भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.35

6.35.35

पञ्चत्रिंशः सर्गः

6.35.1

श्रीवसिष्ठ उवाच ।
देशाद्देशान्तरं दूरं प्राप्तायाः संविदः क्षणात् ।
यद्रूपममलं मध्ये परं तद्रूमात्मनः

6.35.2

गच्छन्श्रृण्वन्स्पृशञ्जिघ्रन्नुन्मिषन्निमिषन्हसन् ।
नूनं निरामयत्वाय नित्यमेतन्मयो भव

6.35.3

तत एव निराभासात्सत्यान्निर्वासनैषणात् ।
यथास्थितं यथाचारमचलाऽमरशैलवत्

6.35.4

एतद्रूपमविद्यायाः प्रेक्षिता यन्न लभ्यते ।
प्रेक्षिता लभ्यते चेत्सा तद्विद्यैव पराभवत्

6.35.5

अविद्यासंभवाच्चेत्यचित्त्वे संभवतः क्व किम् ।
चेत्यते कथमेवान्तः शान्तिरेव बलोदिता

6.35.6

सत्यं ब्रह्म जगच्चैकं स्थितमेकमनेकवत् ।
सर्वं वाऽसर्ववद्भाति शुद्धं चाशुद्धवत्ततम्

6.35.7

अशून्यं शून्यमिव च शून्यं वाऽशून्यवत्स्फुटम् ।
स्फारमस्फारमिव तदस्फारं स्फारसन्निभम्

6.35.8

अविकारं विकारीव समं शान्तमशान्तवत् ।
सदेवासदिवादृश्यं तदेवातदिवोदितम्

6.35.9

अविभागं विभागीव निर्जाड्यं जडवद्गतम् ।
अचेत्यं चेत्यभावीव निरंशं सांशशोभनम्

6.35.10

अनहं सोऽहमिव तदनाशमिव नाशवत् ।
अकलङ्कं कलङ्कीव निर्वेद्यं वेद्यवाहिवत्

6.35.11

आलोकि ध्वान्तघनवन्नववच्च पुरातनम् ।
परमाणोरपि तनु गर्भीकृतजगद्गणम्

6.35.12

सर्वात्मकमपि त्यक्तदृष्टं कष्टेन भूयसा ।
अजालमपि जालाढ्यं चाशेषवदनेकधा

6.35.13

निर्मायमपि मायांशुमण्डलामलभास्करम् ।
ब्रह्म विद्धि विदांनाथमपामिव महोदधिम्

6.35.14

जगद्रत्नमहाकोशं तुलायां तूलकाल्लघु ।
मायामरीचिशशिनमपि नेक्षणगोचरम्

6.35.15

अनन्तमपि निष्पारं न च क्वचिदपि स्थितम् ।
आकाशे वनविन्यासनगनिर्माणतत्परम्

6.35.16

अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ।
गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि

6.35.17

अकर्तृकर्मकरणमकारणमकारकम् ।
अन्तःशून्यतयैवैतच्चिराय परिपूरितम्

6.35.18

जगत्समुद्गकमपि नित्यं शून्यमरण्यवत् ।
अनन्तशैलकठिनमप्याकाशलवान्मृदु

6.35.19

प्रत्येकं प्रत्यहं प्रायः पुराणं पेलवं नवम् ।
आलोकमन्धकाराभं तमस्त्वालोकमाततम्

6.35.20

प्रत्यक्षमपि दुर्लक्ष्यं परोक्षमपि चाग्रगम् ।
चिद्रूपमेव च जडं जडमेव चिदात्मकम्

6.35.21

अहमेवानहंभावमनहं वाऽहमेव च ।
अन्यदेव तदेवाहमहमेवान्यदेव तत्

6.35.22

अस्य पूर्णार्णवस्यान्तरिमे त्रिभुवनोर्मयः ।
स्फुरन्त इव तिष्ठन्ति स्वभावद्रवतात्मकाः

6.35.23

बिभर्ति सर्वमङ्गस्थं तुषारमिव शुक्लताम् ।
भाति सर्वस्त्वनेनैव तुषारेणेव शुक्लता

6.35.24

अदेशकालावयवोऽप्येष देवो दिवानिशम् ।
असज्जगत्तनोतीव यथा वारितरङ्गकम्

6.35.25

एतस्मिन्विकसन्तीमा विपुलाकाशकानने ।
जगज्जरठमञ्जर्यः प्रसरत्पत्रपञ्चकाः

6.35.26

एष स्वप्रतिबिम्बस्य स्वयमालोकनेच्छया ।
अत्यन्तनिर्मलाकारः स्वयं मुकुरतां गतः

6.35.27

व्योमवृक्षफलस्यास्य स्वेच्छावयव उज्ज्वला ।
सर्गोपलम्भ उद्यच्च चमत्कुर्वन्ति संविदि

6.35.28

अन्तस्थेन बहिष्ठेन नानानानातयात्मनि ।
एष सोऽन्तर्बहिर्भाति भावाभावविभावया

6.35.29

एतद्रूपा पदार्थश्रीरेतस्मिन्नेतदिच्छया ।
चमत्करोत्येतदर्थं जिह्वेव स्वास्यकोटरे

6.35.30

अस्याम्भसो द्रवत्वं यत्तदिदं जगदुच्यते ।
संवित्स्यादूपलम्भाङ्गं भुवनावर्तवृत्तिमत्

6.35.31

शाम्यत्यत्र पदार्थश्रीः सर्वासामेव भास्वति ।
एतस्मादेव चोदेति स्वालोक इव तेजसः

6.35.32

इदमेव जगत्सर्वं शुक्लत्वं तुहिने यथा ।
अत एताः प्रवर्तन्ते विद इन्दोरिवांशवः

6.35.33

एतस्माद्रङ्गतोऽनङ्गाज्जगच्चित्रमिदं स्थितम् ।
विद्ध्यभावविकारादिशान्तमेतन्मयं ततम्

6.35.34

अस्माद्वनतरोरेताः स्वरूढा गगनाङ्गणे ।
दृश्यशाखाः प्रवर्तन्ते जगज्जालगुलुच्छकाः

6.35.35

व्ययोदयवती नूनमत्र दृश्यतरङ्गिणी ।
नानातानन्तकुसुमा वहत्यविचलाचले

6.35.36

अस्मिन्व्योमात्मके रङ्गे भुवनाभिनयभ्रमैः ।
मृत्यत्यविरतारम्भं वारैर्नियतिनर्तकी

6.35.37

जगत्कोटिमहाकल्पकल्पोन्मेषनिमेषणः ।
विताने नाट्यते भूयो जन्यते कालबालकः

6.35.38

उद्यत्स्वपि जगत्स्वेष शान्तमेवावतिष्ठते ।
अनिच्छ एव मुकुरः प्रतिबिम्बशतेष्विव

6.35.39

भूतानां वर्तमानानां सर्गाणां संभविष्यताम् ।
एषोऽकारणकं बीजं सर्गाणामिव कारणम्

6.35.40

अस्योन्मेषो जगल्लक्ष्मीर्निमेषः प्रलयागमः ।
अनुन्मेषनिमेषोऽसावात्मन्येवावतिष्ठते

6.35.41

उद्यन्त्यमूनि सुबहूनि महामहान्ति
सर्गागमप्रलयजन्मदशा जगन्ति ।
सर्वाणि तान्ययमपारस्वरूप एव
प्रस्पन्दनानि मरुदेव यथास्व शान्तम्

6.35.35

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे उ० परब्रह्मस्वरूपवर्णनं नाम पञ्चत्रिंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc