भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.59-2

6.59-2.59

एकोनषष्टितमः सर्गः

6.59-2.1

श्रीवसिष्ठ उवाच ।
एतां दृष्टिमवष्टभ्य राघवाऽघविनाशिनीम् ।
तिष्ठ निःसङ्गसंन्यासब्रह्मार्पणमयात्मकः

6.59-2.2

यस्मिन्सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ।
यश्च सर्वमयो नित्यमात्मानं विद्धि तं परम्

6.59-2.3

दूरस्थमप्यदूरस्थं सर्वगं तत्स्थमेव च ।
तत्स्थः सत्तामवाप्नोषि तदेवास्यस्तसंशयः

6.59-2.4

यत्संवेद्यविनिर्मुक्तं संवेदनमनिर्मितम् ।
चेत्यमुक्तं चिदाभासं तद्विद्धि परमं पदम्

6.59-2.5

सा परा परमा काष्ठा सा दृशां दृगनुत्तमा ।
सा महिम्नां च महिमा गुरूणां सा तथा गुरुः

6.59-2.6

स आत्मा तच्च विज्ञानं स शून्यं ब्रह्म तत्परम् ।
तच्छ्रेयः स शिवः शान्तः सा विद्या सा परा स्थितिः

6.59-2.7

योऽयमन्तश्चितेरात्मा सर्वानुभवरूपकः ।
यत्र स्वदन्ते सर्वाणि स्वात्मद्रव्याणि सत्तया

6.59-2.8

स जगत्तिलतैलात्मा स जगद्गृहदीपकः ।
स जगत्पादपरसः स जगत्पशुपालकः

6.59-2.9

स तन्तुर्भूतमुक्तानां परिप्रोतहृदम्बरः ।
स भूतमरिचौघानां परमा तीक्ष्णता तथा

6.59-2.10

स पदार्थे पदार्थत्वं स तत्त्वं यदनुत्तमम् ।
स सतो वस्तुनः सत्त्वमसत्त्वं वा सतः स्वतः

6.59-2.11

यः स्ववित्तिविचित्रेण स्वयमात्मैव लभ्यते ।
सर्व एव जगद्भावा अविचारेण चारवः

6.59-2.12

अविद्यमानाः सद्भावा विचारविशरारवः ।
अहमादौ जगज्जाले मिथ्याभ्रमभरात्मनि

6.59-2.13

को नु भूत्वाऽनुबध्नामि वृत्तिं कथमवाप धीः ।
आद्यमध्यान्तमानानि संकल्पकलनान्यहम्

6.59-2.14

ब्रह्माकाशमनाद्यन्तं केवेयत्ता ममात्मनः ।
इति निश्चयवानन्तः सम्यग्व्यवहृतिर्बहिः

6.59-2.15

उदयास्तमयोन्मुक्तस्थितिरन्तः स सर्वदा ।
नास्तमेति न चोदेति मनः समसमस्थितम्

6.59-2.16

यस्य खस्येव शून्यत्वं स महात्मेह तद्वपुः ।
भावाद्वैतपदारूढः सुषुप्तपरया धिया

6.59-2.17

व्यवहार्यपि संक्षोभं नैत्यादर्शनरो यथा ।
आदर्शपुरुषस्येव व्यवहारवतोऽपि च

6.59-2.18

न यस्य हृदयोल्लेखो मनागपि स मुक्तिभाक् ।
अविभागमिवादर्शे चिन्मणौ प्रतिबिम्बति

6.59-2.19

चितेः परमनैर्मल्याद्व्यवहारो यथा गतः ।
चिच्चमत्कृतिरेवेयं जगदित्यवभासते

6.59-2.20

नेहास्त्यैक्यं न च द्वित्वं ममादेशोऽपि तन्मयः ।
वाच्यवाचकशिष्येहागुरुवाक्यैश्चमत्कृतैः

6.59-2.21

आत्मनात्मनि शान्तैव चिच्चमत्कुरुते चिति ।
चित्प्रस्पन्दो हि संसारस्तदस्पन्दः परं पदम्

6.59-2.22

चित्स्पन्दशमनेनेयं परिशाम्यति संसृतिः ।
महाचित्ते नतेऽर्थौऽशभावा यो भावनाक्षयः

6.59-2.23

असन्नपि स्वभावं तत्संवित्स्पन्द उदाहृतम् ।
शून्यत्वमजडं यत्तत्परमाहुश्चितेर्वपुः

6.59-2.24

तत्त्वेन भावनायत्ता संसृतिः सानुभूयते ।
अभावनामात्रलयात्सा च निःसाररूपिणी

6.59-2.25

केवलं केवलीभावात्तद्रूपा सैव शिष्यते ।
चित्स्पन्दमेव संसारचक्रप्रवहणं विदुः

6.59-2.26

मातृमानप्रमेयादि कटकादीव हेमनि ।
पृथगस्ति न च स्पन्दश्चितेर्या संसृतिर्भवेत्

6.59-2.27

चित्तमेव चितिस्पन्दस्तदबोधो हि संसृतिः ।
अबोधमात्रे चित्स्पन्दः कटकत्वमिवोत्थितम्

6.59-2.28

बोधमात्रविलीनेऽस्मिञ्छुद्धा चिद्राम शिष्यते ।
स्वभावबोधमात्रेण क्षीयते भोगवासना

6.59-2.29

भोगाभावनमेवेह परमं ज्ञत्वलक्षणम् ।
इतो नाभिमताः सर्वे ज्ञस्य भोगाः स्वभावतः

6.59-2.30

भवन्ति कोऽतितृप्तो हि दुरन्नं किल वाञ्छति ।
एतदेव परं विद्धि ज्ञत्वस्यापरलक्षणम्

6.59-2.31

स्वभावेनैव भोगानां यत्किलानभिवाञ्छनम् ।
चित्तत्स्पन्दैव सर्वात्मरूपिण्यस्तीति निश्चयः

6.59-2.32

योऽन्तः प्ररूढः स्वभ्यासो ज्ञत्वशब्देन स स्मृतः ।
यो न भुङ्क्ते भुज्यमानानपि भोगान्स बुद्धिमान् ।
लोकानुरोधसिद्ध्यर्थं स हन्ति लगुडैर्नभः

6.59-2.33

विना कृत्रिमया बुद्ध्या न सिद्धिरवगम्यते

6.59-2.34

क्वचिदात्मावलोके च स्वाङ्गावदलनैरपि ।
चिच्चेत्यं चेत्यकोटिस्था तावत्पश्यति विभ्रमम्

6.59-2.35

इदं यावदबोधात्मा स्पन्दते स्पन्दरूपिणी ।
सम्यग्बोधोदयोन्तः स्यात्स्पन्दास्पन्ददशाक्रमः

6.59-2.36

क्वापि याति च संशान्तदीपवत्साभिधानकः ।
चितः प्रशान्तरूपाया दीपिकायाः स्वभावतः

6.59-2.37

स्पन्दास्पन्दमयी नेह कथैवास्ति मनागपि ।
यदस्पन्दस्य मरुतो न सन्नासन्न मध्यगम्

6.59-2.38

रूपं तदेवासंवित्तिस्पन्दायाः प्रशमं चितेः ।
अभिन्नः स्याच्चितः स्पन्दः शुद्धचित्स्फाररूपधृक्

6.59-2.39

न बन्धाय न मोक्षाय स्थित आत्मनि केवलम् ।
चिच्चेन्निरर्थसंवित्तिनिर्वाणे न च विन्दते

6.59-2.40

तद्बन्धमोक्षपक्षादेर्नामापीह न विद्यते ।
मोक्षोऽस्त्वित्येव बोधोऽन्तः पूर्णता क्षयकारणम्

6.59-2.41

समास्त्वित्यपि बन्धस्ते श्रेयोऽसंवेदनं परम् ।
यदनाभासमजडं तद्विद्धि परमं पदम्

6.59-2.42

चितः स्वरूपं संस्थानमचेत्योन्मुखतात्मकम् ।
यः संकल्पनशब्दार्थरूपः स्पन्दो महाचितः .

6.59-2.43

बन्धमोक्षादिकार्होऽसौ प्रेक्ष्यमाणः प्रणश्यति ।
प्रेक्षणादेव संशान्ते त्वहंभावे निरास्पदे

6.59-2.44

न विद्मः केन किं कस्य बध्यते वाथ मुच्यते ।
संकल्प एव रचिते बुधश्चेदविभागवान्

6.59-2.45

तदसंकल्पमस्पन्दं सर्वं जातमवारितम् ।
स्पन्दे स्पन्दमये वाते तन्मयत्वात्सदा चिता

6.59-2.46

संक्षीणे न च संसारो निस्पन्दे चिद्धने स्थिते ।
चित्तेज एव चित्स्पन्द इति बुद्धे निरन्तरम्

6.59-2.47

व्यतिरिक्तश्चितः स्पन्दो न किंचिदवशिष्यते ।
अस्मिन्दृश्यमये दीर्घस्वप्ने स्वप्नान्तरं व्रजन् ।
न ज्ञो मोहमुपादत्ते सर्वगत्वात्स्वसंविदः

6.59-2.48

यत्रोदेति प्रसभमनिशं सर्गसंवित्तिसत्ता
यस्मिन्नेते सकलकलनाकारपङ्का गलन्ति ।
उद्यन्त्येते स्वदनसुभगं यत्र सर्वोपलम्भा
ध्यानेनैव तमवगमय प्रत्यगात्मानमन्तः

6.59-2.59

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० प्रत्यगात्मावबोधो नामैकोनषष्टितमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc