भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.106-2

6.106-2.106

षडुत्तरशततमः सर्गः

6.106-2.1

श्रीवसिष्ठ उवाच ।
ततः कतिपयेष्वेव दिवसेषु गतेषु सा ।
इदं प्रोवाच भर्तारं कुम्भरूपधरा सती

6.106-2.2

राजन्राजीवपत्राक्ष ममेदं वचनं श्रृणु ।
निशायां प्रत्यहं तावत्स्थित एवाहमङ्गना

6.106-2.3

तदिच्छाम्यङ्गनाधर्मं निपुणीकर्तुमीदृशम् ।
भर्त्रे कस्मैचिदात्मानं विवाहेन ददाम्यहम्

6.106-2.4

तद्भवानेव मे भर्ता रोचते भुवनत्रये ।
गृहाण मां विवाहेन भार्यात्वे निशि सर्वदा

6.106-2.5

अयत्नोपनतं साधो प्रियेण सुहृदा सह ।
स्त्रीसुखं भोक्तुमिच्छामि मा मे विघ्नकरो भव

6.106-2.6

क्रमप्रवृत्तमासृष्टेः सुखं साध्यं मनोरमम् ।
प्रकृतं कुर्वतः कार्यं दोषः क इव जायते

6.106-2.7

इच्छानिच्छे फले त्यक्त्वा समन्तात्सर्ववस्तुषु ।
वयं न सेच्छा नानिच्छाः कुर्मस्तेनेदमीप्सितम्

6.106-2.8

शिखिध्वज उवाच ।
कृतेनानेन कार्येण न शुभं नाशुभं सखे ।
पश्यामि तन्महाबुद्धे यथेच्छसि तथा कुरु

6.106-2.9

समतां संप्रयातेन चेतसेदं जगत्त्रयम् ।
स्वरूपमेव पश्यामि यथेच्छसि तदाचर

6.106-2.10

कुम्भ उवाच ।
यद्येवं तन्महीपाल लग्नमद्यैव शोभनम् ।
राकेयं श्रावणस्यास्य ह्यः सर्वं गणितं मया

6.106-2.11

रात्रावद्योदिते चन्द्रे परिपूर्णकलामले ।
जन्यत्रो नौ महाबाहो द्वयोरेव भविष्यति

6.106-2.12

महेन्द्राद्रिशिरःश्रृङ्गसानावद्य मनोरमे ।
रत्नदीपप्रकाशाढ्ये मणिकन्दरमन्दिरे

6.106-2.13

पुष्पभारानतोत्तुङ्गवृक्षराजिविराजिते ।
वनपुष्पलतालास्यनारीनृत्यमनोहरे

6.106-2.14

निशि व्योमगतास्तारा भर्त्रा पूर्णेन्दुना सह ।
आवयोः परिपश्यन्तु कर्णान्तायतलोचन

6.106-2.15

उत्तिष्ठात्मविवाहार्थं कुर्वः काननकोटरात् ।
राजेश्चन्दनपुष्पादिसंभारं रत्नसंयुतम्

6.106-2.16

इत्युक्त्वा कुम्भ उत्थाय सह तेन महीभृता ।
कुसुमावचयं चक्रे तथा रत्नादिसंचयम्

6.106-2.17

ततो मुहूर्तमात्रेण रत्नसानौ समे शुभे ।
समालम्भनपुष्पाणां ताभ्यां वै राशयः कृताः

6.106-2.18

हाराम्बरमणीन्द्रादिराशयस्त्वपरेऽजिरे ।
सौभाग्यस्येव कामेन कोशाः कालेन संभृताः

6.106-2.19

तथा जन्यत्रसंभारं कृत्वा काञ्चनकन्दरे ।
ययतुस्तौ महामित्रे स्नातुं मन्दाकिनीं नदीम्

6.106-2.20

तत्रैनं स्नापयामास महाराजं महादरात् ।
गजकुम्भोपमस्कन्धं कुम्भो मङ्गलपूर्वकम्

6.106-2.21

भविष्यद्दयितारूपां भविष्यद्दयितोऽङ्गनाम् ।
चूडालां स्नापयामास कुम्भरूपधरां प्रियाम्

6.106-2.22

पूजयामासतुः स्नातौ तत्र देवपितृन्मुनीन् ।
यथा क्रियाफलेऽनिच्छौ क्रियात्यागे तथैव तौ

6.106-2.23

नित्यज्ञानरसातृप्तौ व्यवस्थायां जगत्स्थितेः ।
चक्राते भोजनं भव्यं तावन्योन्यसमीहितम्

6.106-2.24

कल्पवृक्षदुकूलानि परिधाय सितानि तौ ।
फलानि भुक्त्वा जन्यत्रस्थानमाययतुः क्रमात्

6.106-2.25

एतावताथ कालेन तयोर्जन्यत्रसोत्कयोः ।
प्रियं कर्तुमिवास्ताद्रिं द्रागित्येवाविशद्रविः

6.106-2.26

अथ संध्याक्रमे वृत्ते कृते जप्याघमर्षणे ।
विवाहदर्शनायैव ताराजाले खमागते

6.106-2.27

मिथुनैकसखीयामा कुमुदोत्करहासिनी ।
प्रालेयजालप्रकरं विकिरन्ती समाययौ

6.106-2.28

रत्नदीपान्बहून्सानौ कुम्भः सम्यगयोजयत् ।
ज्योतींषीन्द्वर्कयुक्तानि पद्मोद्भव इवाम्बरे

6.106-2.29

भूषयामास राजानं स्त्रीत्वं गच्छन्निशागमे ।
चन्दनागुरुकर्पूरपूरैर्मृगजकुङ्कुमैः

6.106-2.30

हारकेयूरकटकैस्तथा कल्पलतांशुकैः ।
स्रगुद्दामावतंसैश्च माल्यैश्च विविधोचितैः

6.106-2.31

तथा कल्पलतागुच्छैर्मन्दारैः पारिजातकैः ।
संतानैर्बहुरत्नैश्च मौलिना चेन्दुरूपिणा

6.106-2.32

एतावताथ कालेन वधूत्वं कुम्भ आययौ ।
घनस्तनभराक्रान्तो बभूवाशु विलासवान्

6.106-2.33

इदं संचिन्तयामास संपन्नोऽयमहं वधूः ।
कामायात्मा मया देयः कार्यं कालोचितं किल

6.106-2.34

इयमस्मि वधूः कान्ता भर्ता त्वं मे पुरःस्थितः ।
गृहाण काम मामेहि कालोऽयं तव हृच्छयः

6.106-2.35

इति संचिन्त्य भर्तारमग्रस्थगहनस्थितम् ।
उदयन्तमिवादित्यं रतिः काममिवाभ्यगात्

6.106-2.36

अहं मदनिका नाम भार्यास्मि तव मानद ।
पादयोस्ते प्रणामोऽयं सस्नेहं क्रियते मया

6.106-2.37

इत्युक्त्वा सानवद्याङ्गी लज्जावनमितानना ।
लोलालकेन शिरसा प्रणनाम लसत्पतिम्

6.106-2.38

उवाचेदं च हे नाथ त्वं मां भूषय भूषणैः ।
क्रमेणाग्निं च संज्वाल्य मत्पाणिग्रहणं कुरु

6.106-2.39

राजसेऽतितरां राजन्मां करोषि स्मरातुराम् ।
रतेर्विवाहे मदनमभिभूयाधितिष्ठसि

6.106-2.40

इन्दोरिवांशुजालानि राजन्माल्यानि तानि ते ।
मेरुगङ्गाप्रवाहाभां धत्ते हारस्तवोरसि

6.106-2.41

मन्दारकुसुमप्रोतैः कुन्तलैर्नृप राजसे ।
कनकाब्जमिवोल्लोलैर्भृङ्गैः खचितकेसरैः

6.106-2.42

रत्नांशुजालैः कुसुमैः श्रिया स्थैर्येण तेजसा ।
रत्नस्थानं विभो मेरुमभिभूयावतिष्ठसे

6.106-2.43

एवमादि वदन्तौ तौ भविष्यन्नवदम्पती ।
प्रच्छन्नपूर्वदाम्पत्यौ मिथस्तुष्टौ बभूवतुः

6.106-2.44

महाराज्ञीं मदनिकां महाराजः शिखिध्वजः ।
काञ्चनोपलपर्यङ्के निविष्टो भूषयत्स्वयम्

6.106-2.45

अवतंसैस्तथा माल्यैर्मणिरत्नविभूषणैः ।
वस्त्रैर्विलेपनैः पुष्पै रुचिरस्थानकार्पितैः

6.106-2.46

सा बभौ भूषिता तन्वी मदनी मददायिनी ।
गिरिजेव विवाहोत्का कामकान्तेव कामिनी

6.106-2.47

महाराजो महाराज्ञीं भूषयित्वेदमाह ताम् ।
राजसे मृगशावाक्षि लक्ष्मीरिव नवोदिता

6.106-2.48

शक्रेण सह यच्छच्या यल्लक्ष्म्या हरिणा सह ।
यद्गौर्याः शंभुना सार्धं तत्ते भवतु मङ्गलम्

6.106-2.49

पद्मकोशाङ्कुरहृदा लोलनीलोत्पलेक्षणा ।
आमोदशुभझांकारा स्वास्थिता पद्मिनीव सा

6.106-2.50

सुरक्तपल्लवकरा स्तनस्तबकधारिणी ।
त्वमनेकफला मन्ये कामकल्पतरोर्लता

6.106-2.51

हिमशीतावदाताङ्गी ज्योत्स्नाप्रसरहासिनी ।
पूर्णेन्दुश्रीरिवोद्युक्ता हृष्टैवाह्लादयस्यलम्

6.106-2.52

तदुत्तिष्ठ वरारोहे वेदीं वैवाहिकीं स्वयम् ।
श्रीवसिष्ठ उवाच ।
तत्र पुष्पलताजालैः काण्डं प्रति शिलाङ्कितैः

6.106-2.53

मुक्ताकुसुमजालानां प्रकरैः स्तबकोपमैः ।
चतुर्दिक्कं चतुर्भिश्च नालिकेरमहाफलैः

6.106-2.54

पूर्णकुम्भैस्तथा गङ्गावारिपूर्णैः प्रकल्पितैः ।
ज्वालयामासतुस्तस्या मध्ये चन्दनदारुभिः

6.106-2.55

ज्वलनं ज्वालितज्वालं दक्षिणस्थं प्रदक्षिणम् ।
पूर्वाभिमुखमेवाग्नेरग्रे पल्लवविष्टरे

6.106-2.56

नियोज्य दंपती कान्तौ तयोर्विविशतुः स्वयम् ।
स हुत्वा तिललाजानि पावकाय शिखिध्वजः

6.106-2.57

उत्थायोत्थाय कान्तां स पाणिभ्यां स्वयमाददे ।
अन्योन्यं शोभमानौ तौ भवाविव वने शिवौ

6.106-2.58

चक्रतुर्दंपती तस्य पावकस्य प्रदक्षिणम् ।
स्वदायं ज्ञानसर्वस्वं हृदयं प्रेम चापलम्

6.106-2.59

ददतुस्तौ मिथोऽन्योन्यस्मितकान्तमुखश्रियौ ।
प्रदक्षिणत्रयं कृत्वा लाजांस्त्यक्त्वाथ वह्नये

6.106-2.60

भार्यावरौ समं तुष्टौ करौ तत्यजतुः क्रमात् ।
स्मयमानमुखौ कान्तौ चन्द्राविव नवोदितौ

6.106-2.61

पूर्वोपरचिते पुष्पतल्पे विविशतुर्नवे ।
एतस्मिन्नन्तरे चन्द्रश्चतुर्भागं नभस्तलात्

6.106-2.62

शनैराक्रमयामास शोभां द्रष्टुमिवानयोः ।
तस्मिंश्च ललनाछिद्रं द्रष्टुं दृष्टिरिवाभितः

6.106-2.63

लोलः संचरयामास करानिन्दुर्लतागृहे ।
तैस्तैर्नवकथालापैरिन्दावभ्युदिते त्वथ

6.106-2.64

तावासांचक्रतुः कान्तौ दंपती सुमुहूर्तकम् ।
अथोत्थाय ज्वलद्रत्नदीपां काञ्चनकन्दराम्

6.106-2.65

स्वयं पूर्वोपरचितां गुप्तां विविशतुः प्रियौ ।
ददर्शतुर्नवं तत्र तल्पं कुसुमकल्पितम्

6.106-2.66

परितो व्याप्तमुत्कीर्णैर्हेमपङ्कजराशिभिः ।
मन्दारादिभिरन्यैश्च पुष्पैर्ग्लानिविवर्जितैः

6.106-2.67

उच्चकैः सुप्रमाणेन निर्मितैः कुसुमैः समैः ।
दीर्घेन्दुबिम्बप्रतिमैस्तुषारस्थलशीतलैः

6.106-2.68

क्षीरोदजलधाराभं ज्योत्स्नासंपिण्डसुन्दरम् ।
प्रतिबिम्बमनङ्गस्य नतं भित्ताविव स्थितम्

6.106-2.69

सुगन्धमुन्नतं कान्तं चिरादन्यतयोत्थितम् ।
मिथुनं पुष्पराशौ तन्न्यषीदत्परितोऽमले ।
तस्मिन्समसमाभोगे क्षीरोदे मन्दरो यथा

6.106-2.70

तैस्तैर्मिथः प्रणयपेशलवाग्विलासै-
स्तत्कालकार्यसुभगैः प्रणयोपचारैः ।
सत्कान्तयोर्नवनवेन तयोः सुखेन
दीर्घा मुहूर्त इव सा रजनी जगाम

6.106-2.106

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषु निर्वाणप्रकरणे पू० चू० लीलाविवाहो नाम षडुत्तरशततमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc