भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.24

6.24.24

चतुर्विंशः सर्गः

6.24.1

श्रीवसिष्ठ उवाच ।
ममेत्युक्तवतो मङ्किर्विनिपत्य स पादयोः ।
उवाचानन्दपूर्णाक्षमिदं मार्गे वहन्वचः

6.24.2

मङ्किरुवाच ।
भगवन्भूरिशो भ्रान्ता दिशो दश दृशो यथा ।
मया न तु पुनः साधुर्लब्धः संशयनाशकृत्

6.24.3

समस्तदेहसाराणां सारस्याद्य फलं मया ।
खिन्नोस्मि भगवन्पश्यन्दशाः संसारदोषदाः

6.24.4

पुनर्जातं पुनर्नष्टं सुखदुःखभ्रमः सदा ।
अवश्यंभाविपर्यन्तदुःखत्वात्सकलान्यपि

6.24.5

सुखान्येवातिदुःखानि वरं दुःखान्यतो मुने ।
दृढदुःखवदन्तत्वाद्दुःखयन्ति सुखानि माम्

6.24.6

तथा राम यथा दुःखमेव मे सुखतां गतम् ।
वयोदशनलोमान्त्रैः सह जर्जरतां गतम्

6.24.7

उच्चैःपदे पातपरा बुद्धिर्नाध्यवसायिनी ।
सुप्रवालं कुसंकल्पाद्गहनं न प्रकाशते

6.24.8

मनः पिप्पलपल्यूलैरिव कुग्रामकोटरम् ।
वासनाङ्गवहैर्गृध्रैर्नित्यं पापीयसी स्थितिः

6.24.9

कण्टकद्रुमवल्लीव करालकुटिला मतिः ।
आयुरायासशालिन्या यामिन्येव तमोन्धया

6.24.10

अक्षीवानागतालोकं क्षीणं संततचिन्तया ।
न किंचिद्रसमादत्ते नष्टैवापि न नश्यति

6.24.10

न पुष्पिता न फलिता तृष्णा शुष्कलतेव नः ।
कर्म कर्मणि निर्मग्नं वासनाख्यमकर्मणे

6.24.12

जीवितं च जने जीर्णं नैवोत्तीर्णो भवार्णवः ।
दिनानुदिनमुच्छूना भोगाशा भयदायिनी

6.24.13

पूर्णापूर्णात्मनि क्षीणाः श्वभ्रकण्टकवृक्षवत् ।
चिन्ताज्वरविकारिण्यो लक्ष्म्याः खलु महापदः

6.24.14

संपन्नमक्षतं सापि विप्रलम्भेन जृम्भते ।
अन्तः स्फुरितरत्नेहं भास्वरं वान्धकोटरम्

6.24.15

कल्लोलकलिलं शून्यं चेतः शुष्काब्धिदुर्भगम् ।
मामिन्द्रियार्थैकपरं न स्पृशन्ति विवेकिनः

6.24.16

सकण्टकममेध्यस्थं श्लेष्मातकमिव द्रुमम् ।
असदेव महारम्भं चलदर्जुनवातवत्

6.24.17

मनो मरणमप्राप्तं शून्यं दुःखाय वल्गति ।
शास्त्रसज्जनसंपर्कचन्द्रतारकधारिणी

6.24.18

अहंभावोल्लसद्यक्षा क्षीणा नाज्ञानयामिनी ।
अज्ञानध्वान्तमत्तेभसिंहः कर्मतृणानलः

6.24.19

उदितो न विकारार्को वासनारजनीक्षयः ।
अवस्तु वस्तुवद्बुद्धं मत्तश्चित्तमतंगजः

6.24.20

इन्द्रियाणि निकृन्तन्ति न जाने किं भविष्यति ।
शास्त्रदृष्टिरपि प्राज्ञैर्नाश्रिता तरणाय या

6.24.21

साप्यदृष्टिरिवान्ध्याय वासनावेशकारिणी ।
तदेवमतिसंमोहे यत्कार्यमिह दारुणे ।
उदर्कश्रेयसे तात तन्मे कथय पृच्छते

6.24.22

शाम्यन्ति मोहमिहिकाः शरदीव साधौ
प्राप्ते भवन्ति विमलाश्च तथाखिलाशाः ।
सत्येति वाग्भवतु साधुजनोपगीता
मद्बोधनेन भवता भवशान्तिदेन

6.24.24

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे मङ्क्यु० मङ्किवैराग्यं नाम चतुर्विंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc