भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.86-2

6.86-2.86

षडशीतितमः सर्गः

6.86-2.1

चूडालोवाच । ।
आत्मस्वभाववशतो जातं जगदिदं महत् ।
स्थितिं वासनयाभ्येत्य धर्माधर्मवशे स्थितम्

6.86-2.2

वासनाह्रासमानीय धर्माधर्मैर्न गृह्यते ।
ततो न जायते जन्तुरिति नो दर्शनं मुने

6.86-2.3

शिखिध्वज उवाच ।
अत्युदारं महार्थं च वक्षि त्वं वदतां वर ।
अनुभूतिमुपारूढं गूढं च परमार्थवत्

6.86-2.4

त्वद्वाक्यविभवेनाद्य श्रुतेनानेन सुन्दर ।
पीतेनेवामृतेनाहमन्तर्यातोऽस्मि शीतताम्

6.86-2.5

तत्समासेन तां तावदात्मोत्पत्तिं वदाशु मे ।
ततः श्रोष्यामि यत्नेन ज्ञानगर्भां गिरं तव

6.86-2.6

तेन पद्मजपुत्रेण मुनिना नारदेन तत् ।
क्व कृतं वीर्यमार्येण कथयाद्य यथास्थितम्

6.86-2.7

चूडालोवाच ।
ततो निबध्नता तेन मनोमत्तमतङ्गजम् ।
विवेकविपुलालाने शुद्धया धीवरत्रया

6.86-2.8

तद्वीर्यं कल्पकालाग्निगलितेन्दुद्रवोपमम् ।
रसानां पारदादीनां दिव्यानामनुरञ्जनम्

6.86-2.9

मुनिना पार्श्वगे कुम्भे स्फाटिके विलसद्रुचौ ।
अद्भुते विद्रुताकारं चन्द्रे चन्द्र इवार्पितम्

6.86-2.10

तत्र शैले बृहत्कान्ते स्थूलः पार्श्वेषु चाभितः ।
गम्भीरकुक्षिः सुदृढश्चोपलाहननक्षमः

6.86-2.11

संकल्पितेन क्षीरेण स कुम्भस्तेन पूरितः ।
अमृतापूरभिन्नेन विधिनेवामृतार्णवः

6.86-2.12

तत्र मासाद्गतो वृद्धिं मुनिमन्दाहुतिक्रमः ।
अमृताब्धौ शुभो गर्भ इन्दोरिन्दुरिवानुजः

6.86-2.13

इन्दुं मास इवापूर्णं कालेन सुषुवे घटः ।
गर्भं कमलपत्राक्षं प्रसूनमिव माधवः

6.86-2.14

परिपूर्णसमस्ताङ्गः कुम्भाद्गर्भो विनिर्ययौ ।
इन्दुः सूक्ष्मादिवाम्भोधेरपरः क्षयवर्जितः

6.86-2.15

दिनैः कतिपयैरेव वृद्धिमभ्याजगाम सः ।
अप्रमेयाङ्गसौन्दर्यः शुक्लपक्षे शशी यथा

6.86-2.16

सर्वसंस्कारसंपन्ने स तस्मिन्नारदो मुनिः ।
भाण्डाद्भाण्ड इवाशेषं विद्याधनमयोऽजयत्

6.86-2.17

दिनैः कतिपयैरेव विज्ञाताशेषवाङ्मयम् ।
चकारैनं मुनिवरः प्रतिबिम्बमिवात्मनः

6.86-2.18

तेनाराजत पुत्रेण मुनिना मुनिनायकः ।
रत्नाद्रौ प्रतिबिम्बेन संध्योदित इवोडुराट्

6.86-2.19

अथैनं पुत्रमादाय ब्रह्मलोकं स नारदः ।
जगामाथ स्वपितरं ब्रह्माणं चाभ्यवादयत्

6.86-2.20

कृताभिवन्दनं ब्रह्मा पौत्रमादाय तं तदा ।
अभिवादितवेदादिं स्वयमङ्के न्यवेशयत्

6.86-2.21

अथाशीर्वादमात्रेण सर्वज्ञं ज्ञानपारगम् ।
पौत्रं तं कुम्भनामानं चकार कमलोद्भवः

6.86-2.22

साधो सोऽहमयं कुम्भः पौत्रोऽहं पद्मजन्मनः ।
पुत्रोऽहं नारदमुनेः कुम्भनामास्मि कुम्भजः

6.86-2.23

निवसाम्यब्जजपुरे पित्रा सह यथासुखम् ।
चत्वारः सुहृदो वेदा मम लीलाविलासिनः

6.86-2.24

मातृष्वसा मे गायत्री मम माता सरस्वती ।
ब्रह्मलोके मम गृहं पौत्रस्तत्रास्मि सुस्थितः

6.86-2.25

यथाकाममशेषेण जगन्ति विहराम्यहम् ।
लीलया परिपूर्णत्वान्न तु कार्येण केनचित्

6.86-2.26

धरां पतति मे पादौ पततो न महीतले ।
रजः स्पृशन्ति नाङ्गानि ग्लानिं नायाति मे वपुः

6.86-2.27

अद्याकाशपथा गच्छन्दृष्टवांस्त्वामहं पुरः ।
इह तेनागतोऽस्म्यङ्ग सर्वं कथितवानिति

6.86-2.28

एषोऽहमित्यखिलमेव यथानुभूतं
ते वर्णितं ननु मया वनवासतज्ज्ञ ।
सन्तो हि संकथनमार्यजनोत्तमेषु
निर्मान्त्यलं सुभगसंव्यवहारदक्षाः

6.86-2.29

श्रीवाल्मीकिरुवाच ।
इत्युक्तवत्यथ मुनौ दिवसो जगाम
सायंतनाय विधयेऽस्तमिनो जगाम ।
स्नातुं सभा कृतनमस्करणा जगाम
श्यामाक्षये रविकरैश्च सहाजगाम

इत्यार्षे श्रीवासिष्ठमहारामा० वा० दे० मो० निर्वाणप्रकरणे पू० चूडालोपाख्याने कुम्भजननकथनं नाम षडशीतितमः सर्गः ॥ ८६ ॥।
॥ अष्टादशो दिवसः ॥

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc