भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.7-2

6.7-2.7

सप्तमः सर्गः

6.7-2.1

श्रीवसिष्ठ उवाच ।
यन्मुक्तावलिता रत्नभूषिता भान्ति योषितः ।
मदेन्दावुदिते क्षुब्धकामक्षीरार्णवोर्मयः

6.7-2.2

सौवर्णाम्भोजकोशस्थलोलालिपटलश्रियम् ।
धारयन्ति दृशः स्त्रीणां कपोलतलदोलिताः

6.7-2.3

उद्यानवनखण्डेषु भूमौ कृतमदा मधौ ।
हृद्याः सुमनसो भान्ति दासा इव मनोभुवः

6.7-2.4

क्रव्यादगृध्रगोमायुकौलेयकवलाङ्गिकाः ।
स्त्रियः समुपमीयन्ते चन्द्रचन्दनपङ्कजैः

6.7-2.5

सौवर्णकलशाम्भोजकलिकामातुलुङ्गवत् ।
दृश्यते स्त्रीस्तनश्रेणी रक्तपूतिसुगन्धिका

6.7-2.5

रसायनेन्दुनिस्यन्दमधुबिम्बासवद्रवैः ।
ओष्ठाभिधो मांसलवो लालाक्त उपमीयते

6.7-2.7

अल्पाल्पाष्ठीवदाकारा भुजाक्रूरास्थिशङ्कवः ।
महाबाहुलताशब्दैर्वर्ण्यन्ते कविभिः शुभैः

6.7-2.8

कदलीस्तम्भसम्भारसुन्दरीभिस्तथा भृता ।
कुचशोभोचितानन्दा तोरणालिर्विराजते

6.7-2.9

आपातमन्दमधुरा मध्ये द्वन्द्वानुबन्धिनी ।
शीघ्रावसानविरला लक्ष्मीरप्यभिवाञ्छ्यते

6.7-2.10

समुपैति मतिर्दुःखं सुखं च शतशाखताम् ।
दुःखशाखास्तु जायन्ते नानाकर्मफलाः श्रियः

6.7-2.11

बद्धजालघनाकाराः कारार्थमिव रज्जवः ।
दच्छदःसदृशा वाचः प्रतानगहने स्थिताः

6.7-2.12

संतता मोहमिहिका कार्यासारविसारिणी ।
यमुना प्रावृषीवैति तिमिरश्यामला चिरम्

6.7-2.13

कटूकृतान्तःकरणो नानासुखविशारदः ।
वर्धते हि गतस्नेहं जन्मप्रतिविषारसः

6.7-2.14

व्याधूतजर्जराकीर्णजनतापर्णराजयः ।
स्वकर्मपवना वान्ति नानावकररेणवः

6.7-2.15

कालः कवलितानन्तजगत्पक्वफलोऽप्ययम् ।
घस्मराचारजठरः कल्पैरपि न तृप्यति

6.7-2.16

मोहमारुतमापीय त्वचा विषमचारिणः ।
स्फुरन्तीहाहयश्चित्राः शीतलाचलदीप्तयः

6.7-2.17

चिन्तापिशाचोपहता विवेकेन्दूदयं विना ।
तमसेव निरालोका याति यौवनयामिनी

6.7-2.18

जिह्वा जर्जरतामेति प्राकृतानुनयज्वरैः ।
पद्मकोटरकोणस्थमपि सूत्रं हिमैरिव

6.7-2.19

दुःखशोकमहाष्ठीलः कष्टकण्टकसंकटः ।
सहस्रशाखतां याति दारिद्र्यदृढशाल्मलिः

6.7-2.20

अन्तःशून्योन्नतिध्वस्तचित्तचैत्यकृतालयः ।
मायाबहुलयामिन्यां लोभोलूको विवल्गति

6.7-2.21

पूर्वं गृहीत्वा कर्णाभ्यां स्फुरन्ती परिनिश्चयम् ।
जराजर्जरमार्जारी यौवनाखुं निकृन्तति

6.7-2.22

निःसारा क्रमशः क्रान्तधराधरसमुन्नतिः ।
डिण्डीरपिण्डिकेवेयं सृष्टिरायाति पुष्टताम्

6.7-2.23

आभासपुष्पधवला जगत्पल्लवशालिनी ।
सत्तालता विकसिता धर्मार्थफलधारिणी

6.7-2.24

सुराचलमहास्थूणं चन्द्रसूर्यगवाक्षकम् ।
गगनाच्छादनं चारु ध्रियते त्रिजगद्गृहम्

6.7-2.25

संसारसरसि स्फारे चरन्ति घ्राणषट्पदाः ।
शरीरपुष्करेष्वन्तश्चिद्रूपरसपायिनः

6.7-2.26

नभोमार्गमहानीलकुट्टिमैकान्तशालिनी ।
भुवनौदररम्यान्तः स्फुरत्यादित्यदीपिका

6.7-2.27

आशातन्तुनिबद्धाङ्गी जागती जीर्णपक्षिणी ।
स्ववासनाशलाकेऽन्तर्निबद्धेन्द्रियपञ्जरे

6.7-2.28

अनारतपतज्वालभूतपर्णपरम्परा ।
स्पन्दते मरुताऽऽमृष्टा संसृतिव्रततिश्चिरम्

6.7-2.29

सृष्टेः कतिपयं कालं प्रहृष्टाः कुलशालिनः ।
अधःकृतोग्रनरकपङ्काः शङ्कोज्झिताः क्षणम्

6.7-2.30

भुक्तेन्दुखण्डकणिकानीलनीरदशैवले ।
स्वर्गमार्गसरस्यन्तः स्फुरन्ति सुरसा रसाः

6.7-2.31

नानाफलालिमलिना वासनाजालमालिता ।
स्पन्दामोदमयी स्फीता क्रियाविकसिताब्जिनी

6.7-2.32

वराकी सृष्टिशफरी स्फुरन्ती भवपल्वले ।
कृतान्तवृद्धगृध्रेण शठेन विनिगृह्यते

6.7-2.33

तरङ्गफेनमालेव सैवान्येव च भङ्गुरा ।
श्वःश्वोऽपरेन्दुलेखेव समुदेति विचित्रता

6.7-2.34

भूरिभूतशराबाणि क्षणभङ्गानि कुर्वता ।
इदं कालकुलालेन चक्रं संपरिवर्त्यते

6.7-2.35

असंख्यातानि कल्पानि संजातान्यचले पदे ।
जगज्जङ्गलजालानि दग्धानि युगवह्निना

6.7-2.36

भावाभावैरपर्यन्तैः सुखदुःखदशाशतैः ।
वैपरीत्यं प्रयात्येवमजस्त्रं जागती स्थितिः

6.7-2.37

क्षुब्धैर्युगपरावर्तैर्वासनाश्रृंखलोम्भिता ।
महाशनिनिपातैश्च न भग्नाऽबुद्धधीरता

6.7-2.38

शतशो विद्रुतारिध्रैर्दनुपुत्रैरमिष्टुताम् ।
भवभग्नतयामैन्द्रीं तनुं वहति वासना

6.7-2.39

विशत्यविरतं भूतसर्गपांसुपरम्परा ।
नित्यं नियतिवात्येयं कालव्यालगलान्तरम्

6.7-2.40

पदार्थाम्भसि सर्वाणि फलफेनानि सर्वतः ।
पतन्त्यविरतापातमभाववडवामुखे

6.7-2.41

स्फुरन्त्याकस्मिकोद्धूता विचित्रद्रव्यशक्तयः ।
स्वभावमात्रसंपन्नाः स्पन्दश्रिय इवाम्भसः

6.7-2.42

भूतमौक्तिकसंपूर्णान्बृहतः सुबहूनपि ।
जगत्कलभकानत्ति कृतान्तोद्रिक्तकेसरी

6.7-2.43

कुलशैलफला मेघपक्षपुञ्जाः फलामृजः ।
जायन्ते च म्रियन्ते च ध्रियन्ते च जगत्खगाः

6.7-2.44

चिद्भित्तौ स्पन्दशुभ्रायां रङ्गैः पञ्चभिरिन्द्रियैः ।
उन्मीलयति संसारचित्राणि विधिचित्रकृत्

6.7-2.45

अजस्रगत्वरीं सर्वपरिवर्तविधायिनीम् ।
निमेषशतभागाङ्गीमसद्दुःसाधिताङ्कुराम्

6.7-2.46

सूक्ष्मां कालस्य कलनां स्वसमुत्थानकारिणीम् ।
ध्यानेनैवान्ववेक्ष्यैताः स्थिताः स्थावरजातयः

6.7-2.47

रागद्वेषसमुत्थेन भावाभावमयेन च ।
जरामरणरोगेण जीर्णा जङ्गमजातयः

6.7-2.48

सुदुष्कृतोत्तमध्यानचारिण्यो धरणीतले ।
नियत्या नियतं कालं पीड्यन्ते कीटपङ्क्तयः

6.7-2.49

क्षणेनादृश्य एवेदं निगिरत्यखिलं सुखी ।
सुदुर्लक्ष्यविलः कालव्यालो विपुलभोगवान्

6.7-2.50

कालेन किंचिदालक्ष्य स्वशरीराकुलीकृताः ।
शीतवातातपप्रौढाः प्रोल्लसत्पुष्पदीप्तयः

6.7-2.51

फलप्रदाश्चरन्तीह शीलिनः श्वभ्रविग्रहाः ।
पयःपटलविश्रान्तत्रैलोक्याम्भोजकोटरे

6.7-2.52

करोति घुंघुमं भूरि भूतभ्रमरपेटिका ।
ब्रह्माण्डभैक्ष्यभाण्डेयं काली भगवती क्रिया

6.7-2.53

स्वयं दत्वैव दत्वैव भूतभिक्षां जिघृक्षति ।
तिमिरालीककबरी इन्द्वर्कचपलेक्षणा

6.7-2.54

ब्रह्मोपेन्द्रमहेन्द्रादिधरागिरिवरादिका ।
ब्रह्मतत्त्वैकपिटका लम्बमानपयोधरा

6.7-2.55

चिच्छक्तिमातृका स्थूला तरला घनचापला ।
तारकाजालदशना संध्यारुणतरा धरा

6.7-2.56

समस्तपद्मिनीहस्ता शतक्रतुपुरानना ।
सप्ताब्धिमुक्तालतिका नीलाम्बरपरीवृता

6.7-2.57

जम्बूद्वीपमहानाभिर्वनश्रीरोमराजिका ।
भूत्वा भूत्वा विनश्यन्ती त्रिलोकीवृद्धकामिनी

6.7-2.58

असकृज्जायते नष्टा भूरिविभ्रमकारिणी ।
मग्नमन्यैरथोन्मग्नं भीमे कालमहार्णवे

6.7-2.59

प्रतिकल्पक्षणं क्षीणैर्ब्रह्माण्डस्फुटबुद्बुदैः ।
कालेऽगाधरसस्यन्दे स्थित्वा स्थित्वा पुनःपुनः

6.7-2.60

कल्पमात्रनिमेषेणोड्डीनाः कारणसारसाः ।
उत्पत्त्योत्पत्त्य नाशिन्यः संतप्ताः सृष्टिविद्युतः

6.7-2.61

कालमेघे स्फुरन्त्येताश्चित्प्रकाशवनोद्यमाः ।
प्रपतद्भूतविहगाः पतन्त्यविरतभ्रमाः

6.7-2.62

कालतालात्किलोत्तालाद्ब्रह्माण्डफलपालयः ।
उन्मेषकृतवैरिञ्चसृष्टयो देवनायकाः

6.7-2.63

निमेषकृतसंहाराः सन्ति केचन कुत्रचित् ।
निमेषोन्मेषसंक्षीणकल्पजालाः सहस्रशः

6.7-2.64

रुद्राः केचन विद्यन्ते तस्मिंश्चित्परमे पुनः ।
तेऽपि यस्य निमेषेण भवन्ति न भवन्ति च

6.7-2.65

तादृशोऽप्यस्ति देवेशो ह्यनन्तेयं क्रियास्थितिः ।
अनन्तसंकल्पमये शून्ये च ब्रह्मणः पदे

6.7-2.65

न संभवन्ति का नाम शक्तयश्चित्रपूरकाः ।
एवमक्षीणसंकल्पलब्धार्थभरभासुरा ।
जागती कल्पना येयं तदज्ञानविजृम्भितम्

6.7-2.67

याः संपदो यदुत संततमापदश्च
यद्बाल्ययौवनजरामरणोपतापाः ।
यन्मज्जनं च सुखदुःखपरम्पराभि-
रज्ञानतीव्रतिमिरस्य विभूतयस्ताः

6.7-2.7

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये देवदूतोक्ते मोक्षोपायेषु निर्वाणप्रकरणे पू० अज्ञानमाहात्म्यं नाम सप्तमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc