भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.53-2

6.53-2.53

त्रिपञ्चाशः सर्गः

6.53-2.1

श्रीभगवानुवाच ।
अर्जुन त्वं न हन्ता त्वमभिमानमलं त्यज ।
जरामरणनिर्मुक्तः स्वयमात्मासि शाश्वतः

6.53-2.2

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते ।
हत्वापि स इमाँल्लोकान्न हन्ति न निबध्यते

6.53-2.3

यैव संजायते संविदन्तः सेवानुभूयते ।
अयं सोऽहमिदं तन्म इत्यन्तः संविदं त्यज

6.53-2.4

अनयैव च युक्तोऽस्मि नष्टोऽस्मीति च भारत ।
अभितः सुखदुःखाभ्यामवशः परितप्यसे

6.53-2.5

स्वात्मांशैः क्रियमाणानि गुणैः कर्माणि भागशः ।
अहंकारविमूढात्मा कर्ताहमिति मन्यते

6.53-2.6

चक्षुः पश्यतु कर्णश्च श्रृणोतु त्वक्स्पृशत्विदम् ।
रसना च रसं यातु कात्र कोऽहमिति स्थितिः

6.53-2.7

कलनाकर्मणि रते मनस्यपि महात्मनः ।
न कश्चिदत्राहमिति क्लेशभागे क एव ते

6.53-2.8

बहुभिः समवायेन यत्कृतं तत्र भारत ।
एकोऽभिमानदुःखेन हास्यायैव हृइं गृह्यते

6.53-2.9

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये

6.53-2.10

अहन्त्वविषचूर्णेन येषां कायो न मारितः ।
कुर्वन्तोऽपि हरन्तोऽपि न च ते निर्विषूचिकाः

6.53-2.11

न क्वचिद्राजते कायो ममतामेध्यदूषितः ।
प्राज्ञोऽप्यतिबहुज्ञोऽपि दुःशील इव मानवः

6.53-2.12

निर्ममो निरहंकारः समदुःखसुखः क्षमी ।
यः स कार्यमकार्यं वा कुर्वन्नपि न लिप्यते

6.53-2.13

इदं च ते पाण्डुसुत स्वकर्म क्षात्रमुत्तमम् ।
अपि क्रूरमतिश्रेयः सुखायैवोदयाय च

6.53-2.14

अपि कुत्सितमप्यन्यदप्यधर्ममयक्रमम् ।
श्रेष्ठं ते स्वं यथा कर्म तथेहामृतवान्भव

6.53-2.15

मूर्खस्यापि स्वकर्मैव श्रेयसे किमु सन्मतेः ।
मतिर्गलदहंकारा पतितापि न लिप्यते

6.53-2.16

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनंजय ।
निःसङ्गस्त्वं यथाप्राप्तकर्मवान्न निबध्यसे

6.53-2.17

शान्तब्रह्मवपुर्भूत्वा कर्म ब्रह्ममयं कुरु ।
ब्रह्मार्पणसमाचारो ब्रह्मैव भवसि क्षणात्

6.53-2.18

ईश्वरार्पितसर्वार्थ ईश्वरात्मा निरामयः ।
ईश्वरः सर्वभूतात्मा भव भूषितभूतलः

6.53-2.19

संन्यस्तसर्वसंकल्पः समः शान्तमना मुनिः ।
संन्यासयोगयुक्तात्मा कुर्वन्मुक्तमतिर्भव

6.53-2.20

अर्जुन उवाच ।
सङ्गत्यागस्य भगवंस्तथा ब्रह्मार्पणस्य च ।
ईश्वरार्पणरूपस्य संन्यासस्य च सर्वशः

6.53-2.21

तथा ज्ञानस्य योगस्य विभागः कीदृशः प्रभो ।
क्रमेण कथयैतन्मे महामोहनिवृत्तये

6.53-2.22

श्रीभगवानुवाच ।
सर्वसंकल्पसंशान्तौ प्रशान्तघनवासनम् ।
न किंचिद्भावनाकारं यत्तद्ब्रह्म परं विदुः

6.53-2.23

तदुद्योगं विदुर्ज्ञानं योगं च कृतबुद्धयः ।
ब्रह्म सर्वं जगदहं चेति ब्रह्मार्पणं विदुः

6.53-2.24

अन्तःशून्यं बहिःशून्यं पाषाणहृदयोपमम् ।
शान्तमाकाशकोशाच्छं न दृश्यं न दृशः परम्

6.53-2.25

तत ईषद्यदुत्थानमीषदन्यतयोदितम् ।
स जगत्प्रतिभासोऽयमाकाशमिव शून्यता

6.53-2.26

भावोऽहमिति कोऽप्येष प्रत्येकमुदितश्चितेः ।
कोटिकोट्यंशकलितः क इवैनं प्रति ग्रहः

6.53-2.27

अपृथग्भूत एवैष पृथग्भूत इव स्थितः ।
पृथक्त्वं हि न पर्यन्तो नाहमित्यवगच्छति

6.53-2.28

यथेहाहं तथेहास्ति घटादीहापि मर्कटः ।
स्वमीहैवं तथाम्भोधिः किमहंतां प्रति ग्रहः

6.53-2.29

विकल्पभेदे स्फुरिते संवित्सारमयात्मनि ।
वैचित्र्येण विचित्रेपि किमेकत्वेऽपि नो ग्रहः

6.53-2.30

इति ज्ञातविभागस्य बुद्धौ तस्य परिक्षयः ।
कर्मणां यः फलत्यागस्तं संन्यासं विदुर्बुधाः

6.53-2.31

त्यागः संकल्पजालानामसंसङ्गः स कथ्यते ।
समस्तकलनाजालस्येश्वरत्वैकभावना

6.53-2.32

गलितद्वैतनिर्भासमेतदेवेश्वरार्पणम् ।
अबोधवशतो भेदो नाम्नैवैषां चिदात्मनि

6.53-2.33

बोधात्मा किल शब्दार्थो जगदेकं न संशयः ।
अहमाशा जगदहं स्वमहं कर्म चाप्यहम्

6.53-2.34

कालोऽहमहमद्वैतं द्वैतं चाहमहं जगत् ।
मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः

6.53-2.35

अर्जुन उवाच ।
द्वे रूपे तव देवेश परं चापरमेव च ।
कीदृशं तत्कदा रूपं तिष्ठाम्याश्रित्य सिद्धये

6.53-2.36

श्रीभगवानुवाच ।
सामान्यं परमं चैव द्वे रूपे विद्धि मेऽनघ ।
पाण्यादियुक्तं सामान्यं शङ्खचक्रगदाधरम्

6.53-2.37

परं रूपमनाद्यन्तं यन्ममैकमनामयम् ।
ब्रह्मात्मपरमात्मादिशब्देनैतदुदीर्यते

6.53-2.38

यावदप्रतिबुद्धस्त्वमनात्मज्ञतया स्थितः ।
तावच्चतुर्भुजाकारदेवपूजापरो भव

6.53-2.39

तत्क्रमात्संप्रबुद्धस्त्वं ततो ज्ञास्यसि तत्परम् ।
मम रूपमनाद्यन्तं येन भूयो न जायते

6.53-2.40

यदि वा वेद्यविज्ञातो भावस्तदरिमर्दन ।
तन्ममात्मानमात्मानमात्मनश्चाशु संश्रय

6.53-2.41

इदं चाहमिदं चाहमिति यत्प्रवदाम्यहम् ।
तदेतदात्मतत्त्वं तु तुभ्यं ह्युपदिशाम्यहम्

6.53-2.42

मन्ये साधुविबुद्धोसि पदे विश्रान्तवानसि ।
संकल्पैरवमुक्तोऽसि सत्यैकात्ममयो भव

6.53-2.43

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
पश्य त्वं योगयुक्तात्मा सर्वत्र समदर्शनः

6.53-2.44

सर्वभूतस्थमात्मानं भजत्येकत्वमात्मनः ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते

6.53-2.4

एकत्वं सर्वशब्दार्थ एकशब्दार्थ आत्मनः ।
आत्मापि च न सन्नासद्गतो यस्याशु तस्य तत्

6.53-2.46

त्रैलोक्यचेतसामन्तरालोको यः प्रकाशकः ।
अनुभूतिमुपारूढः सोऽहमात्मेति निश्चयः

6.53-2.47

त्रैलोक्यपयसामन्तर्यो रसानुभवः स्थितः ।
गव्यानामब्धिजानां च सोऽयमात्मेति भारत

6.53-2.48

अन्तः सर्वशरीराणां यः सूक्ष्मोनुभवः स्थितः ।
मुक्तोऽनुभवनीयेन सोऽयमात्मास्ति सर्वगः

6.53-2.49

समग्रपयसामन्तर्यथा घृतमिव स्थितम् ।
तथा सर्वपदार्थानां देहानां संस्थितः परः

6.53-2.50

सर्वाम्भोनिधिरत्नानां सबाह्याभ्यन्तरे यथा ।
तेजस्तथास्मि देहानामसंस्थित इव स्थितः

6.53-2.51

यथा कुम्भसहस्राणां सबाह्याभ्यन्तरे नभः ।
जगत्त्रयशरीराणां तथात्माहमवस्थितः

6.53-2.52

मुक्ताफलशतौघानां तन्तुः प्रोतवपुर्यथा ।
तथायं देहलक्षाणां स्थित आत्मास्त्यलक्षितः

6.53-2.53

ब्रह्मादौ तृणपर्यन्ते पदार्थनिकुरम्बके ।
सत्तासामान्यमेतद्यत्तमात्मानमजं विदुः

6.53-2.54

तदीषत्स्फुरिताकारं ब्रह्म ब्रह्मैव तिष्ठति ।
अहन्तादि जगत्तादि क्रमेण भ्रमकारिणा

6.53-2.55

आत्मैवेदं जगद्रूपं हन्यते हन्ति वात्र किम् ।
शुभाशुभैर्जगद्दुःखैः किमस्यार्जुन लिप्यते

6.53-2.56

प्रतिबिम्बेष्विवादर्शसमं साक्षिवदास्थितम् ।
नश्यत्सु न विनश्यन्तं यः पश्यति स पश्यति

6.53-2.57

इदं चाहमिदं नेति इतीदं कथ्यते मया ।
एवमात्मास्मि सर्वात्मा मामेवं विद्धि पाण्डव

6.53-2.58

इमाः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
आत्मन्यहंताचित्तस्थाः पयःस्पन्दा इवाम्बुधौ

6.53-2.59

यथोपलत्वं शैलानां दारुत्वं च महीरुहाम् ।
तरङ्गाणां जलत्वं च पदार्थानां तथात्मता

6.53-2.60

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
यः पश्यति तथात्मानमकर्तारं स पश्यति

6.53-2.61

नानाकारविकारेषु तरङ्गेषु यथा पयः ।
कटकादिषु वा हेम भूतेष्वात्मा तथाऽर्जुन

6.53-2.62

नानातरङ्गवृन्दानि यथा लोलानि वारिणि ।
कटकादीनि वा हेम्नि भूतान्येवं परात्मनि

6.53-2.63

पदार्थजातं भूतानि बृहद्ब्रह्म च भारत ।
एकमेवाखिलं विद्धि पृथक्त्वं न मनागपि

6.53-2.64

किं तद्भावविकाराणां गम्यमस्ति जगत्त्रये ।
क्व ते वापि जगत्किं वा किं मुधा परिमुह्यसि

6.53-2.65

इति श्रुत्वाऽभयं त्वन्तर्भावयित्वा सुनिश्चितम् ।
जीवन्मुक्ताश्चरन्तीह सन्तः समरसाशयाः

6.53-2.66

निर्मानमोहा जितसङ्गदोषा
अध्यात्मनित्या विनिवृत्तकामाः ।
द्वन्द्वैर्विमुक्ताः सुखदुःखसज्ञै-
र्गच्छन्त्यमूढाः पदमव्ययं तत्

6.53-2.53

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मो० निर्वाणप्रकरणे पू० अर्जुनोपाख्याने अर्जुनोपदेशो नाम त्रिपञ्चाशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc