भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.113

6.113.113

त्रयोदशाधिकशततमः सर्गः

6.113.1

श्रीवसिष्ठ उवाच ।
बलान्यनुतरन्तोऽथ तदित्थं द्रवतां द्विषाम् ।
दूराद्दूरतरं प्राप्ताश्चत्वारस्ते विपश्चितः

6.113.2

सर्वशक्तिमयैकेन चेतनेनेश्वरेण ते ।
प्रहिता दिग्जयं चक्रुः सर्व एव समाशयाः

6.113.3

दूरात्तावदविच्छिन्नमनुसस्रुर्बलानि ते ।
यावत्तीरं समुद्राणां प्रवाहाः सरितामिव

6.113.4

दूराविश्रान्तयानेन तेषां तत्सर्वसाधनम् ।
आत्मीयं परकीयं च क्षीणं कुसरिदम्बुवत्

6.113.5

आत्मीयान्यन्यदीयानि तेषां वीक्ष्यबलान्यलम् ।
क्षीणानीव मुमुक्षूणां पुण्यपापानि धावताम्

6.113.6

स्वयमस्त्राणि शान्तानि कृतकृत्यान्यथाम्बरे ।
ज्वालाजालानि वह्नीनां दाह्यस्यासंभवादिव

6.113.7

आलयेषु रथाश्वेभवृक्षौघादिषु हेतयः ।
आसन्निद्रालवो लीना दिनान्ते विहगा इव

6.113.8

तरङ्गा इव तोयेऽन्तर्नीहारा इव वारिदे ।
मेघा वायाविवामोदा व्योमनीव निलिल्यिरे

6.113.9

धारापङ्कतलालीनशान्तहेतिजलेचरः ।
नाराचसीकरासारनीहारपरिवर्जितः

6.113.10

चक्रावर्तशतोन्मुक्तो युक्तः सौम्यतयाच्छया ।
प्रशान्तमेघसंरम्भतरङ्गोत्तुङ्गवर्षणः

6.113.11

अन्तर्लीनर्क्षरत्नौघकोणसंस्थार्कवाडवः ।
शून्यतावारिरमलो व्योमैकाब्धिरभूत्पृथुः

6.113.12

लम्बप्रकाशगम्भीरं प्रसन्नं कान्तिमत्ततम् ।
रजोविरहितं रेजे खं मनो महतामिव

6.113.13

अथार्णवांस्ते ददृशुराकाशस्यानुजानिव ।
विस्तीर्णान्विमलाकारान्पूरिताखिलदिक्तटान्

6.113.14

तरङ्गकणकल्लोलमहागुलुगुलाकुलान् ।
भूरिसीकरनीहारहारिहारिशरीरिणः

6.113.15

स्थितानात्मानमास्तीर्य भूमौ व्याध्यातुरानिव ।
श्वसनार्तांश्चलद्देहान्विवर्तोर्मिमहाभुजान्

6.113.16

जडानपि स्पन्दमयान्कल्लोलाकोटकोटरान् ।
संसारानिव विस्तीर्णांश्चक्रावर्तदशाकुलान्

6.113.17

रत्नराशितटोद्दद्योतपीवरीकृतभास्करान् ।
शङ्खराशिविशद्वातशब्दतर्जितघुंघुमान्

6.113.18

मांसलोर्मिघटाघोषघर्घराम्बरडम्बरान् ।
वर्तुलावर्तविस्तारप्रभ्रमद्विद्रुमद्रुमान्

6.113.19

मकरव्यूहनिर्ह्रादघर्घरोदरघुंघुमान् ।
मत्स्यपुच्छच्छटाच्छिन्नमज्जत्पोतकृतारवान्

6.113.20

उद्ग्रीवकूर्ममकरनिगीर्णौर्णनरोत्करान् ।
ऊर्मिबिम्बितसप्ताश्वसहस्रार्कनभोनिभान्

6.113.59

भांकारकारिपवनपतद्भूत्यततोद्धटान् ।
ऊर्म्युदस्तमणिव्रातबलाज्झणझणध्वनीन्

6.113.22

नानाजालैर्बलभुजैर्हेलास्पृष्टार्कमण्डलान् ।
नमदुन्नमदुद्रश्मिरत्नमाणिक्यमण्डलान्

6.113.23

उत्फालफेनिलावर्तविवर्तमकरोत्करान् ।
क्वचित्करिकरोन्नामैः क्षणं वंशवनीकृतान्

6.113.24

लहरीवल्लरीवालान्पृष्ठतालिषु माधवान् ।
क्वचिदन्तरविश्रान्तसपरिच्छदमाधवान्

6.113.25

एकदेशस्थितासंख्यनानासुरसुरालयान् ।
तारानवतरङ्गौघपरिदन्तुरिताम्बरान्

6.113.26

गुहामशकवद्गर्तभीतशाखायिताचलान् ।
नयतोम्बुतरङ्गौघैर्वेलाद्रीनतिखर्वताम्

6.113.27

खक्षेत्रारोपितानल्परत्नरश्मिपथाङ्कुरान् ।
शुद्धशुक्तिमुखोन्मुक्तमुक्तान्तरितसैकतान्

6.113.28

नानारत्नांशुकौशेयसूत्रचित्रांस्तरङ्गितान् ।
विशन्नदीन्दशादिग्भिः समाकीर्णान्पटानिव

6.113.29

इन्द्रनीलतटैर्व्युप्तमुक्ताशुक्तिशताङ्कितैः ।
क्वचिद्दर्शयतः कान्तशतेन्दुकनखश्रियम्

6.113.30

रत्नांशुजालसंदिग्धास्तरङ्गादेशबिम्बिताः ।
परिवर्तयतः फुल्लास्तीरतालीवनावलीः

6.113.31

एलालवङ्गकङ्कोलफलमालां जिघृक्षुभिः ।
वेलावनलताभ्रष्टामात्तावृत्तीञ्जलेचरैः

6.113.32

चूतनीपकदम्बाग्रविहगान्प्रतिबिम्बितान् ।
भुञ्जानैर्विप्रलम्भेन कृताच्छोटाञ्जलेचरैः

6.113.33

खेचरप्रतिबिम्बेन विद्रवद्भिरितस्ततः ।
भग्नबन्धबृहत्सेतून्क्षणं प्रति जलेचरैः

6.113.34

अमूर्तान्प्रतिबिम्बेन हृदयस्थजगत्र्त्रयान् ।
चतुरो व्योमविपुलान्दिक्षु नारायणानिव

6.113.35

अतिगाम्भीर्यनैर्मल्यविस्तारविभवैर्नभः ।
निगीर्य संदर्शयतो हृदयादिव बिम्बितम्

6.113.36

जलचारिविहङ्गानां साकाशं प्रतिबिम्बितम् ।
आशयैर्दधतः सारैः पद्मान्भृङ्गमिवात्मगम्

6.113.37

तरङ्गतरलास्फालमारुतैराहताम्बरान् ।
कन्दरोद्गारगम्भीरैः कल्पान्तजलदालयान्

6.113.38

गुहागुलुगुलावर्तनिर्घोषाशनिभाषणान् ।
भृशं भावयतो ग्रस्तानगस्त्यौर्वानलानिव

6.113.39

भूरिसीकरपुष्पाणि तरङ्गौघतरूणि च ।
प्राप्तान्यम्बुवनानीव लहरीमञ्जरीणि खम्

6.113.40

सरत्तरङ्गजालानि प्रोड्डीनप्राणिमन्त्यधः ।
आकाशखण्डखण्डत्वात्पतितानीव विभ्रमात्

6.113.41

एलालवंगबकुलामलकीतमाल-
हिंतालतालदलताण्डवखण्डिताग्रे ।
प्राप्ते पतल्लवणवारिधिदीर्घतीरं
रेखा बभावलिनिभाम्बरशैलमूर्ध्नि

6.113.113

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वा० उ० अवि० विप० समुद्रवर्णनं नाम त्रयोदशाधिकशततमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc