भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.167

6.167.167

सप्तषष्ट्यधिकशततमः सर्गः

6.167.1

श्रीवसिष्ठ उवाच ।
आत्मख्यातिरसत्ख्यातिः ख्यातिरख्यातिरन्यथा ।
शब्दार्थदृष्टयस्तज्ज्ञं प्रत्येताः शशश्रृङ्गवत्

6.167.2

कदाचनापि नामाङ्ग संभवन्ति न काश्चन ।
शान्तमव्यपदेश्यात्मा ज्ञ आस्तेऽस्तङ्गतेङ्गनः

6.167.3

एता उद्यन्ति चिन्मात्रादात्मख्यात्यादिका दृशः ।
तच्च शुद्धतरं व्योम तन्मय्येव च दृश्यते

6.167.4

अयमात्मा त्वियं ख्यातिरित्यन्तःकलनाभ्रमः ।
न संभवत्यतश्चैनं शब्दं त्यक्त्वा भवार्थभाक्

6.167.5

गच्छंस्तिष्ठन्नददपि सर्वे शान्तमतो जगत् ।
आकाशमौनमेवाच्छमच्छिन्नं वाऽप्रवृत्तिमत्

6.167.6

नानामहाशब्दमपि शिलामौनमवस्थितम् ।
अनारतं गच्छदपि व्योमवच्छैलवत्स्थितम्

6.167.7

नानाविधारम्भमपि महाशून्यमनङ्कितम् ।
पञ्चभूतात्मकमपि खमिवालब्धपञ्चकम्

6.167.8

पदार्थसंकुलमपि शून्यं संवित्तिमात्रकम् ।
स्वप्ने महापुरमिव दृष्टमप्यच्छचिन्मयम्

6.167.9

सारम्भमप्यनारम्भं संकल्पनगरं यथा ।
आकाशमात्रं भ्रान्त्यात्म स्वप्नस्त्रीसंगमोपमम्

6.167.10

अनुभूतमपि व्यर्थं प्रतिबिम्बाङ्गनासमम् ।
नानानुभवनिर्माणं वस्तु शून्यं तु वस्तुतः

6.167.11

श्रीराम उवाच ।
जाग्रत्स्वप्नात्मकमिदं मन्ये स्मृत्यैव दृश्यते ।
सद्रूपबाह्यार्थकृता स्मृतिरेवेह कारणम्

6.167.12

श्रीवसिष्ठ उवाच ।
यत्तच्चित्काचकच्येन काकतालीयवद्वपुः ।
व्योमात्माऽऽभाति भावानां सत्तामात्रमभित्तिमत्

6.167.13

तदेतदविनाशात्म सर्वत्र परमात्मनि ।
सर्वदा विद्यते शान्ते पयसीव तरङ्गकाः

6.167.14

निर्निमित्तं स्वरूपात्म तदेतत्परमात्मनि ।
सर्वात्मन्यपि निर्वाणे व्योमात्मनि निरात्मनि

6.167.15

यदा यदावभात्यन्तर्येन तेन यथा तथा ।
सर्वदा न कदाचिद्वा यत्र तत्र न किंचन

6.167.16

तस्यैव ब्रह्मभानस्य तेनैवं ब्रह्मणात्मना ।
स्वच्छस्यैव स्वभावस्य स्वस्वभावमनुज्झता

6.167.17

इदं जाग्रदयं स्वप्नः सुषुप्तं तुर्यमित्यपि ।
कृतं नाम स्वयं चित्वाद्ब्रह्म वात्मेति चात्मनि

6.167.18

वस्तुतस्त्वस्ति न स्वप्नो न जाग्रन्न सुषुप्तता ।
न तुर्यं न ततोऽतीतं सर्वं शान्तं परं नभः

6.167.19

अथवा सर्वमेवेदं जाग्रद्रूपं सदैव च ।
सर्वदैव च वा स्वप्नः सुषुप्तं सर्वदैव च

6.167.20

सर्वदैव च वा तुर्यं तदन्तः सर्वदैव वा ।
तदिदं वा न यद्विद्मो वयमाशान्तरूपिणः

6.167.21

इदं फेनो न किंचिद्वा बुद्बुदो वा न कश्चन ।
शून्यताम्भसि चिद्व्योम महार्णवमहोदरे

6.167.22

यथा संवेद्यते यद्यत्तथा तदनुभूयते ।
सद्वासद्वा भवत्स्वप्ने व्योम्नीव सदसच्च तत्

6.167.23

संवित्कचनमेवेदं यथा भानं विभासते ।
व्योम व्योमनि चिद्रूपं चिद्रूपे विततात्मनि

6.167.24

संविच्च चिन्नभोमज्जा सैवंरूपैव सर्वदा ।
नास्तमेति न चोदेति तस्याः स्वाङ्गमिदं जगत्

6.167.25

महाप्रलयसर्गाद्या महाप्रलयरात्रयः ।
तस्या एवावयवतां याताः केशनखादिवत्

6.167.26

तस्या भानमभानं तद्भास्वरं जिह्ममेव वा ।
नान्यत्स्वभाववत्स्पन्द इव वायोर्महाचितेः

6.167.27

तस्मात्किं नाम जाग्रत्स्यात्कः स्वप्नः का सुषुप्तता ।
किं तुर्यं का स्मृतिः केच्छा तुच्छा एताः कुदृष्टयः

6.167.28

अन्तःसंवेदनं भाति स्वं बाह्यार्थतया यतः ।
क्व द्वैतं क्व च वार्थश्रीः स्मृतिरेवमतः कुतः

6.167.29

तदिदं भाति निर्भित्ति तत्स्वभानं यदात्मना ।
भानोर्नभसि भारूपमेव भूतविवर्जितम्

6.167.30

सद्रूपो यदि बाह्योऽर्थो विद्यते तत्तदुत्थिता ।
स्मृतिः कारणतामेतु नामाद्यजगतः स्थितेः

6.167.31

किंतु नास्त्येष बाह्योऽर्थो भूतानामत्यसंभवात् ।
पञ्चानामादिसर्गादौ कारणानामभावतः

6.167.32

शशश्रृङ्गं यथा नास्ति यथा नास्ति खपादपः ।
यथा वन्ध्यासुतो नास्ति यथा नास्त्यसितः शशी

6.167.33

तथाऽज्ञप्रतिभातोऽर्थो जगदाद्यहमादिकः ।
अप्रेक्षितोऽस्ति नास्त्येव प्रेक्षितः सन्न कश्चन

6.167.34

यथास्तीदं महाकारं न किंचिदूपमेव वा ।
तत्त्वज्ञविषयं राम तथास्तीदमखण्डितम्

6.167.35

संविद्धननभोमज्जा यथोदेति यदा यदा ।
नित्योदितोपचारेण कल्पितास्तमयोदया

6.167.36

मुधा व्योम्न्येव पृथ्व्यादितया वेत्ति तदा तदा ।
स्वस्यैव तस्य भानस्य धत्ते पृथ्व्यादिकल्पनाम्

6.167.37

स्वमेव भानमाकाशमात्रमेव महाचितिः ।
पृथ्व्यादिव्यपदेशेन पश्चाद्व्यपदिशत्यजा

6.167.38

आकाश एव पृथ्वीयमिति धत्ते स्वसंविदम् ।
मनोराज्यपुरं बाल इव चिन्मात्रमव्ययम्

6.167.39

किं भानं किमभानं स्यात्तस्येति न विकल्प्यते ।
स्पन्दास्पन्दस्वभावं तद्विद्धि वातमिवाम्बरे

6.167.40

यथा भाति चिदाकाशं तथेदमवभासते ।
व्योम व्योम्न्येव नीरूपं नेदं पृथ्व्यादि सत्क्वचित्

6.167.41

यथा भाति चिदाकाशरूपत्वाद्भातमप्यलम् ।
न सन्नासदिति किंचित्तन्न किंचिच्च किंचन

6.167.42

इदमित्थमनित्थं च सद्वाऽसद्वा यथास्थितम् ।
लोकपर्यायवृत्तान्तं प्राज्ञो जानाति नेतरः

6.167.43

स एव हृदयाकाशे कचन्त्या दृश्यसंविदा ।
बाह्यं ब्रह्माण्डमित्थं च सद्वाऽसद्वा यथास्थितम्

6.167.44

किमत्र बाह्यं किं वान्तः किं दृश्यं कास्य दृश्यता ।
शिवं शान्तमशान्तं च सर्वमोमिति शाम्यताम्

6.167.45

नो वाच्यवाचकदृशा रहितो विचारः
संपद्यते स च विकल्पमयेन सिद्ध्यै ।
सिद्धिश्च संभवति तेन विना न काचि.
द्दीपं विना निशि यथा नयनोपलम्भः

6.167.46

तस्मादपास्य परयाऽमलया धियान्तः-
संकल्पकल्पनमनल्पविकल्पजालम् ।
कृत्वा मनः सकलशास्त्रमहार्थनिष्ठ-
मुड्डीय गच्छ पदमुत्तममेकनिष्ठः

6.167.167

इत्यार्षे श्रीवासिष्ठम० वा० दे० मो० नि० उ० जाग्रत्स्वप्नसुषुप्त्यभावप्रतिपादनं नाम सप्तषष्ट्यधिकशततमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc