भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.83

6.83.83

त्र्यशीतितमः सर्गः

6.83.1

श्रीवसिष्ठ उवाच ।
चिन्मात्रपरमाकाश एष यः कथितो मया ।
एषोऽसौ शिव इत्युक्तस्तदा रुद्रः प्रनृत्यति

6.83.2

यासौ तस्याकृतिर्नासावाकृतिः कृतिनां वर ।
तच्चिन्मात्रघनं व्योम तथा कचति तादृशम्

6.83.3

मया दृष्टा तदाकाशमेव शान्तं तदाकृतिः ।
मयेव तत्परिज्ञातं नान्यः पश्यति तत्तथा

6.83.4

यथा नाम स कल्पान्तः स रुद्रः सा च भैरवी ।
मायामात्रं तथा सर्वं परिज्ञातमलं मया

6.83.5

चिद्व्योमैव परं शून्यं संनिवेशेन तेन तत् ।
तथा संलक्ष्यते नाम भैरवाकारतां गतम्

6.83.6

वाच्यवाचकसंबन्धं विना बोधो न जायते ।
यस्मात्तस्मात्त्वयि मया दृष्टमेव प्रवर्णितम्

6.83.7

यदेव वाच्युपारूढमेतद्राम सदैव ते ।
रूढाधिभौतिकदृशः क्षणान्मायात्मतां गतम्

6.83.8

न भैरवी सा नैवासौ भैरवो नैव संक्षयः ।
समस्तमेव तद्भ्रान्तिमात्रं चिद्व्योम भासते

6.83.9

स्वप्ननिर्माणपुरवत्संकल्परणवेगवत् ।
कथार्थसार्थरसवन्मनोराज्यविलासवत्

6.83.10

यथा स्वप्नपुरं स्वच्छे व्योम्नि मौक्तिकधीर्यथा ।
यथाकेशोण्ड्रकं व्योम्नि तथाऽचिद्भाति चिद्धने

6.83.11

चिन्मात्राकाशमेवाच्छं कचति स्वात्मनात्मनि ।
तथा नाम यदाभाति तदात्मैवं जगत्तया

6.83.12

यथा चिद्व्योम्नि कचति स्व एवात्मा तथा पटे ।
तथा कचति तत्तत्र कल्पान्तानलनर्तने

6.83.13

शिवयोरेवमाकारो निराकारोऽङ्ग वर्णितः ।
अधुना श्रृणु ते वक्ष्ये नृत्यस्यानृत्ततास्थितिम्

6.83.14

चेतनं चेतनाधातोः किंचित्संस्पदनं विना ।
क्वचित्स्थातुं न शक्नोति वस्त्ववस्तुतया यथा

6.83.15

स्वभावाच्चेतनं तस्माद्रुद्रत्वेन तथा स्थितम् ।
हेमेव रूपकत्वेन संनिवेशविलासिना

6.83.16

यन्नाम चेतनं यत्र तदवश्यं स्वभावतः ।
स्पन्दधर्मि भवत्येव वस्तुता हि स्वभावजा

6.83.17

यः स्पन्दश्चिद्धनस्यास्य शिवस्यास्य स एव नः ।
स्ववासनावेशवशान्नृत्यमेव विराजते

6.83.18

अतः स कल्पान्तशिवो रुद्रो रौद्राकृतिर्द्रुतम् ।
यन्नृत्यति हि तद्विद्धि चिद्धनस्पन्दनं निजम्

6.83.19

श्रीराम उवाच ।
प्रामाणिकदृशा दृश्यमिदं नास्त्येव वस्तुतः ।
यदेवास्तीव तत्सर्वं कल्पान्ते प्रविनश्यति

6.83.20

तत्कल्पान्तमहाशून्ये एतस्मिन्परमाम्बरे ।
कथं चिन्नाम वाऽचेत्यं चेता चेतति चिद्धनः

6.83.21

श्रीवसिष्ठ उवाच ।
एतदेव तदाप्यङ्ग द्वैतैक्याम्भोधिशान्तये ।
यदि चिन्मात्रनभसश्चेत्यमस्ति न किंचन

6.83.22

न किंचिच्चेतति ततः क्वचित्किंचित्कदाचन ।
सर्वं शान्तं दृषन्मौनं विज्ञानघनमम्बरम्

6.83.23

यच्चेदं चेत्यते नाम तत्स्वभावोऽस्य वल्गति ।
चित्स्वभावस्य शान्तस्य स्वसत्तायामवस्थितेः

6.83.24

यथा स्वप्ने चिदेवान्तः पुरपत्तनवद्भवेत् ।
पुरादि न तु तत्किंचिद्विज्ञानाकाशमेव तत्

6.83.25

आत्मनात्मनि चिच्छून्यं ज्ञात्वा च ज्ञेयमप्यलम् ।
तथा च सर्गादारभ्य वेत्ति स्वं कचनं च तत्

6.83.26

स्वयमन्तः कचन्ती चित्स्वभावाकाशकोटरे ।
क्षणकल्पजगद्भ्रान्तिं धत्ते कल्पनया स्वया

6.83.27

स्वयमन्तः कचत्कान्तिश्चिदाकाशः स्वभावखे ।
अयं सोहमयं च त्वं करोतीत्यादिकल्पनम्

6.83.28

तस्मान्न द्वैतमस्तीह न चैक्यं न च शून्यता ।
न चेतनाचेतनं वै मौनमेव न तच्च वा

6.83.29

न चेतति क्वचित्किंचित्कश्चिच्चेत्यात्मभावतः ।
तेन चेतापि नास्तीव मौनमेवावशिष्यते

6.83.30

निर्विकल्पसमाधिर्हि सिद्धान्तः सर्ववाड्मये ।
तच्च जीवदृषन्मौनं तूष्णीमेवात आस्यताम्

6.83.31

कुर्वन्निजं प्रकृतमेव यथाप्रवाह-
माचारजालमचलः परमार्थमौनात् ।
निर्मानमोहमदभेदमनङ्गजीव-
माकाशकोशविशदाशयशान्तमास्व

6.83.83

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रक० उत्तरार्धे पाषा० विश्वरूपदर्शनं नाम त्र्यशीतितमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc