भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.155

6.155.155

पञ्चपञ्चाशदधिकशततमः सर्गः

6.155.1

अग्निरुवाच ।
इत्याकर्ण्याथ स व्याधस्तदा तस्मिन्वनान्तरे ।
आसीच्चित्रकृताकार इव विस्मयमन्थरः

6.155.2

न विशश्राम चेतोऽस्य स्वाभ्यासेन विना पदे ।
आसीदुद्भ्रान्त इव स प्रोह्यमान इवार्णवे

6.155.3

आरूढ इव वा चक्रे चक्रेण तपसा हृतः ।
नक्रेणेव समाक्रान्तः पराक्रमविवर्जितः

6.155.4

किमेतत्स्यादुतान्यत्स्यान्निर्वाणमिति संशयात् ।
नाध्यगच्छदसौ शान्तिं मूर्खो यौवनवानिव

6.155.5

अविद्याकृतमेवेदं दृश्यमित्येव चिन्तयन् ।
अविद्या जगदित्येषा नायाति निपुणं हृदि

6.155.6

कियदन्तमिदं दृश्यं स्यात्पश्याम्येतदादितः ।
दूरतोर्ध्वप्रमाणेन तपोलब्धशरीरकः

6.155.7

भावाभावात्मनो नित्यमस्यान्ते स्थीयते सुखम् ।
तस्मादाकाशमप्यस्ति यत्र नो तत्र याम्यहम्

6.155.8

इति निर्णीय हृदये मूर्ख एव बभूव सः ।
गतं तादृशमप्युक्तं विनाभ्यासेन भस्मनि

6.155.9

ततस्ततः प्रभृत्येव तेनैव मुनिभिः सह ।
लुब्धकत्वं परित्यज्य तपश्चरितुमुद्यतः

6.155.10

तस्मिञ्जगति तैर्भावैस्तैः समं निवसन्सदा ।
बहून्यब्दसहस्राणि चकार सुमहत्तपः

6.155.11

तपः कुर्वन्कदाचित्स पुनः पप्रच्छ तं मुनिम् ।
कदा स्यादात्मविश्रान्तिर्ममेत्याह मुनिस्ततः

6.155.12

मुनिरुवाच ।
ज्ञानं तदुपदिष्टं ते जीर्णदार्वल्पकाग्निवत् ।
संस्थितं हृदये किंतु दाह्यमाक्रम्य नोचितम्

6.155.13

नाभ्यासेन विना ज्ञाने शिवे विश्रान्तवानसि ।
अभ्यासेन तु कालेन भृशं विश्रान्तिमेष्यसि

6.155.14

भविष्यदिदमात्मीयमथाकर्णय निर्णयम् ।
मम वर्णयतः कर्णभूषणं भूतलाद्भुतम्

6.155.15

संस्तुतानवबुद्धात्मा ज्ञानसारतयानया ।
दोलायमानसंवित्त्वं न मूर्खो न च पण्डितः

6.155.16

अविद्यारूपमाभोगि किंप्रमाणमिदं जगत् ।
स्यादित्यात्मविकल्पेन तपस्त्वं कर्तुमुद्यतः

6.155.17

इत्थं तपस्त्वया घोरं कार्यं युगशतं पृथु ।
परमेष्ठी ततस्तुष्टस्त्वामुपैष्यति सामरः

6.155.18

मार्गयिष्यसि तस्य त्वं वरदस्य वरं वर ।
इदमुद्दामदौरात्म्यान्निजं संदेहसंशयम्

6.155.19

देवायं दृश्यरूपेऽस्मिन्दृष्टेऽविद्याभ्रमे सति ।
क्वचिदादर्शवन्नास्ति प्रतिबिम्बमलोज्झितः

6.155.20

चिद्व्योमदर्पणस्यास्य परमाण्वाकृतेरपि ।
अन्तस्थस्यैव वा यत्र तत्रेदं प्रतिबिम्बति

6.155.21

तस्मात्कियदनन्तं स्यादिदं दृश्यमनर्थकृत् ।
तस्य पारे कियद्वा स्यादाकाशं दृश्यमेव तत्

6.155.22

एवमर्थमहं ज्ञातुमिमं संप्रार्थये वरम् ।
श्रृणु देवेश्वराविघ्नं तथैवाशु प्रयच्छ मे

6.155.23

इयं स्वच्छन्दमृत्युर्मे नीरोगाऽस्तु तनुश्चिरम् ।
गारुडेन च वेगेन संयुता व्योमगामिनी

6.155.24

प्रतिनाडीकमेषा तु वृद्धिं गच्छतु योजनम् ।
क्रमेण जगतो बाह्ये भवत्वाकाशरूपिणी

6.155.25

साकाशस्यास्य दृश्यस्य लभेय परमेश्वर ।
अन्तमित्थमनन्तस्य परमोऽस्त्विति मे वरः

6.155.26

इति साधो त्वया प्रोक्ते देवदेवो वरं प्रभुः ।
एवमस्तु तवेत्युक्त्वा यास्यत्यन्तर्धिमीश्वरः

6.155.27

गते तस्मिन्महादेवे देवैः सह दिवस्पतौ ।
तपसा ते कृशो देहश्चन्द्रकान्तिर्भविष्यति

6.155.28

मामापृच्छन्नमस्कृत्य तस्मिन्नेव क्षणे ततः ।
प्लुतिमेष्यति स व्योम्नि चित्तस्थार्थदिदृक्षया

6.155.29

द्वितीय इव शीतांशुर्द्वितीय इव भास्करः ।
द्वितीय इव वौर्वाग्निश्चन्द्रार्कस्पर्धयोत्थितः

6.155.30

ततो गरुडवेगेन दृश्यस्य नभसस्तथा ।
अन्तं प्राप्तुं वहन्वेगाज्जगतः सरितामिव

6.155.31

जगतोन्ते ततोऽजस्रं ततो वर्धिष्यते वपुः ।
कल्पान्तमत्तार्णववन्निष्पाराम्बरपूरणम्

6.155.32

द्रक्ष्यस्यथ महाव्योन्नि वर्धमानो बृहद्वपुः ।
सर्गान्निरर्गलाधारनिरन्तगगनक्रमात्

6.155.33

परमार्थमहाकाशशून्यतावातचक्रकान् ।
स्वभावद्रवतोद्देशाच्चिदर्णवतरङ्गकान्

6.155.34

संविद्धने यथा स्वप्ने पुराद्या भान्ति खात्मकाः ।
तथा तदा तवैष्यन्ति सर्गवर्गा निरर्गलाः

6.155.35

विस्फुरन्ति महाव्योम्नि पर्णौघाः क्षुभितानिलैः ।
तथा सर्गाननन्तांस्त्वं द्रक्ष्यस्यक्षीणनिश्चयः

6.155.36

सभासत्येक्षणरुचां यथा जालं सदप्यसत् ।
जगदात्म तथाकाशसंविदां खे सदप्यसत्

6.155.37

सर्वोर्वीजनदृष्टानां लग्नानामिन्दुमण्डले ।
यादृग्जालं जगत्तादृक्स्थितेऽनन्यत्वमात्मनः

6.155.38

पुनः सर्गः पुनर्व्योम पुनः सर्गः पुनर्नभः ।
इत्येवं पश्यतस्तेऽत्र दीर्घकालः प्रयास्यति

6.155.39

अथ दीर्घेण कालेन प्रस्फुरन्सर्गपर्णके ।
उद्वेगमेष्यसि व्योम्नि महामहिमनि स्वयम्

6.155.40

उद्वेगमेष्यसि ततस्तपसोऽनुभवत्फलम् ।
निर्देक्ष्यसि तदा देहमनन्ताम्बरपूरकम्

6.155.41

किमिदं कुशरीरं मे भारभूतमिव स्थितम् ।
मेर्वादिभूभृतां लक्षमपि यस्मिंस्तृणायते

6.155.42

देहो ममाप्रमाणोऽयं व्याप्तं व्योम मयाखिलम् ।
पूरयामि खमद्यापि भावि नैवोपगम्यते

6.155.43

अविद्या बत घोरेयमनन्ता च प्रमीयते ।
मीयते न च केनापि ब्रह्मज्ञानं समं विना

6.155.44

तमिमं संत्यजाम्येव देहमाविवृतान्तरम् ।
नानेन किंचिदाप्नोमि साधुसच्छास्त्रसंगमम्

6.155.45

अनन्तापारपर्यन्तं निरालम्बाम्बरास्पदम् ।
किं नामेदं शरीरं मे सुदुष्प्रापार्थसंगमम्

6.155.46

इति संचिन्त्य तं देहं धारणां प्राणरेचनीम् ।
कृत्वा त्यक्ष्यसि संभुक्तात्फलाच्छुष्कं यथा खगः

6.155.48

कृत्वा देहपरित्यागं जीवः प्राणसमन्वितः ।
व्योम्नि स्थास्यति ते तस्मिन्वातात्सूक्ष्मोऽपि वातवत् ।
छिन्नपक्षो महामेरुरिव देहः पतिष्यति ।
तत्र भूलोकशैलादि सर्वं चूर्णीकरिष्यति

6.155.49

शुष्का भगवती देहं तत्तदा भक्षयिष्यति ।
समातृमण्डला तेन निर्दोषा भूर्भविष्यति

6.155.50

इत्यात्मोदन्तमखिलं श्रुतवानसि सुव्रत ।
तपस्तालीवने कृत्वा यथेच्छसि तथा कुरु

6.155.51

व्याध उवाच ।
अहो नु भगवन्दुःखं परिभोक्तव्यमक्षयम् ।
मया व्यर्थमनर्थाय यदर्थेन दुरर्थितम्

6.155.52

विद्यते किं विभो काचिद्युक्तिः सैषा स्थितिर्वर ।
अन्यथा भवितव्योऽर्थो यदि नास्ति तदुच्यताम्

6.155.53

मुनिरुवाच ।
अवश्यंभवितव्योऽर्थो न कदाचन केनचित् ।
विधातुमन्यथा शक्यस्तन्न क्षरति यत्नतः

6.155.54

वामावामशिरःपादविपर्ययविधौ यथा ।
पुंसो न विद्यते शक्तिस्तथा भाव्यन्यथास्थितौ

6.155.55

ज्योतिःशास्त्रार्थविज्ञानैरिह भाव्यर्थवेदनम् ।
भवत्यन्यदपूर्वं तु न किंचन कदाचन

6.155.56

जयन्ति कर्माणि हि वेदनानि
यैः प्राकृतैरद्यतनान्युपेत्य ।
शरीरदाहैरपि निर्विकारसंविन्नयैर्ब्रह्मतयैव सुप्तम्

6.155.155

इत्यार्षे श्रीवासिष्ठमहा० वा० दे० मो० नि० उ० अ० वि० श० भाविसंपत्तिवर्णनं नाम पञ्चपञ्चाशदधिकशततमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc