भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.65

6.65.65

पञ्चषष्टितमः सर्गः

6.65.1

विद्याधर्युवाच ।
अथ कालेन महता सोऽनुरागो विरागताम् ।
प्राप्तो मम शरच्छान्तौ विरसः पल्लवो यथा

6.65.2

वृद्ध एकान्तरसिको नीरसः स्नेहवर्जितः ।
भर्ताऽजिह्ममतिर्मौनी किं मन्ये जीवितेन मे

6.65.3

वरं वैधव्यमाबाल्याद्वरं मरणमेव च ।
वरं व्याधिरथापद्वा नाहृद्यप्रकृतिः पतिः

6.65.4

एतावज्जन्मसाफल्यं सौभाग्यमविखण्डितम् ।
रसिकः पेशलाचारो यन्नार्यास्तरुणः पतिः

6.65.5

हता नीरसनाथा स्त्री हताऽसंस्कारिणी च धीः ।
हता दुर्जनभुक्ता श्रीर्हता वेश्याहृता च ह्रीः

6.65.6

सा स्त्री यानुगता भर्त्रा सा श्रीर्यानुगता सता ।
सा धीर्या मधुरोदारा साधुता समदृष्टिता

6.65.7

नाधयो व्याधयो नैव नापदो न दुरीतयः ।
कुर्वन्ति मनसो बाधां दंपत्योरनुरक्तयोः

6.65.8

उत्फुल्लाः कुसुमस्थल्यो नन्दनोद्यानभूमयः ।
धन्वायन्ते कुनाथानां विनाथानां च योषिताम्

6.65.9

सर्व एव जगद्भावा यथेच्छं गुणलेशतः ।
संत्यज्यन्ते प्रमादात्तु वर्जयित्वा पतिं स्त्रिया

6.65.6.2.65.10

स्थिरयौवनया दुःखान्येतानि मुनिनायक ।
भुक्तानि वर्षवृन्दानि पश्य दौर्भाग्यजृम्भितम्

6.65.11

अथ क्रमेण तेनैव सरागो मे विरागताम् ।
आययौ हिमदग्धाया नलिन्या इव नीरसः

6.65.12

विरागवासनास्तेन सर्वभावानुरञ्जना ।
तवोपदेशेनेच्छामि मुने निर्वाणमात्मनः

6.65.13

अप्राप्ताभिमतार्थानामविश्रान्तधियां परे ।
मरणैरुह्यमानानां जीवितान्मरणं वरम्

6.65.14

स मद्भर्ताद्य निर्वाणमीहमानो दिवानिशम् ।
राजा राज्ञेव मनसा मनो जेतुं प्रबुध्यते

6.65.15

ब्रह्मंस्तस्य च मद्भर्तुर्मम चाज्ञानशान्तये ।
न्यायोपपन्नया वाचा कुरु स्मरणमात्मनः ओ

6.65.16

यदा मामनपेक्ष्यैव स मद्भर्तात्मनि स्थितः ।
तदा विरागो वैरस्यमनयन्मे जगत्स्थितिम्

6.65.17

संसारवासनावेशवर्जितास्मि ततोऽवसम् ।
निबध्याभिमतां तीव्रां व्योमसंचारधारणाम् ०

6.65.18

अर्जयित्वा तथा व्योम्नि गतिं धारणया मया ।
अभ्यस्ता धारणा भूयः सिद्धसङ्गफलप्रदा

6.65.19

ततः स्वजगदाधारपूर्वापरनिरीक्षया ।
स्थिताहं धारणां बद्ध्वा सापि सिद्धिं समागता

6.65.6.2.65.20

अथ स्वजगतो दृष्ट्वा हृदयं तस्य बाह्यगा ।
अहं दृष्टवती स्थूलां लोकालोकगिरेः शिलाम्

6.65.21

एतावतापि कालेन दंपत्योरावयोर्मुने ।
परं द्रष्टुमभूदिच्छा न काचन कदाचन

6.65.22

मद्भर्ता केवलं शुद्धवेदार्थैकान्तचिन्तया ।
न च यातं न चायातं वेत्त्यहो विगतैषणः

6.65.23

तेनासौ मत्पतिर्विद्वानपि न प्राप्तवान्पदम् ।
अद्य सोऽहं च वाञ्छावः प्रयत्नेन परं पदम्

6.65.24

तदेतामर्थिता ब्रह्मन्सफलां कर्तुमर्हसि ।
महतामर्थिनो व्यर्था न कदाचन केचन

6.65.25

भ्रमन्ती सिद्धसेनासु सदा नभसि मानद ।
त्वदृते नेह पश्यामि घनाज्ञानदवानलम्

6.65.26

ब्रह्मन्विनैव करुणाकरकारणेन
सन्तो यतोऽर्थिजनवाञ्छितपूरणानि ।
कुर्वन्ति तेन शरणागततामुपेतां
मामर्हसीह न तिरस्करणेन योक्तुम्

6.65.65

इत्यार्षे श्रीवासिष्ठमहारा० वा० दे० मोक्षो० निर्वाण० उ० पाषाणो० विद्याधरीजन्मव्यवहारवर्णनं नाम पञ्चषष्टितमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc