भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.39-2

6.39-2.39

एकोनचत्वारिंशः सर्गः

6.39-2.1

ईश्वर उवाच ।
पावनं पावनानां यद्यत्सर्वतमसां क्षयः ।
तदिदानीं प्रवक्ष्येऽहमन्तःपूजनमात्मनः

6.39-2.2

गच्छतस्तिष्ठतश्चैव जाग्रतः स्वपतोऽपि च ।
सर्वाचारगता पूजा नित्यं ध्यानात्मिका त्वियम्

6.39-2.3

नित्यमेव शरीरस्थमिमं ध्यायेत्परं शिवम् ।
सर्वप्रत्ययकर्तारं स्वयमात्मानमात्मना

6.39-2.4

शयानमुत्थितं चैव व्रजन्तमथवा स्थितम् ।
स्पृशन्तमभितः स्पृश्यं त्यजन्तमथवाऽभितः

6.39-2.5

भुञ्जानं संत्यजन्तं च भोगानाभोगपीवरान् ।
बाह्यार्थपरिकर्तारं सर्वकार्यस्वरूपदम्

6.39-2.6

देहलिङ्गेषु शान्तस्थं त्यक्तलिङ्गान्तरादिकम् ।
यथाप्राप्तार्थसंवित्त्या बोधलिङ्गं प्रपूजयेत्

6.39-2.7

प्रवाहपतितार्थस्थः स्वबोधस्नानशुद्धिमान् ।
नित्यावबोधार्हणया बोधलिङ्गं प्रपूजयेत्

6.39-2.8

आदित्यभावनाभोगभाविताम्बरभास्वरम् ।
शशाङ्कभावनाभोगभावितेन्दुतयोदितम्

6.39-2.9

प्रतिभासपदार्थौघनित्यावगतसंविदम् ।
द्वारैर्वहन्तं शारीरैर्मुखे प्राणस्वरूपिणम्

6.39-2.10

रसीकृत्य रसं प्राणस्वान्तोदात्ततुरङ्गमम् ।
प्राणापानरथारूढं गूढमन्तर्गुहाशयम्

6.39-2.11

ज्ञातारं ज्ञेयदृष्टीनां कर्तारं सर्वकर्मणाम् ।
भोक्तारं सर्वभोज्यानां स्मर्तारं सर्वसंविदाम्

6.39-2.12

सम्यक्संविदिताङ्गौघं भावाभावनभावितम् ।
आभासभास्वरं भूरि सर्वगं चिन्तयेच्छिवम्

6.39-2.13

निष्कलं सकलं चैव देहस्थं व्योमचारिणम् ।
अरञ्जितं रञ्जितं च नित्यमङ्गाङ्गसंविदम्

6.39-2.14

मनोमननशक्तिस्थं प्राणापानान्तरोदितम् ।
हृत्कण्ठतालुमध्यस्थं भ्रनासापुटपीठगम्

6.39-2.15

षट्त्रिंशत्पदकोटिस्थमुन्मन्यन्तदशातिगम् ।
कुर्वन्तमन्तःशब्दादींश्चोदयन्तं मनःखगम्

6.39-2.16

विकल्पिन्यविकल्पे च द्विविधे वाक्पथे स्थितम् ।
तिले तैलमिवाङ्गेषु सर्वेष्वेवान्तरं स्थितम्

6.39-2.17

कलाकलङ्करहितं कठिनं च कलागणैः ।
एकदेशे सुहृत्पद्मे सर्वदेहे च संस्थितम्

6.39-2.18

चिन्मात्रममलाभासं कलाकलनकल्पनम् ।
प्रत्यक्षदृश्यं सर्वत्र स्वानुभूतिमयात्मकम्

6.39-2.19

प्रत्यक्चेतनमात्मीयमर्थित्वेन पुनः स्थितम् ।
पदार्थानामुपेत्याशु क्षणाद्द्वित्वमिवागतम्

6.39-2.20

सहस्तपादावयवः सकेशनखदन्तकः ।
स्वदेहसंविदाभासो देवोऽयमिति भावयेत्

6.39-2.21

विचित्राः शक्तयो बह्व्यो नानाचारा मनोदशाम् ।
उपासते मामनिशं पत्न्यः कान्तमिवोत्तमम्

6.39-2.22

मनो मे द्वारपालोऽयं निवेदितजगत्त्रयः ।
चिन्तेयं मे प्रतीहारी द्वारस्था शुद्धरूपिणी

6.39-2.23

शक्तिर्ममात्मिका बुद्धिः क्रिया चैव वराङ्गना ।
ज्ञानानि च विचित्राणि भूषणान्यङ्गगानि मे

6.39-2.24

कर्मेन्द्रियाणि द्वाराणि बुद्धीन्द्रियगणैः सह ।
अयं सोऽहमनन्तात्मा व्यवच्छेदोज्झिताकृतिः

6.39-2.25

तिष्ठामि भरितैकात्मा पूर्णः सर्वावपूरकः ।
इति दैवीमुपाश्रित्य स्वच्छामात्मचमत्कृतिम्

6.39-2.26

दैवत्वपरिपूर्णोऽन्तरदीनात्मावतिष्ठते ।
नास्तमेति न चोदेति न तुष्यति न कुप्यति

6.39-2.27

न तृप्तिं न क्षुधं याति नाभिवाञ्छति नोज्झति ।
समः समसमाचारः समाभासः समाकृतिः

6.39-2.28

सौम्यतामलमायातः समन्तात्सुन्दराशयः ।
आदेहमेक एवासावव्युच्छिन्नमहामतिः

6.39-2.29

देवार्चनं करोत्येव दीर्घदीर्घमहर्निशम् ।
चित्तत्त्वचलितो देहो देवोऽस्य समुदाहृतः

6.39-2.30

यथाप्राप्तेन सर्वेण तमर्चयति वस्तुना ।
समया सर्वया बुद्ध्या चिन्मात्रं देवचित्परम्

6.39-2.31

यथाप्राप्तक्रमोत्थेन सर्वार्थेन समर्चयेत् ।
मनागपि न कर्तव्यो यत्नोऽत्रापूर्ववस्तुनि

6.39-2.32

प्राप्तदेहतया नित्यं तथार्थक्रिययाऽनया ।
कामसंसेवनेनाऽथ पूजयेच्छोभनं विभुम्

6.39-2.33

भक्ष्यभोज्यान्नपानेन नानाविभवशालिना ।
शयनासनयानेन यथाप्तेनार्चयेच्छिवम्

6.39-2.34

कान्तान्नपानसंभोगसंभारादिविलासिना ।
सुखेन सर्वरूपेण संबुद्ध्याऽऽत्मानमर्चयेत्

6.39-2.35

आधिव्याधिपरीतेन मोहसंरम्भशालिना ।
सर्वोपद्रवदुःखेन प्राप्तेनात्मानमर्चयेत्

6.39-2.36

समस्तैश्च समस्तानां चेष्टानां जगतः स्थितेः ।
मृतिजीवितस्वप्नाद्यैः प्राप्तैरात्मानमर्चयेत्

6.39-2.37

दारिद्र्येणाथ राज्येन प्रवाहपतितात्मना ।
विचित्रचेष्टापुष्पेण शुद्धात्मानं समर्चयेत्

6.39-2.38

नानाकलहकल्लोलललनोल्लासशालिना ।
रागद्वेषविलासेन सौम्यमात्मानमर्चयेत्

6.39-2.39

सतां हृदयगामिन्या रूढया शशिशीतया ।
मैत्र्या माधुर्यधर्मिण्या हृत्स्थमात्मानमर्चयेत्

6.39-2.40

उपेक्षया करुणया सदा मुदितया हृदि ।
शुद्धया शक्तिपद्धत्या बोधेनात्मानमर्चयेत्

6.39-2.41

आकस्मिकोपयातेन स्थितेनानियतेन च ।
भोगाभोगैकभोगेन प्राप्तेनात्मानमर्चयेत्

6.39-2.42

भोगानामनिषिद्धानां निषिद्धानां च सर्वदा ।
त्यागेन वातिरागेण स्वात्मानं शुद्धमर्चयेत्

6.39-2.43

ईहितानीहितौघेन युक्तायुक्तमयात्मना ।
त्यक्तेनात्तेन चार्थेन ह्यर्थानामीशमर्चयेत्

6.39-2.44

नष्टं नष्टमुपेक्षेत प्राप्तं प्राप्तमुपाहरेत् ।
निर्विकारतयैतद्धि परमार्चनमात्मनः

6.39-2.45

सर्वदैव समग्रासु चेष्टानिष्टासु दृष्टिषु ।
परमं साम्यमाधाय नित्यात्मार्चाव्रतं चरेत्

6.39-2.46

सर्वं विन्देत सुशुभं सर्वं विद्याऽच्छुभाशुभम् ।
सर्वमात्ममयं कुर्यान्नित्यात्मार्चाव्रतं चरेत्

6.39-2.47

आपातरमणीयं यद्यच्चापातसुदुःसहम् ।
तत्सर्वं सुसमं बुद्ध्वा नित्यात्मार्चाव्रतं चरेत्

6.39-2.48

अयं सोहमयं नाहं विभागमिति संत्यजेत् ।
सर्वं ब्रह्मेति निश्चित्य नित्यात्मार्चाव्रतं चरेत्

6.39-2.49

सर्वदा सर्वरूपेण सर्वाकारविकारिणा ।
सर्वं सर्वप्रकारेण प्राप्तेनात्मानमर्चयेत्

6.39-2.50

अनीहितं परित्यज्य परित्यज्य तथेहितम् ।
उभयाश्रयणेनापि नित्यमात्मानमर्चयेत्

6.39-2.51

न वाञ्छता न त्यजता दैवप्राप्ताः स्वभावतः ।
सरितः सागरेणेव भोक्तव्या भोगभूमयः

6.39-2.52

उद्वेगो नानुगन्तव्यस्तुच्छाऽतुच्छासु दृष्टिषु ।
व्योम्ना चित्रपदार्थेषु पतितो ह्याततेष्विव

6.39-2.53

देशकालक्रियायोगाद्यदुपैति शुभाशुभम् ।
अविकारं गृहीतेन तेनैवात्मानमर्चयेत्

6.39-2.54

आत्मार्चनविधानेऽस्मिन्प्रोक्ता द्रव्यश्रियस्तु याः ।
एकेनैव समेनैता रसेन परिभाविताः

6.39-2.55

नाम्लानकट्व्यो नो तिक्ता न कषायाश्च काश्चन ।
चित्रैरपि रसैर्दिग्धा मधुरा एव ताः किल

6.39-2.56

समता मधुरा रस्या रसशक्तिरतीन्द्रिया ।
तया यद्भावितं चेत्यममृतं तत्क्षणाद्भवेत्

6.39-2.57

समतामृतरूपेण यद्यन्नाम विभाव्यते ।
तत्तदायाति माधुर्यं परमिन्दोरिव च्युतम्

6.39-2.58

समताकाशवद्भूत्वा यत्तु स्याल्लीनमानसम् ।
अविकारमनायासं तदेवार्चनमुच्यते

6.39-2.59

पूर्णेन्दुनेव पूर्णेन भाव्यं समसमत्विषा ।
स्वच्छेन चिद्धनैकेन ज्ञेनाप्युपलरूपिणा

6.39-2.61

अन्तराकाशविशदो बहिःप्रकृतकार्यकृत् ।
रञ्जनामिहिकामुक्तः संपूर्णो ज्ञ उपासकः ॥
स्वप्नेऽप्यदृष्टहृल्लेखमज्ञानाभ्रपरिक्षये ।
शान्ताहंतादिमिहिकं ज्ञः शरद्व्योम राजते

6.39-2.62

सोमार्कमस्तमितमानसमातृमेयं
सद्यःप्रसूतशिशुवेदनवद्वितानम् ।
पश्यन्प्रशान्तमतिचेतनचित्तबीजं
जीवन्ननुत्तमपदस्थित एव तिष्ठ

6.39-2.63

देशकालकरणक्रमोदितैः
सर्ववस्तुसुखदुःखविभ्रमैः ।
नित्यमर्चय शरीरनायकं
तिष्ठ शान्तसकलेहया धिया

6.39-2.39

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० देवार्चनविधिर्नामैकोनचत्वारिंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc