भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · श्लोक 6.100-2

6.100-2.100

शततमः सर्गः

6.100-2.1

शिखिध्वज उवाच ।
एवं चेत्तन्महाबुद्धे यादृशं कारणं परम् ।
कार्यं तादृशमेवेदं जगदित्येव वेद्म्यहम्

6.100-2.2

कुम्भ उवाच ।
यत्र कारणता तस्य कार्यं तदुपपद्यते ।
यन्न कारणमेवादौ तस्मात्कार्यं कुतो भवेत्

6.100-2.3

नेहास्ति कारणं किंचिन्न च कार्यं कदाचन ।
विद्यमानमिदं सर्वं सर्वं शान्तमजं जगत्

6.100-2.4

जायते कारणात्कार्यं यत्तत्कारणवद्भवेत् ।
यन्न जायत एवेह तस्मिन्सदृशता कुतः

6.100-2.5

बीजमेव न यस्यास्ति तत्कथं वद जायते ।
अप्रतर्क्यमनाख्यं च यत्तस्य क्वेव बीजता

6.100-2.6

देशकालवशात्सर्वे हेतुमन्तः प्रमाणगाः ।
अकर्तृब्रह्मविषयः प्रमा कारणयोः कथम्

6.100-2.7

अकर्तृकर्मकरणे नास्ति कारणता शिवे ।
तस्मात्तत्कारणं नास्ति जगच्छब्दार्थवेदनम्

6.100-2.8

ब्रह्मैव त्वं स्वरूपं सद्यत्स्थितं धारयस्व तत् ।
असम्यग्दर्शिविषयं तदेव जगदाचितम्

6.100-2.9

चिन्मात्रमजरं शान्तं यदेकं तत्प्रमीयते ।
तेनैवायं जगद्ब्रह्म सच्छान्तं बुद्ध्यते वपुः

6.100-2.10

अन्यथैव च यो भावश्चेतसः पृथिवीपते ।
स एव नाशः कथितः स्वानुभूतश्च पण्डितैः

6.100-2.11

चित्तं नाशस्वभावं तद्विद्धि नाशात्मकं नृप ।
क्षणनाशो यतः कल्पचित्तशब्देन कथ्यते

6.100-2.12

असंकल्पनमात्रेण सम्यग्ज्ञानोदयात्मना ।
संकल्पः क्षीयते सिद्ध्यै स्वयमेवासदात्मकः

6.100-2.13

नाम्नैवाङ्गीकृताभावं यदि विश्वं हि कथ्यते ।
विद्यमानं कथं तत्स्यान्ननु तामरसेक्षण

6.100-2.14

हस्तावुत्क्षिप्य यो ब्रूते शद्रोऽस्मीति भृशं गिरा ।
कथं स विप्रो भवति विप्रत्वं त्वस्य कीदृशम्

6.100-2.15

विवृत्तधातुरत्युच्चैर्मृतोऽस्मीति विरौति यः ।
मृतिमेवागतं विद्धि जीवनं तस्य संभ्रम

6.100-2.16

भ्रमाकृति यदस्तीह दृश्यतेऽलातचक्रवत् ।
मृगतृष्णाद्विचन्द्रादिबालवेतालकादिवत्

6.100-2.17

तत्कथं किल नाम स्यात्सत्यं श्रमभरात्मकम् ।
अज्ञानभ्रान्तिरेवान्तश्चित्तमित्येव कथ्यते

6.100-2.18

अज्ञानमुच्यते चित्तमसत्सदिव संस्थितम् ।
असंवेदनमज्ञानं ज्ञानं संवेदनं भवेत्

6.100-2.19

अज्ञानसत्त्वसंवित्तेर्ज्ञानात्संवेदनात्क्षयः ।
जलज्ञानं मुधा भ्रान्तिः साधो मरुमरीचिषु

6.100-2.20

नैतज्जलमिति ज्ञानात्संवित्तेः प्रविलीयते ।
इदं चित्तमिति प्रौढं यदज्ञानमलं हृदि

6.100-2.21

नास्ति चित्तमिति ज्ञानात्तत्समूलं विनश्यति ।
यथा रज्ज्वां भुजङ्गत्वमज्ञानभ्रमसंभवम्

6.100-2.22

न सर्पोऽयमिति ज्ञानाधृदि रूढात्प्रणश्यति ।
तथात्मनि मनोभूतमज्ञानभ्रमसंभवम्

6.100-2.23

चित्तं नास्तीति विज्ञानाधृदि रूढाद्विनश्यति ।
चित्तं मनोऽहमित्यन्तर्यावदज्ञानसंभवम्

6.100-2.24

न चित्तमस्ति नो चैवमहंकारादिसंयुतम् ।
किंचिदेव जगत्यस्मिन्संविदेकान्तनिर्मला

6.100-2.25

तया संकल्पचित्तादि कृतमासीद्विमूढया ।
अद्यासंकल्पतः सर्वं परित्यक्तं प्रबुद्धया

6.100-2.26

संकल्पेन यदा याति त्वसंकल्पेन गच्छति ।
पवनेन महाबाहो ज्वालाजालमिवानले

6.100-2.27

आत्मतत्त्वैकघनया ततया ब्रह्मसत्तया ।
जगत्सर्वमिति व्याप्तं समुद्र इव वारिणा

6.100-2.28

नाहमस्मि न चान्योस्ति न त्वं नैते न चित्तकम् ।
नेन्द्रियाणि न चाकाशमात्मा त्वेकोऽस्ति निर्मलः

6.100-2.29

घटाद्याकाररूपेण स एवायं विलोक्यते ।
इदं चित्तमयं चाहमिति कैव कुकल्पना

6.100-2.30

न जायते न म्रियते किंचिदस्मिञ्जगत्त्रये ।
केवलोऽयं चिदुल्लासः सदसद्भावनात्मना

6.100-2.31

सर्वमात्मा परंब्रह्म सकृत्प्रकटमाततम् ।
द्वित्वैकत्वे न विद्येते न भ्रान्तिर्न च संभ्रमः

6.100-2.32

सर्वेन्द्रियगणाकारे सन्नेवासि सखे ततः ।
न दह्यसे महाबुद्धे न च क्वचन लिप्यसे

6.100-2.33

न ते विनश्यति सखे न च किंचिद्विवर्धते ।
निर्मलाकाशरूपस्य कैवल्यानन्तरूपिणः

6.100-2.34

इच्छानिच्छात्मिके शक्ती येतरापि त्वमेव च ।
न ह्यंशुव्यतिरेकेण शशाङ्क उपलभ्यते

6.100-2.35

अजमजरमनाद्यजस्वभावं
सकृदमलं विलसत्सदैकरूपम् ।
विगलितकलनं कलाख्यलीलं
सदुदितमाद्यमजं तदात्मतत्त्वम्

6.100-2.100

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मी० दे० मोक्षो० निर्वाणप्रकरणे पू० चू० शिखिध्वजपरमावबोधनं नाम शततमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc