भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.43-2

6.43-2.43

त्रिचत्वारिंशः सर्गः

6.43-2.1

श्रीवसिष्ठ उवाच ।
एतदुक्तं परं तेन स्वयमेव च वेद्म्यहम् ।
राम त्वमपि जानीषे यथेदं समवस्थितम्

6.43-2.2

यत्रालीकमलीकेन किलालीके विलोक्यते ।
तस्यां संसारमायायां किं सत्यं किमसन्मयम्

6.43-2.3

यथा येन विकल्पेन यद्विकल्पेन कथ्यते ।
तथा तेनात्मकल्पेन नगताऽप्यनुभूयते

6.43-2.4

यथा द्रवत्वं पयसि यथा स्पन्दो नभस्वति ।
यथा नभसि शून्यत्वं तथा सर्गत्वमात्मनि

6.43-2.5

ततः प्रभृति तेनैव क्रमेणार्चनमात्मनः ।
अद्य यावद्गतव्यग्रः कुर्वन्नहमवस्थितः

6.43-2.6

अनेनार्चाविधानेन मयेमे राम वासराः ।
अखिन्नेनातिवाह्यन्ते व्यवहारपरा अपि

6.43-2.7

यथाप्राप्तैः क्रियाचारकुसुमैरात्मनोऽर्चनम् ।
व्युच्छिन्नमपि व्युच्छिन्नं न कदाचिदहर्निशम्

6.43-2.8

ग्राह्यग्राहकसंबन्धे सामान्ये सर्वदेहिनाम् ।
योगिनः सावधानत्वं यत्तदर्चनमात्मनः

6.43-2.9

दृष्ट्यानया रघुपते सङ्गमुक्तेन चेतसा ।
संसारविरलारण्ये विहरास्मिन्न खिद्यसे

6.43-2.10

दुःखे महति संप्राप्ते धनबन्धुवियोगजे ।
एतां दृष्टिमवष्टभ्य विचारं कुरु सुव्रत

6.43-2.11

सुखदुःखे न कर्तव्ये धनबन्धूदयक्षये ।
एवंप्राया एव सर्वा नित्यं संसारदृष्टयः

6.43-2.12

जानास्येव गतिं चित्रां विषयाणां प्रमाथिनीम् ।
यथायान्ति यथा यान्ति यथा परिभवन्ति च

6.43-2.13

एवमेव प्रवर्तन्ते प्रेमाणि च धनानि च ।
एवमेवावहीयन्ते निमित्तैरविचारितैः

6.43-2.14

न तास्तव न तासां त्वं निर्मलान्तर्जगत्क्रियाः ।
इदमित्थं जगत्किंचित्किं मुधा परितप्यसे

6.43-2.15

त्वमिहासि जगद्रूपं चिन्मात्रवितताकृते ।
निजावयवकावृत्तौ कः क्रमो हर्षशोकयोः

6.43-2.16

तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् ।
अतस्तव कथं कुत्र हेयोपादेयकल्पना

6.43-2.17

इति चिच्चक्रचाञ्चल्ये चिन्मये जगदम्बुधौ ।
तरङ्गजाले चाम्भोधौ कः क्रमो हर्षशोकयोः

6.43-2.18

चिदेकतानतामेत्य सौषुप्तीमागतः स्थितिम् ।
अद्यप्रभृति राम त्वं तुर्यावस्थात्मको भव

6.43-2.19

समः समसमाभासो भास्वद्वपुरुदारधीः ।
तिष्ठात्मार्चारतो नित्यं परिपूर्णं इवार्णवः

6.43-2.21

एतत्त्वं श्रुतवान्सर्वं स्थितस्त्वं परिपूर्णधीः ।
यदिच्छसीतरत्प्रष्टुं तत्पृच्छ रघुनन्दन ॥
यत्पृष्टं प्रथमे कल्पे तदद्य परिचोदय ।
श्रीराम उवाच ।
इदानीं संशयो ब्रह्मन्विनिवृत्तो विशेषतः

6.43-2.22

ज्ञातं ज्ञातव्यमखिलं जाता तृप्तिरकृत्रिमा ।
न मुनेऽस्ति मलं द्वित्वं न चेत्यं न च कल्पनम्

6.43-2.23

तदा ममाभूदज्ञानं प्रशान्तमधुना तु तत् ।
कलङ्क आत्मनोऽस्तीति तदज्ञानवशेन या

6.43-2.24

भ्रान्तिरासीदिदानीं सा निवृत्ता त्वत्प्रसादतः ।
न जायते न म्रियते न चैवात्मा कलङ्कितः

6.43-2.25

सर्वं च खल्विदं ब्रह्ममयमित्युदितोऽस्म्यलम् ।
प्रश्नेभ्यः संशयेभ्यश्च वाञ्छितेभ्यश्च सर्वतः

6.43-2.26

शुद्धं मे निर्मलं चेतस्त्वष्ट्रा यन्त्रभ्रमादिव ।
सर्वाचारोपदेशेषु प्राप्तप्रोक्तेषु साधुभिः

6.43-2.27

निराकाङ्क्षी स्थितोऽस्म्यन्तः सुमेरुः कनकेष्विव ।
न तदस्त्यस्ति यत्राशा न तदस्ति यदीप्सितम्

6.43-2.28

न तदस्ति यदादेयं हेयं मध्यं चराचरे ।
इदं हेयमुपादेयमिदं सदिदमप्यसत्

6.43-2.29

इति चिन्ताभ्रमः शान्तो निपुणं परमो मुने ।
न स्वर्गमभिवाञ्छामि द्वेष्मि वापि न रौरवम्

6.43-2.30

आत्मन्येव हि तिष्ठामि मन्दराद्रिरिवाभ्रमः ।
कणशः कीर्णत्रिजगत्क्षीरसागरसंसृतिः

6.43-2.31

विश्रान्तश्चिरसंभ्रान्तो निर्भ्रमो राम मन्दरः ।
अवस्त्विदमिदं वस्तु पश्येति कलनास्त्यलम्

6.43-2.32

हृदि तस्य कुसंदेहजालेन ज्वलिताधिकम् ।
इदमित्थं जगदिति ज्ञातं येन मुनीश्वर

6.43-2.33

स यत्र याति कार्पण्यं जगतस्तन्न लभ्यते ।
विचित्राकुलकल्लोलाज्जडाद्वृत्तिविवर्जितात्

6.43-2.34

त्वत्प्रसादेन भगवंस्तीर्णाः स्मो भवसागरात् ।
संपदामवधिर्ज्ञातो दृष्टः सीमान्त आपदाम्

6.43-2.35

सर्वसारेऽप्यदीनाः स्मः पूर्णाः स्मः परमेश्वर ।
ययावभेद्यामपरैर्दलिताशामतङ्गजम् ।
संसारसागरे सम्यग्वीरतामागतं मनः

6.43-2.36

परिगलितविकल्पतामुपेतं
प्रगलितवाञ्छमदीनसारसत्त्वम् ।
त्रिजगति यदतिप्रसन्नरूपं
प्रमुदितमन्तरनुत्तमं मनो मे

6.43-2.43

इत्यार्षे श्रीवा०रामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० विश्रान्तिवर्णनं नाम त्रिचत्वारिंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc