भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.4

6.4.4

चतुर्थः सर्गः

6.4.1

श्रीवसिष्ठ उवाच ।
साहंतादिजगच्छान्तौ बोधे संवित्कलात्मनि ।
संशान्तदीपसंकाशस्त्यागः सिद्ध्यति नान्यथा

6.4.2

न त्यागः कर्मसंत्यागो बोधस्त्याग इति स्मृतः ।
अजगत्प्रतिभैकात्मा योऽनहंतादिरव्ययः

6.4.3

अयं सोहमिदं तन्म इति निःस्नेहदीपवत् ।
शान्ते परमनिर्वाणे प्रबोधात्मेति शिष्यते

6.4.4

अयं सोहमिदं तन्मे शान्तमित्येव यस्य नो ।
न ज्ञानं तस्य नो शान्तिर्न त्यागो न च निर्वृतिः

6.4.5

ममेदमयमेवाहमित्येतावति यः क्षयः ।
बोधात्मा शिवमाशान्तं तस्मादन्यन्न विद्यते

6.4.6

अहमंशे विदा क्षीणे सर्वमेव क्षयं गतम् ।
न किंचिच्च क्वचित्क्षीणं निर्वाणैकघनं स्थितम्

6.4.7

अहविदनहंवित्त्वादेव शाम्यत्यविघ्नतः ।
एतावन्मात्रसाध्येयं किमिवेयं कदर्थना

6.4.8

अहंनाहमिति भ्रान्तिर्न च चित्त्वादृतेऽस्ति सा ।
चित्त्वं चाकाशविशदमतः क्वैषा भ्रमस्थितिः

6.4.9

न भ्रमो भ्रमणं नैव न भ्रान्तिर्भ्रामकोऽस्ति वा ।
अनालोकनमेवेदमालोकान्नेदमस्ति ते

6.4.10

विद्धि चिन्मात्रमेवेदमसद्रूपोपमं ततम् ।
तेनालं मौनमास्स्वैवं सर्वं निर्वाणमात्रकम्

6.4.11

येनैवाशु निमेषेण त्वहमित्येव चेतति ।
तेनैव नाहमित्येव चेतित्वाशु न शोच्यते

6.4.12

अहंभावं नभोर्थेन निर्वाच्यारूढबाणवत् ।
अजस्रमाशु वाऽक्षीणं तिष्ठावष्टब्धतत्पदः

6.4.13

सनभोर्थामहन्तां त्वं चेतन्नेवमनारतम् ।
सर्वभावैरनारूढो भव तीर्णभवार्णवः

6.4.14

स्वभावमात्रविजये स्वयं यस्य न वीरता ।
तस्योत्तमपदप्राप्तौ पशोर्ब्रूहि कथैव का

6.4.15

षड्वर्गो निर्जितः पूर्वं येनोत्तमविदा स्वतः ।
भाजनं स महार्थानां नेतरो नरगर्दभः

6.4.16

यस्य स्वान्तर्मनोवृत्तिर्जीयमाना जिताथवा ।
विषयः स विवेकानां स पुमानिति कथ्यते

6.4.17

अर्थो दृषदिवाम्भोधौ यो य आपतति त्वयि ।
तस्मादेव पलायस्व नाहमित्येव भावयन्

6.4.18

नाहमस्मीति बुद्ध्वापि सोपपत्तिकमप्यलम् ।
जानानो ज्ञप्तिमात्रं च किमज्ञ इव मुह्यसि

6.4.19

न ज्ञेयमर्थतोऽस्तीह हेम्नीव कटकादिता ।
भ्रान्तिमात्रादृते सा च शाम्यत्यस्मरणेन ते

6.4.20

यो यो भाव उदेत्यन्तस्त्वयि स्पन्द इवानिले ।
नाहमस्मीति चिद्वृत्त्या तमनाधारतां नय

6.4.21

लोभो लज्जा मदो मोहो येनादाविति नो जिताः ।
निरर्थकमनर्थेऽस्मिन्स किमर्थं प्रवर्तते

6.4.22

अहन्त्वं पवने स्पन्द इव यत्त्वयि संस्थितम् ।
परमात्मनि तन्नान्यदेतत्स्पन्द इवानिले

6.4.23

असर्गसंविदा सर्गः परेऽस्तोऽतिविराजते ।
संनिवेशविशेषेण दुरर्थोऽपि हि शोभते

6.4.24

परमात्मा तु नोदेति नास्तं याति कदाचन ।
न चास्मादन्यदस्तीति को भावोऽभाव एव वा

6.4.25

परं परे पूर्णं पूर्णे शान्तं शान्ते शिवं शिवे ।
इत्येवमात्रं विततं नाहं न च जगन्न धीः

6.4.26

अनिर्वाणे विनिर्वाणं शान्तं शान्ते शिवे शिवम् ।
निर्वाणमप्यनिर्वाणं सनभोर्थं न वापि तत्

6.4.27

शस्त्राघाताः प्रसह्यन्ते सह्यन्ते व्याधिवेदनाः ।
नाहमित्येवमात्रस्य सहने का कदर्थना

6.4.28

जगत्पदार्थसार्थानामहमित्यक्षयोऽङ्कुरः ।
तस्मिन्निर्मूलतां याते जगन्निर्मूलतां गतम्

6.4.29

बाष्पेणेवाहमर्थेन निःसारेणापि सारवत् ।
व्यामलः परमादर्शस्तच्छान्तौ संप्रसीदति

6.4.30

अहमर्थः परे वायौ स्पन्दस्तत्प्रशमे तु तत् ।
अनिर्देश्यमनाभासमनन्तमजमव्ययम्

6.4.31

अहमर्थः पुरो द्रव्यप्रतिबिम्बप्रदश्चिति ।
तच्छान्तौ सा निराभासमनन्तमजमव्ययम्

6.4.32

अहमर्थाम्बुदे क्षीणे परमार्थशरन्नभः ।
परयानन्तया लक्ष्म्या स्वच्छयाच्छं विराजते

6.4.33

अहमर्थमलोन्मुक्तमव्यक्तं ताम्रमङ्ग चेत् ।
तत्परं परमाभासं संपन्नं हेम कान्तिमत्

6.4.34

यथा निरभिधार्थश्रीर्भजत्यव्यपदेश्यताम् ।
तथानहन्ताहन्तेयं ब्रह्मत्वमधिगच्छति

6.4.35

अस्त्यहन्त्वे स्थितं ब्रह्म सनामेव पदार्थवत् ।
शान्तवत्सदिवाभासं तद्वत्स व्यपदेशवान्

6.4.36

अहमर्थो जगद्बीजं यदि दग्धमभावनात् ।
तदहन्त्वं जगद्बन्ध इत्यादेः कलनैव का

6.4.37

सद्ब्रह्म शिवमात्मेति परे नामकलङ्किता ।
उदेत्यहन्ता कुम्भत्वादिव मृद्धातुविस्मृतिः

6.4.38

अहमर्थादियं बीजात्सत्ता बिम्बलतोत्थिता ।
यस्यां जगन्त्यनन्तानि फलान्यायान्ति यान्तिच

6.4.39

साद्र्यब्ध्युर्वीनदी सेयं रूपालोकैषणादिका ।
अहमर्थस्य मरिचबीजस्यान्तश्चमत्कृतिः

6.4.40

द्यौः क्षमा वायुराकाशं पर्वताः सरितो दिशः ।
इत्यामोदोऽहमर्थोग्रकुसुमस्य विकासिनः

6.4.41

अहमर्थः प्रविसृतः प्रकटीकुरुते जगत् ।
सद्रूपालोकमननं प्रवृत्त इव वासरः

6.4.42

प्रवृत्तेन दिनेनार्थः प्रकटीक्रियते यथा ।
असज्जगदहन्त्वेन क्षणान्निर्मीयते तथा

6.4.43

अहमित्यर्थदुस्तैललवो ब्रह्मणि वारिणि ।
प्रसृतो यत्तदाश्वेतत्त्रिजगच्चक्रकं स्थितम्

6.4.44

उन्मेषमात्रेणाहन्ता जगन्त्यनुभवत्यहो ।
न निमेषेण दृगिव सत्यानीत्यप्यसन्त्यलम्

6.4.45

अहमर्थे प्रविसृते संसारो ह्यनुभूयते ।
नान्तर्भूय परिक्षीणे लोचनस्येव तारके

6.4.46

अहमंशे निरंशत्वं नीते शाश्वतसंविदा ।
शाम्यतीयमशेषेण संसारमृगतृष्णिका

6.4.47

स्वसंविद्भावनामात्रसाध्येऽस्मिन्वरवस्तुनि ।
सिद्धमात्रात्मनि स्वैरं मा खेदं गच्छमा भ्रमीम्

6.4.48

स्वयत्नमात्रसंसाध्यादसहायादिसाधनात् ।
अनहंवेदनान्नान्यच्छ्रेयः पश्यामि तेऽनघ

6.4.49

विस्मृत्याहं त्वमास्स्व प्रविसृतविभवः
पूरिताशेषविश्वो
विष्वक्शैलान्तरिक्षक्षितिजलधिमरु-
न्मार्गरूपोऽमलात्मा ।
स्वस्थः शान्तो विशोकः करणमलकला-
वर्जितो निष्प्रपञ्चो
निःसंचारश्चरात्मा सकलमसकलं
चेति सिद्धान्तसारः

6.4.4

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे अहंतानिरासो नाम चतुर्थः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc