिन्न विद्यते ।
जगच्छब्दार्थरहितं जगदस्ति शिवात्मकम्

6.96-2.35

व्योम्न्येव निर्मितं शान्तं व्योम्ना सूक्ष्मतरेण च ।
यथा नभसि शून्यत्वं तथेदं जगदीश्वरे

6.96-2.36

सदृशं स्वस्वरूपेण न वा रूपेण केनचित् ।
एवंरूपं जगदिदं सम्यग्ज्ञातं शिवं भवेत्

6.96-2.37

सम्यग्ज्ञानप्रभावेण विषमप्यमृतायते ।
असम्यग्ज्ञातमशिवं जगद्दुःखप्रदं परम्

6.96-2.38

विषबुद्ध्यामृतमपि भुक्तं विषरसायते ।
ईदृशश्च यथा वेत्ति यद्यदेष चिदीश्वरः

6.96-2.39

तत्तथैवाशु भवति तादृग्रूपतया शिवः ।
यथा ज्वाला भ्रमाज्जाता विचित्राकारविभ्रमैः

6.96-2.40

तिष्ठत्यनन्यरूपैव ब्रह्मसत्ता तथैव हि ।
यत्परं चित्स्वरूपेण स्थितमात्मनि मन्थरम्

6.96-2.41

तत्तेन देहदेह्यादिर्जगदादीव लक्ष्यते ।
केवलं परमेवेत्थं परमं भासते शिवम्

6.96-2.42

अतो जगदहंतादि प्रश्न एवेति नोचितः ।
यद्वस्तु विद्यमानं सत्प्रश्नस्तत्र विराजते

6.96-2.43

प्रेक्षितं यत्तु नास्त्येव प्रेक्षाप्रश्नेन तत्र किम् ।
संनिवेशं विना सत्ता यथा हेम्नो न विद्यते

6.96-2.44

तथा जगदहंभावं विना नेशस्य संस्थितिः । ।
अकारणत्वान्नास्तीदं ब्रह्मैवेत्थं विजृम्भते

6.96-2.45

अजृम्भमाणमेवेदं जगत्त्वेनेव संस्थितम् ।
यन्मया एव तेनैव मिथः संप्रेरिताशयम्

6.96-2.46

चमत्कुर्वन्त्यमी भावाः पञ्चके मिथुनौघवत् ।
चिन्मात्र एव चिन्मात्रं चिन्मात्रेणावधीयते

6.96-2.47

नानात्मनैव नानेव स्वात्मज्ञानात्मनात्मवत् ।
पूर्णात्पूर्णान्युद्धरन्ति पूर्णात्पूर्णानि चक्रिरे

6.96-2.48

भवन्ति पूर्णात्पूर्णानि पूर्णमेवावशिष्यते ।
चिन्मात्रमेव कचति यच्चिन्मात्रमयात्मनि

6.96-2.49

अकचित्वैव तन्नाम कचितं सर्गवेदनम् ।
अहं चिता चिदेवादौ भवतीव स्वयं ततः

6.96-2.50

अभवन्त्येव रूपं स्वमत्यजन्ती निरामयम् ।
तेजोमयमनाद्यन्तं मनोरूपमनन्तकम्

6.96-2.51

सम्राट्संसारमाभासि भवतीव स्वयं वपुः ।
पश्यत्यथ सदेवेदं स्वरूपत्वात्सदेव वा ।
भावनाद्भूततामेति दृश्यं भवति च क्षणात्

6.96-2.52

शान्तं जगत्प्रसररूपतया स्वभाव-
शब्दार्थमुक्तमिदमव्यपदेश्यमेकम् ।
वस्तु स्थितं निजचमत्करणावलोक-
रूपं जगत्स्वरहितानुभवात्मतत्त्वम्

6.96-2.96

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वा० पू० चू० शिखिध्वजावबोधनं नाम षण्णवतितमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc