भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 6.1

6.1.1

प्रथमः सर्गः

6.1.1

श्रीराम उवाच ।
नैष्कर्म्यात्कल्पनात्यागात्तनुः पतति देहिनः ।
कथमेतदतो ब्रह्मन्संभवत्याशु जीवतः

6.1.2

श्रीवसिष्ठ उवाच ।
जीवतः कल्पनात्यागो युज्यते न त्वजीवतः ।
रूपमस्य यथातत्त्वं श्रृणु श्रवणभूषणम्

6.1.3

अहंभावनमेवाहुः कल्पनं कल्पनाविदः ।
नभोर्थभावनं तस्य संकल्पत्याग उच्यते

6.1.4

पदार्थरसमेवाहुः कल्पनं कल्पनाविदः ।
नभोर्थभावनं तस्य संकल्पत्याग उच्यते

6.1.5

इदं वस्त्विति संवेगमाहुः कल्पनमुत्तमाः ।
नभोर्थभावनं तस्य संकल्पत्याग उच्यते।

6.1.6

स्मरणं विद्धि संकल्पं शिवमस्मरणं विदुः ।
तच्च प्रागनुभूतं च नानुभूतं च भाव्यते

6.1.7

अनुभूतां नानुभूतां स्मृतिं विस्मृत्य काष्ठवत् ।
सर्वमेवाशु विस्मृत्य गूढस्तिष्ठ महामते

6.1.8

सर्वास्मरणमात्रात्मा तिष्ठायातेषु कर्मसु ।
अर्धसुप्तशिशुस्पन्द इवाभ्यस्तोपपत्तिषु

6.1.9

निःसंकल्पप्रवाहेण चक्रं प्रस्पन्दते यथा ।
स्पन्दस्वकर्मस्वनघप्राक्संस्कारवशात्तथा

6.1.10

अविद्यमानचित्तस्त्वं सत्त्वसंस्कारमागतः ।
प्रवाहपतितेष्वेव स्पन्दस्व स्वेषु कर्मसु

6.1.11

ऊर्ध्वबाहुर्विरौम्येष न च कश्चिच्छृणोति मे ।
असंकल्पः परं श्रेयः स किमन्तर्न भाव्यते

6.1.12

अहो मोहस्य माहात्म्यं यदयं सर्वदुःखहा ।
चिन्तामणिर्विचाराख्यो हृत्स्थोऽपि त्यज्यते जनैः

6.1.13

अवेदनमसंकल्पस्तन्मयेनैव भूयताम् ।
एतावत्परमं श्रेयः स्वयमेवानुभूयताम्

6.1.14

किल तूष्णीं स्थितेनैव तत्पदं प्राप्यते परम् ।
परमं यत्र साम्राज्यमपि राम तृणायते

6.1.15

गम्यदेशैकनिष्ठस्य यथा पान्थस्य पादयोः ।
स्पन्दो विगतसंकल्पस्तथा स्पन्दस्व कर्मसु

6.1.16

सर्वकर्मफलाभोगमलं विस्मृत्य सुप्तवत् ।
प्रवाहपतिते कार्ये स्पन्दस्व गतवेदनम्

6.1.17

स्पन्दस्वाकृतसंकल्पं सुखदुःखान्यभावयन् ।
प्रवाहपतिते कार्ये चेष्टितोन्मुक्तशष्पवत्

6.1.18

रसभावनमन्तस्ते मालं भवतु कर्मसु ।
दारुयन्त्रमयस्येव परार्थमिव कुर्वतः

6.1.19

नीरसा एव ते सन्तु समस्तेन्द्रियसंविदः ।
आकारमात्रसंलक्ष्या हेमन्तर्तौ लता इव

6.1.20

बोधार्कपीतरसया स्पन्दन् षड्वर्गसत्तया ।
यन्त्रस्पन्दोपमस्तिष्ठ वल्ल्येव शिशिरे द्रुमः

6.1.21

चिदान्तररसान्येव प्रवृत्तान्यपि धारय ।
स्वयत्नेनेन्द्रियाण्याशु हेमन्तर्तुस्तरूनिव

6.1.22

सरसेन्द्रियवृत्तेस्ते कुर्वतोऽकुर्वतस्तथा ।
संसारानर्थसार्थोऽयं न कदाचन शाम्यति

6.1.23

निःसंकल्पमरुज्ज्वालायन्त्राम्बुस्पन्दवद्यदि ।
स्पन्दसे तदनन्ताय श्रेयसे परिकल्पसे

6.1.24

एतदेव परं धैर्यं जन्मज्वरनिवारणम् ।
यदवासनमभ्यस्ता निजकर्मसु कर्तृता

6.1.25

अवासनमसंकल्पं यथाप्राप्तानुवृत्तिमान् ।
शनैश्चक्रभ्रमाभोग इव स्पन्दस्व कर्मसु

6.1.26

मा कर्मफलबुद्धिर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ।
उभयं वा त्यजैतत्त्वमुभयं वा समाश्रय

6.1.27

बहुनात्र किमुक्तेन संक्षेपादिदमुच्यते ।
संकल्पनं मनोबन्धस्तदभावो विमुक्तता

6.1.28

नेह कार्यं न वाऽकार्यमस्ति किंचिन्न कुत्रचित् ।
सर्वं शिवमजं शान्तमनन्तं प्राग्वदास्यताम्

6.1.29

पश्यन्कर्मण्यकर्मत्वमकर्मणि च कर्मताम् ।
यथाभूतार्थचिद्रूपः शान्तमास्व यथासुखम्

6.1.30

अवेदनं विदुर्योगं चित्तक्षयमकृत्रिमम् ।
अत्यन्तं तन्मयो भूत्वा तथा तिष्ठ यथासि भोः

6.1.31

समे शान्ते शिवे सूक्ष्मे द्वैतैक्यपरिवर्जिते ।
ततेऽनन्ते परे शुद्धे किं केन किल खिद्यते

6.1.32

नोदेतु त्वयि संकल्पो मरुभूमाविवाङ्कुरः ।
इच्छा नोदेतु भवति लतिकेवोपलोदरे

6.1.33

अवेदनस्य शान्तस्य जीवतो वाप्यजीवतः ।
नेह किंचित्कृतेनार्थो नाकृतेनापि कश्चन

6.1.34

यत्कर्माकर्म शान्तेऽन्तः शाश्वताभेदरूपिणि ।
न कर्मणि च कर्माणि न कर्तर्यपि कर्तृता

6.1.35

अहंममेति संविदन्न दुःखतो विमुच्यसे ।
असंविदन्विमुच्यसे यदीप्सितं तदाचर

6.1.36

अहं ममेति नास्त्यलं यदस्ति तच्छिवं परम् ।
परात्परं त्विदं शिवादशब्दमर्थरूपकम्

6.1.37

यद्दृश्यते जगदिदं खलु किंचिदेत-
धेम्नोऽङ्गदत्वमिव भाति न विद्यमानम् ।
अस्य क्षयं विदुरवेदनमेव पश्चा-
त्सत्यं तदेव परमार्थमथावशिष्टम्

6.1.1

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मो० निर्वाणप्रकरणे उत्तरार्धे इच्छादिचिकित्सायोगोपदेशो नाम प्रथमः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc