भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.25-2

6.25-2.25

पञ्चविंशः सर्गः

6.25-2.1

श्रीवसिष्ठ उवाच ।
इत्थं स कथयन्पक्षी पृष्टस्तत्र पुनर्मया ।
कीदृशी प्राणवातस्य गतिरित्येव राघव

6.25-2.2

भुशुण्ड उवाच ।
जानन्नपि मुने सर्व किं मां पृच्छसि लीलया ।
यथापृष्टमहं वच्मि शृणु तत्रापि मद्वचः

6.25-2.3

प्राणोऽयमनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः ।
सबाह्याभ्यन्तरे देहे प्राणोऽयमुपरि स्थितः

6.25-2.4

अपानोऽप्यनिशं ब्रह्मन्स्पन्दशक्तिः सदागतिः ।
सबाह्याभ्यन्तरे देहे त्वपानोऽयमवाक्स्थितः

6.25-2.5

जाग्रतः स्वपतश्चैव प्राणायामोऽयमुत्तमः ।
प्रवर्तते यतस्तज्ज्ञ तत्तावच्छ्रेयसे शृणु

6.25-2.6

बाह्योन्मुखत्वं प्राणानां यद्धृदम्बुजकोटरात् ।
स्वरसेनास्तयत्नानां तं धीरा रेचकं विदुः

6.25-2.7

द्वादशाङ्गुलपर्यन्तं बाह्यमाक्रमतामधः ।
प्राणानामङ्गसंस्पर्शो यः स पूरक उच्यते

6.25-2.8

बाह्यात्परापतत्यन्तरपाने यत्नवर्जितः ।
योऽयं प्रपूरणः स्पर्शो विदुस्तमपि पूरकम्

6.25-2.9

अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि ।
तावत्सा कुम्भकावस्था योगिभिर्यानुभूयते

6.25-2.6.1.25.10

रेचकः कुम्भकश्चैव पूरकश्च त्रिधा स्थितः ।
अपानस्योदयस्थाने द्वादशान्तादधो बहिः

6.25-2.11

स्वभावाः सर्वकालस्थाः सम्यग्यत्नविवर्जिताः ।
ये प्रोक्ताः स्फारमतिभिस्ताञ्छृणु त्वं महामते

6.25-2.12

द्वादशाङ्गुलपर्यन्ताद्बाह्यादभ्युदितः प्रभो ।
यो वातस्तस्य तत्रैव स्वभावात्पूरकादयः

6.25-2.13

हृदन्तरस्थानिष्पन्नघटवद्या स्थितिर्बहिः ।
द्वादशाङ्गुलपर्यन्ते नासाग्रसमसंमुखे

6.25-2.14

व्योम्नि नित्यमपानस्य तं विदुः कुम्भकं बुधाः ।
बाह्योन्मुखस्य वायोर्या नासिकाग्रावधिर्गतिः

6.25-2.15

तं बाह्यपूरकं त्वाद्यं विदुर्योगविदो जनाः ।
नासाग्रादपि निर्गत्य द्वादशान्तावधिर्गतिः

6.25-2.16

या वायोस्तं विदुर्धीरा अपरं बाह्यपूरकम् ।
वहिरस्तंगते प्राणे यावन्नापान उद्गतः

6.25-2.17

तावत्पूर्णं समावस्थं बहिष्ठं कुम्भकं विदुः ।
यत्तदन्तर्मुखत्वं स्यादपानस्योदयं विना

6.25-2.18

तं बाह्यरेचकं विद्याच्चिन्त्यमानं विमुक्तिदम् ।
द्वादशान्ताद्यदुत्थाय रूपपीवरता परा

6.25-2.19

अपानस्य बहिष्ठं तमपरं पूरकं विदुः ।
बाह्यानाभ्थन्तरांश्चैतान्कुम्भकादीननारतम्

6.25-2.6.1.25.20

प्राणापानस्वभावांस्तमबुद्ध्वा भूयो न जायते ।
अष्टावेते महाबुद्धे रात्रिदिवमनुस्मृताः

6.25-2.21

स्वभावा देहवायूनां कथिता मुक्तिदा मया ।
गच्छतस्तिष्ठतो वापि जाग्रतः स्वपतोऽपि वा

6.25-2.22

एते निरोधमायान्ति प्रकृत्याऽतिचलानिलाः ।
यत्करोति यदश्नाति बुद्ध्यैवालमनुस्मरन्

6.25-2.23

कुम्भकादीन्नरः स्वान्तस्तत्र कर्ता न किंचन ।
अव्यग्रमस्मिन्व्यापारे बाह्यं परिजहन्मनः

6.25-2.24

दिनैः कतिपयैरेव पदमाप्नोति केवलम् ।
एतदभ्यसतः पुंसो बाह्ये विषयवृत्तिषु

6.25-2.25

न बघ्नाति रतिं चेतः श्वदृतौ ब्राह्मणो यथा ।
एतां दृष्टिमवष्टभ्य ये स्थिताः कृतबुद्धयः

6.25-2.26

प्राप्तप्राप्तव्यमखिलं तैरखिन्नास्त एव हि ।
तिष्ठता गच्छता नित्यं स्वपता जाग्रता तथा

6.25-2.27

एषा चेत्प्रेक्ष्यते दृष्टिस्तन्न बन्धनमाप्यते ।
प्राणापानानुसरणप्राप्तबोधवतामलम्

6.25-2.28

संशान्तमलमोहेन स्वस्थेनान्तरिहोष्यते ।
सर्वारम्भान्सदा स्वच्छः कुर्वन्वापि बुधो जनः

6.25-2.29

प्राणापानगतिं प्राप्य सुस्वस्थः सुखमेधते ।
प्राणस्याभ्युदयो ब्रह्मन्पद्मपत्राद्धृदि स्थितात्

6.25-2.6.1.25.30

द्वादशाङ्गुलपर्यन्ते प्राणोऽस्तं यात्ययं बहिः ।
अपानस्योदयो बाह्याद्द्वादशान्तान्महामुने

6.25-2.31

अस्तंगतिरथाम्भोजमध्ये हृदयसंस्थिते ।
प्राणो यत्र समायाति द्वादशान्ते नभःपदे

6.25-2.32

पदात्तस्मादपानोऽयं खादेति समनन्तरम् ।
बाह्याकाशोन्मुखः प्राणो वहत्यग्निशिखा यथा

6.25-2.33

हृदाकाशोन्मुखोऽपानो निम्ने वहति वारिवत् ।
अपानश्चन्द्रमा देहमाप्याययति बाह्यतः

6.25-2.34

प्राणः सूर्योऽग्निरथवा पचत्यन्तरिदं वपुः ।
प्राणो हि हृदयाकाशं तापयित्वा प्रतिक्षणम्

6.25-2.35

मुखाग्रगगनं पश्चात्तापयत्युत्तमो रविः ।
अपानेन्दुर्मुखाग्रं तु प्लावयित्वा हृदम्बरम्

6.25-2.36

पश्चादाप्याययत्येष निमेषसमनन्तरम् ।
अपानशशिनोऽन्तस्था कला प्राणविवस्वता

6.25-2.37

यत्र ग्रस्ता तदासाद्य पदं भूयो न शोच्यते ।
प्राणार्कस्य तथान्तस्था यत्रापानसितांशुना

6.25-2.38

ग्रस्ता तत्पदमासाद्य न भूयो जन्मभाङ्नरः ।
प्राण एवार्कतां याति सबाह्याभ्यन्तरेऽम्बरे

6.25-2.39

आप्यायनकरीं पश्चाच्छशितामधितिष्ठति ।
प्राण एवेन्दुतां त्यक्त्वा शरीराप्यायकारिणीम्

6.25-2.6.1.25.40

क्षणादायाति सूर्यत्वं संशोषणकरं पदम् ।
अर्कतां संपरित्यज्य न यावच्चन्द्रतां गतः

6.25-2.41

प्राणस्तावद्विचार्यन्तेऽदेशकाले न शोच्यते ।
हृदि चन्द्रार्कयोर्ज्ञात्वा नित्यमस्तमयोदयम्

6.25-2.42

आन्मनो निजमाधारं न भूयो जायते मनः ।
सोदयास्तमयं सेन्दुं सरश्मिं सगमागमम्

6.25-2.43

हृदये भास्करं देवं यः पश्यति स पश्यति ।
न क्षीणं नापरिक्षीणं बहिष्ठं सिद्धये तमः

6.25-2.44

हार्दं तु क्षपयेद्ध्वान्तं यत्क्षये सिद्धिरुत्तमा ।
बाह्ये तमसि संक्षीणो लोकालोकः प्रजायते

6.25-2.45

हार्दे तु तमसि क्षीणे स्वालोको जायते मुने ।
हार्दान्धकारक्षयदं परिज्ञातं विमुक्तिदम्

6.25-2.46

सोदयास्तमयं यत्नात्प्राणार्कमवलोकयेत् ।
अपानेन्दुः प्रयात्यस्तं यत्र हृत्पद्मकोटरे

6.25-2.47

पदात्तस्मादुदेत्यन्तः प्राणार्को बहिरुन्मुखः ।
अपानेऽस्तंगते प्राणः समुदेति हृदम्बुजात्

6.25-2.48

छायायां गलिताङ्गायां तत्रैवाशु यथातपः ।
प्राणे त्वस्तंगते बाह्यादपानः प्रोदितः क्षणात्

6.25-2.49

आतपे परितो नष्टे छायेवानुपदं तथा ।
प्राणजन्मावनौ नष्टमपानं विद्धि सन्मते

6.25-2.6.1.25.50

अपानजन्मभूमौ च प्राणं नष्टमवेहि हि ।
अस्तंगतवति प्राणे त्वपानेऽभ्युदयोन्मुखे

6.25-2.51

बहिः कुम्भकमालम्ब्य चिरं भूयो न शोच्यते ।
अपानेऽस्तंगते प्राणे किंचिदभ्युदयोन्मुखे

6.25-2.52

अन्तःकुम्भकमालम्ब्य चिरं भूयो न शोच्यते ।
प्राणरेचकमालम्ब्य अपानाद्दूरकोटिगम्

6.25-2.53

स्वच्छं कुम्भकमभ्यस्य न भूयः परितप्यते ।
अपाने रेचकाधारं प्राणपूरान्तरास्थितम्

6.25-2.54

स्वसंस्थं पूरकं दृष्ट्वा न भूयो जायते नरः ।
प्राणापानावुभावन्तर्यत्रैतौ विलयं गतौ

6.25-2.55

तदालम्ब्य पदं शान्तमात्मानं नानुतप्यते ।
प्राणभक्षोन्मुखेऽपाने देशं कालं च निष्कलम्

6.25-2.56

विचार्य बहिरन्तर्वा न भूयः परिशोच्यते ।
अपानभक्षणपरे प्राणे हृदि तथा बहिः

6.25-2.57

देशं कालं च संप्रेक्ष्य न भूयो जायते मनः ।
यत्र प्राणो ह्यपानेन प्राणेनापान एव च

6.25-2.58

निगीर्णौ बहिरन्तश्च देशकालौ च पश्य तौ ।
क्षणमस्तंगतप्राणमपानोदयवर्जितम्

6.25-2.59

अयत्नसिद्धबाह्यस्थं कुम्भकं तत्पदं विदुः ।
अयत्नसिद्धो ह्यन्तस्थकुम्भकः परमं पदम्

6.25-2.6.1.25.60

एतत्तदात्मनो रूपं शुद्धैषा परमैव चित् ।
एतत्तत्तत्सदाभासमेतत्प्राप्य न शोच्यते

6.25-2.61

पुष्पस्यान्तरिवामोदः प्राणस्यान्तरवस्थितम् ।
न स प्राणं न वाऽपानं चिदात्मानमुपास्महे

6.25-2.62

जलस्यान्तरिवास्वादमपानस्यान्तरस्थितम् ।
न सप्राणं न वाऽप्राणं चिदात्मानमुपास्महे

6.25-2.63

प्राणक्षयस्योपान्तस्थमपानक्षयकोटिगम् ।
अपानप्राणयोर्मध्यं चिदात्मानमुपास्महे

6.25-2.64

प्राणस्य प्राणनं प्रोच्चैः परं जीवस्य जीवनम् ।
देहस्य धारणं धुर्यं चिदात्मानमुपास्महे

6.25-2.65

मनसो मननं सत्यं बुद्धेरेकावबोधनम् ।
अहंकृतेरहंकारं चिदात्मानमुपास्महे

6.25-2.66

यस्मिन्सर्व यतः सर्वं यत्सर्वं सर्वतश्च यत् ।
यच्च सर्वमयं नित्यं तच्चित्तत्त्वमुपास्महे

6.25-2.67

आलोकालोकनं पुण्यं सर्वपावनपावनम् ।
न च भावनमन्नूनं तच्चित्तत्त्वमुपास्महे

6.25-2.68

[ अपानोऽस्तं गतो यत्र प्राणो नाभ्युदितः क्षणम् ।
कलाकलङ्करहितं तच्चित्तत्त्वमुपास्महे ॥]
नापानोऽभ्युदितो यत्र प्राणश्चान्तमुपागतः ।
नासाग्रगगनावर्तं तच्चित्तत्त्वमुपास्महे

6.25-2.69

यत्र प्राणोऽस्तमायाति यत्रापानोऽस्तमेति च ।
यत्र द्वावप्यनुत्पन्नौ तच्चित्तत्त्वमुपास्महे

6.25-2.6.1.25.70

प्राणापानोद्भवस्थाने बाह्याभ्यन्तरमास्थिते ।
ये द्वे योगिपदाधारस्तच्चित्तत्त्वमुपास्महे

6.25-2.71

प्राणापानरथारूढं प्राणापानमनाततम् ।
यच्छक्तिरूपं शक्तीनां तच्चित्तत्त्वमुपास्महे

6.25-2.72

हृत्प्राणकुम्भकं देवं बहिश्चापानकुम्भकम् ।
पूरकांशविसृष्टं यत्तच्चित्तत्त्वमुपास्महे

6.25-2.73

प्राणापानपरामर्शं सत्ताबोधं विरूपकम् ।
यत्प्राप्यं प्राणमननात्तच्चित्तत्त्वमुपास्महे

6.25-2.74

यत्प्राणपवनस्पन्दो यत्स्पन्दानन्दकारकम् ।
कारणं कारणानां यत्तच्चित्तत्त्वमुपास्महे

6.25-2.75

यदखिलकलनाकलङ्कहीनं
परिवलितं च सदा कलागणेन ।
स्वनुभवविभवं पदं तदग्र्यं
सकलसुरप्रणतं परं प्रपद्ये

6.25-2.25

इत्यार्षे श्रीवा०रामायणे वाल्मी० दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० भुशुण्डोपाख्याने समाधिवर्णनं नाम पञ्चविंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc