भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.109-2

6.109-2.109

नवाधिकशततमः सर्गः

6.109-2.1

श्रीवसिष्ठ उवाच ।
अथ तां दयितां दृष्ट्वा विस्मयोत्फुल्ललोचनः ।
शिखिध्वज उवाचेदमाश्चर्याकुलया गिरा

6.109-2.2

का त्वमुत्पलपत्राक्षि कुतः प्राप्तासि सुन्दरि ।
किमिहासि कियत्कालं किमर्थमिह तिष्ठसि

6.109-2.3

अङ्गेन व्यवहारेण स्मितेनानुनयेन च ।
मम जायाविलासेन तत्कलेवोपलक्ष्यसे

6.109-2.4

चूडालोवाच ।
एवमेव प्रभो विद्धि चूडालास्मि न संशयः ।
अकृत्रिमेण देहेन लब्धोऽस्यद्य मया स्वयम्

6.109-2.5

कुम्भादिदेहनिर्माणैस्त्वां बोधयितुमेव मे ।
प्रपञ्चः शतशाखत्वमिह यातो वनान्तरे

6.109-2.6

यदा राज्यं परित्यज्य मोहेन तपसे वनम् ।
त्वमागास्तत्प्रभृत्येव त्वद्बोधायाहमुद्यता

6.109-2.7

अनेन कुम्भदेहेन मयैव त्वं विबोधितः ।
कुम्भादिदेहनिर्माणं त्वां बोधयितुमेव मे

6.109-2.8

मायया न तु कुम्भादि किंचित्सत्यं महीपते ।
अथो विदितवेद्यस्त्वं ध्यानेनैतदखण्डितम्

6.109-2.9

सर्वं पश्यसि तत्त्वज्ञ ध्यानेनाश्ववलोकय ।
अथ चूडालयेत्युक्तो बद्ध्वा परिकरं नृपः

6.109-2.10

आत्मोदन्तं विशेषेण ध्यानेनामलमैक्षत ।
अभिराज्यपरित्यागाच्चूडालादर्शनावधि

6.109-2.11

सर्वं मुहूर्तध्यानेन चात्मोदन्तं ददर्श सः ।
आराज्यसंपरित्यागाद्वर्तमानक्षणक्रमम्

6.109-2.12

सर्वमालोक्य भूपालो विरराम समाधितः ।
समाधिविरतो हर्षविकासिनयनाम्बुजः

6.109-2.13

विसार्य तरसा बाहू पुलकोज्ज्वलतां गतौ ।
गलदङ्गं घनस्नेहं मुञ्चद्बाष्पं स्फुरत्स्पृहम्

6.109-2.14

आलिलिङ्ग चिरं कान्तां नकुलो नकुलीमिव ।
तयोरालिङ्गने तस्मिंस्तत्र भावो बभूव यः

6.109-2.15

न स वासुकिजिह्नाभिर्वक्तुं हर्षेण शक्यते ।
दिविस्थाविव पङ्केन कृताविव मिलत्तनू

6.109-2.16

शैलाविव समुत्कीर्णौ श्लिष्टावास्तां चिरं प्रियौ ।
मुहूर्तेन गलद्धर्मजलौ पुलकपीवरौ

6.109-2.17

बाहू विश्लथतामीषन्निन्यतुस्तौ शनैः प्रियौ ।
अमृतापूर्णहृदयौ संशून्यहृदयोपमौ

6.109-2.18

उन्मुक्तभुजमास्तां तावलक्षस्थितलोचनम् ।
घनानन्दक्षणं स्थित्वा तूष्णीं प्रणयपेशलम्

6.109-2.19

कान्तां चिबुकसंलग्नकरः प्रोवाच भूपतिः ।
अत्यन्तमधुरस्निग्धः कान्तः स्वकुलयोषिताम्

6.109-2.20

पुण्यश्च रतिनिष्पन्दः स्वादुर्नामामृतादपि ।
कियत्प्रमाणस्तन्वंग्या त्वया बालेन्दुमुग्धया

6.109-2.21

अनुभूतश्चिरं क्लेशो भर्तुरर्थेन दारुणः ।
एवं दुरुत्तरात्तस्मात्संसारकुहरादहम्

6.109-2.22

उत्तारितो यया बुद्ध्या सा हि केनोपमीयते ।
अरुन्धती शची गौरी गायत्री श्रीः सरस्वती

6.109-2.23

समस्ताः पेलवायन्ते तव तन्व्या गुणश्रिया ।
धीः श्रीः कान्तिः क्षमा मैत्री करुणाद्यास्तु सुन्दरि

6.109-2.24

कान्तास्वाकारकान्तासु प्रथमेवाभिलक्ष्यसे ।
परेणाध्यवसायेन त्वयाहमवबोधितः

6.109-2.25

केन प्रत्युपकारेण परितुष्यति ते मनः ।
मोहादनादिगहनादनन्तगहनादपि

6.109-2.26

पतितं व्यवसायिन्यस्तारयन्ति कुलस्त्रियः ।
शास्त्रार्थगुरुमन्त्रादि तथा नोत्तारणक्षमम्

6.109-2.27

यथैताः स्नेहशालिन्यो भर्तृणां कुलयोषितः ।
सखा भ्राता सुहृद्भृत्यो गुरुर्मित्रं धने सुखम्

6.109-2.28

शास्त्रमायतनं दासः सर्वम भर्तुः कुलाङ्गनाः ।
सर्वदा सर्वयत्नेन पूजनीयाः कुलाङ्गनाः

6.109-2.29

लोकद्वयसुखं सम्यक्सर्वं यासु प्रतिष्ठितम् ।
निरिच्छायाः प्रयातायाः पारं संसारवारिधेः

6.109-2.30

कथमस्योपकारस्य करिष्ये ते प्रतिक्रियाः ।
मन्ये कुलाङ्गनां लोके लोके सर्वास्त्वयाधुना

6.109-2.31

नारीसौजन्यचर्चासु व्यपदेश्या भविष्यसि ।
त्वां निर्मितवतो धातुर्गुणजालातिशायिनीम्

6.109-2.32

मन्ये प्रकुपिता नूनमरुन्धत्यादिकाः स्त्रियः ।
सती त्वं रूपसौजन्यगुणरत्नसमुद्गिके

6.109-2.33

एहि मे त्वद्गुणोत्कस्य पुनरालिङ्गनं कुरु ।
श्रीवसिष्ठ उवाच ।
इत्युक्त्वा मृगशावाक्षीं चूडालां तां शिखिध्वजः

6.109-2.34

आलिलिङ्ग पुनर्गाढं नकुलो नकुलीमिव ।
चूडालोवाच ।
देव शुष्कक्रियाजालपरे त्वय्याकुलात्मनि

6.109-2.35

भूयोभूयो भृशमहं त्वदर्थं दुःखिताभवम् ।
तेन त्वदवबोधात्मा स्वार्थं एवोपपादितः

6.109-2.36

मया तदत्र किं देव करोषि मम गौरवम् ।
शिखिध्वज उवाच ।
त्वया यथा वरारोहे स्वार्थः संपाद्यते शुभः

6.109-2.37

तमिदानीं तथा सर्वाः साधयन्तु कुलाङ्गनाः ।
चूडालोवाच ।
बुध्यसे कान्त विश्रान्तो जगज्जालतटे विभो

6.109-2.38

अद्य तं प्राक्तनं किंचिन्मोहं समनुपश्यसि ।
इदं करोमि नेदं तु प्राप्नोमीदमिति स्थितिम्

6.109-2.39

अन्तर्हससि तां कच्चिद्दशापेलवतां धियः ।
तास्तुच्छतृष्णाकलनास्ताः संकल्पकुकल्पनाः

6.109-2.40

त्वयि नाद्यावलोक्यन्ते देव व्योम्नीव पर्वताः ।
किं त्वमद्याङ्ग संपन्नः किंनिष्ठोऽसि किमीहसे

6.109-2.41

कथं पश्यसि पाश्चात्यं देहचेष्टाक्रमं विभो ।
शिखिध्वज उवाच ।
सुमनःपूर्णनीलाब्जमालासारविलोचने

6.109-2.42

त्वमेव यस्य यस्यान्तस्तत्तस्याहमुपास्थितः ।
निरीहोऽस्मि निरंशोऽस्मि नभःस्वच्छोऽस्मि निस्पृहः

6.109-2.43

शान्तोऽहमर्थरूपोऽस्मि चिरायाहमहं स्थितः ।
तां दशामुपयातोऽस्मि यतश्चित्तैकवर्त्मनि

6.109-2.44

प्रतिषेधन्ति सहसा न यां हरिहरादयः ।
नकिंचिन्मात्रचिन्मात्रनिष्ठोऽस्मि स्वस्थ आस्थितः

6.109-2.45

भ्रमेणाहं विमुक्तोऽस्मि संसारेणालिलोचने ।
न तुष्टोस्मि न खिन्नोऽस्मि नायमस्मि न चेतरत्

6.109-2.46

न स्थूलोऽस्मि न सूक्ष्मोऽस्मि सत्यमस्मि च सुन्दरि ।
तेजोबिम्बात्प्रयातेन भित्तावपतितेन च

6.109-2.47

क्षयातिशयमुक्तेन प्रकाशेनास्मि वै समः ।
शान्तोस्मि साम्यं नेतास्मि स्वस्थोस्मि विगताशयः

6.109-2.48

परिनिर्वाण एवास्मि सदृशोऽस्मि पतिव्रते ।
यत्तदस्मि तदेवास्मि वक्तुं शक्रोमि नेतरत्

6.109-2.49

तरङ्गतरलापाङ्गे गुरुस्त्वं मे नमोऽस्तु ते ।
प्रसादेन विशालाक्ष्यास्तीर्णोऽस्मि भवसागरात्

6.109-2.50

पुनर्मलं न गृह्णामि शतध्मातसुवर्णवत् ।
शान्तः स्वस्थो मृदुर्यत्तो वीतरागो निरंशधीः

6.109-2.51

सर्वातीतः सर्वगश्च खमिवायमहं स्थितः ।
चूडालोवाच ।
एवं स्थिते महासत्त्व प्राणेश हृदयप्रिय

6.109-2.52

किमिदानीं प्रभो ब्रूहि रोचते ते महामते ।
शिखिध्वज उवाच ।
प्रतिषेधं न जानामि न जानाम्यभिवाञ्छितम्

6.109-2.53

यदाचरसि तन्वि त्वं कदाचिद्वेद्मि तत्तथा ।
यद्यन्मतं ते सकलं तथास्त्वविकलं प्रिये

6.109-2.54

न किंचिदनुसंधातुं जानाम्यम्बरसुन्दरः ।
यदेव किंचिज्जानासि तदेव कुरु सुन्दरि

6.109-2.55

तदेव धारयिष्यामि प्रतिबिम्बं यथा मणिः ।
चेतसा गलितेष्टेन यथाप्राप्तमनिन्दितम्

6.109-2.56

न स्तौमि न च निन्दामि यदिच्छसि तदाचर ।
चूडालोवाच ।
यद्येवं तन्महाबाहो समाकर्णय मन्मतम्

6.109-2.57

आकर्ण्य जीवन्मुक्तात्मस्तदेवाहर्तुमर्हसि ।
सर्वत्रैक्यावबोधेन मौर्ख्यक्षयभुवान्विताः

6.109-2.58

निरिच्छास्तावदाकाशविशदाः संस्थिता वयम् ।
यादृगेषणमस्माकं तादृशं तदनेषणम्

6.109-2.59

यत्प्राणानैषणे कोऽत्र चिन्मात्रोऽभ्यसते हि कः ।
तस्मादाद्यन्तमध्येषु ये वयं पुरुषोत्तम

6.109-2.60

शेषमेकं परित्यज्य त एवेमे स्थिता वयम् ।
राज्येन सांप्रतेनेमं कालं नीत्वा क्रमेण वै

6.109-2.61

विदेहतां प्रयास्यामः प्रभो कालेन केनचित् ।
शिखिध्वज उवाच ।
वयमाद्यन्तमध्येषु कीदृशास्तरले वद

6.109-2.62

शेषमेकं परित्यज्य तिष्ठामः कथमेव वा ।
चूडालोवाच ।
वयमाद्यन्तमध्येषु राजानो राजसत्तम

6.109-2.63

मोहमेकं परित्यज्य भवामः पुनरेव ते ।
स्व एव नगरे राजा भव त्वं स्वासने स्थितः

6.109-2.64

ललामो ननु कान्तानां महिषी ते भवाम्यहम् ।
सनृपा मत्तवास्तव्या नृत्यन्नवनवाङ्गना

6.109-2.65

सपताका ध्वनत्तूर्या पुष्पप्रकरिणी पुरी ।
लसद्वल्ल्या समञ्जर्या रणत्पुष्पालिमालया ।
मधुमासलतालक्ष्म्या चिराद्भवतु सा समा

6.109-2.66

श्रीवसिष्ठ उवाच ।
इति चूडालया प्रोक्तो विहस्य स शिखिध्वजः ।
प्रोवाच मधुरं वाक्यमक्षुब्धं विगतज्वरः

6.109-2.67

एवं चेत्तद्विशालाक्षि स्वायत्ता नस्त्रिविष्टपे ।
सिद्धभोगश्रियस्तासु निवसामि न किं प्रिये

6.109-2.68

चूडालोवाच ।
न राजन्मम भोगेषु वाञ्छा नापि विभूतिषु ।
स्वभावस्य वशादेव यथाप्राप्तेन मे स्थितिः

6.109-2.69

न सुखाय मम स्वर्गो न राज्यं नापि च क्रिया ।
यथास्थितमविक्षुब्धं तिष्ठामि स्वस्थचेष्टिता

6.109-2.70

इदं सुखमिदं नेति मिथुने क्षयमागते ।
सममेव पदे शान्ते तिष्ठामीह यथासुखम्

6.109-2.71

शिखिध्वज उवाच ।
युक्तमुक्तं विशालाक्षि त्वयैतत्समया धिया ।
को वार्थः किल राज्यस्य ग्रहे त्यागेऽपि वा भवेत्

6.109-2.72

सुखदुःखदशाचिन्तां त्यक्त्वा विगतमत्सरम् ।
यथासंस्थानमेवेमौ तिष्ठावः स्वस्थतां गतौ

6.109-2.73

इति तत्र कथालापकथनेन तयोर्द्वयोः ।
कान्तयोश्चिरदंपत्योर्वासरस्तनुतां ययौ

6.109-2.74

अथोत्थाय दिनाचारं यथाप्राप्तमनिन्दितौ ।
सोत्कण्ठावप्यनुत्कण्ठौ चक्रतुः कार्यकोविदौ

6.109-2.75

स्वर्गसिद्धिमनादृत्य तस्थतुः पूर्णचेतसौ ।
एकस्मिन्नेव शयने तैस्तैः प्रणयचेष्टितैः ।
सा व्यतीयाय रजनी तयोर्जीवद्विमुक्तयोः

6.109-2.76

तद्भोगमोक्षसुखमुत्तमयोः स्वय स-
माशंसतोः प्रणयवाक्यविलासगर्भम् ।
उत्कण्ठतां प्रणयिनोर्धियमानयन्ती
दीर्घा मुहूर्तवदसौ रजनी जगाम

6.109-2.109

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मो० निर्वाणप्रकरणे पू० चू० चूडालाप्रकटीकरणं नाम नवोत्तरशततमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc