भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 5.54

5.54.54

चतुःपञ्चाशः सर्गः

5.54.1

श्रीवसिष्ठ उवाच ।
इति निर्णीय ततया धिया धवलया मुनिः ।
बद्धपद्मासनस्तस्थावर्धोन्मीलितलोचनः

5.54.2

ओमित्येतत्परं ब्रह्म निर्णीय स मुनिस्तदा ।
ॐकारोच्चारितो येन तेनाप्तं परमं पदम्

5.54.3

ॐकारमकरोत्तारस्वरमूर्ध्वगतध्वनिम् ।
सम्यगाहतलाङ्गूलं घण्टाकुण्डमिवारवम्

5.54.4

ओमुच्चारयतस्तस्य संवित्तत्त्वे तदुन्मुखे ।
यावदोंकारमूर्धस्थे वितते विमलात्मनि

5.54.5

सार्धत्र्यंशात्ममात्रस्य प्रथमेंऽशे स्फुटारवे ।
प्रणवस्य समाक्षुब्धप्राणारणितदेहके

5.54.6

रेचकाख्योऽखिलं कायं प्राणनिष्क्रमणक्रमः ।
रिक्तीचकार पीताम्बुरगस्त्य इव सागरम्

5.54.7

अतिष्ठत्प्राणपवनश्चिद्रसापूरिताम्बरे ।
त्यक्तदेहः परित्यक्तनीडः खग इवाम्बरे

5.54.8

हृदयाग्निर्ज्वलज्ज्वालो ददाह निखिलं वपुः ।
उत्पातपवनोद्भूतो दावः शुष्कमिव द्रुमम्

5.54.9

यावदित्थमवस्थैषा प्रणवप्रथमक्रमे ।
बभूव न हठादेव हठयोगो हि दुःखदः

5.54.5.54.10

अथेतरांशावसरे प्रणवस्य समस्थितौ ।
निष्कम्पकुम्भको नाम प्राणानामभवत्क्रमः

5.54.11

न बहिर्नान्तरे नाधो नोर्ध्वं नाशासु तत्र ते ।
संक्षोभमगमन्प्राणा आपः संस्तम्भिता इव

5.54.12

दग्धदेहपुरो वह्निः शशामाशनिवत्क्षणात् ।
अदृश्यत सितं भस्म शारीरं हिमपाण्डुरम्

5.54.13

यत्र कर्पूरशय्यायां सुप्तानीव सुखोचितम् ।
शरीरास्थीनि लक्ष्यन्ते निष्पन्दानि सितानि च

5.54.14

तद्भस्म पवनानीतं सास्थि वायुरयोजयत् ।
स्वदेहे भृशमुत्सन्ने त्रिनेत्रव्रतवानिव

5.54.15

तच्चण्डपवनोद्धूतमावृत्त्य गगनं क्षणात् ।
शरदीवाभ्रमिहिका क्वापि भस्मास्थिमद्ययौ

5.54.16

यावदित्थमवस्थैषा प्रणवस्यापरे क्रमे ।
बभूव न हठादेव हठयोगो हि दुःखदः

5.54.17

ततस्तृतीयावसरे प्रणवस्योपशान्तिदे ।
पूरणप्रपूरको नाम प्राणानामभवत्क्रमः

5.54.18

अस्मिन्नवसरे प्राणाश्चेतनामृतमध्यगाः ।
व्योम्नि शीतलतामीयुर्हिमसंस्पर्शसुन्दरीम्

5.54.19

क्रमाद्गगनमध्यस्थाश्चन्द्रमण्डलतां ययुः ।
धूमा गगनकोशस्थाः शीतलाम्बुदतामिव

5.54.5.54.20

कलाकलापसंपूर्णे ते तस्मिंश्चन्द्रमण्डले ।
पुण्यराशाविवापूर्णे रसायनमहार्णवे

5.54.21

रसायनमया धाराः संपन्नाः प्राणवायवः ।
मणियष्टिसमाकारा जालेष्विन्दोरिवांशवः

5.54.22

सा पपाताम्बराद्धारा शेषे शारीरभस्मनि ।
रसायनी हरशिरःपतितेव सुरापगा

5.54.23

उदभूदिन्दुबिम्बाभं चतुर्बाहुवपुस्तया ।
प्रस्फुरन्मन्दरादब्धेः पारिजात इव द्रुमः

5.54.24

उद्दालकशरीरं तन्नारायणतयोदितम् ।
प्रफुल्लनेत्रवक्त्राब्जमाबभौ दीप्तिसुन्दरम्

5.54.25

रसायनमयाः प्राणास्तच्छरीरमपूरयन् ।
सलिलौघा इव सरो वृक्षं मधुरसा इव

5.54.26

अन्तःकुण्डलिनीं प्राणाः पूरयामासुरादृताः ।
चक्रानुवर्तप्रसृतां पयांसीव सरिद्वराम्

5.54.27

प्रकृतस्थं बभूवास्य तच्छरीरं द्विजन्मनः ।
प्रावृट्शरीरविगमे धौतं तलमिवावनेः

5.54.28

अथ पद्मासनगतः कृत्वा देहे स्थितिं दृढम् ।
आलान इव मातङ्गं निबद्ध्येन्द्रियपञ्चकम्

5.54.29

निर्विकल्पसमाध्यर्थं व्यवसायमुपाददे ।
स्वभावं स्वच्छतां नेतुं शरत्काल इवामलम्

5.54.5.54.30

प्रशान्तवातहरिणमाशादिगणगामिनम् ।
चिन्तया हृदयं निन्ये दूराद्रज्ज्वेव कीलकम्

5.54.31

धावमानमधो मत्तं चित्तं विमलमाकुलम् ।
बलात्संरोधयामास सेतुर्जलमिव द्रुतम्

5.54.32

निमिमील दृशावर्धं परिपक्ष्मलपक्ष्मके ।
निस्पन्दतारामधुरे संध्याकाल इवाम्बुजे

5.54.33

सौम्यतामनयन्मौनी प्राणापानजवं मुखे ।
श्वसनं श्रेयसे देशे प्रशस्तः समयो यथा

5.54.34

तिलेभ्य इव तैलानि पृथक् चक्रे प्रयत्नतः ।
इन्द्रियाणीन्द्रियार्थेभ्यः कूर्मोऽङ्गानीव गोपयन्

5.54.35

बाह्यस्पर्शानशेषेण जहौ दूरे स धीरधीः ।
सहसा कुण्डकच्छन्नो मणिर्दूरत्विषो यथा

5.54.36

विलीनानान्तरांश्चक्रे स्पर्शानुज्झितदर्शनात् ।
रसान्विटपकोशस्थान्मार्गशीर्ष इव द्रुमः

5.54.37

रुरोध गुदसंकोच्चान्नवद्वारानिलानथ ।
मुखसंस्थगितः कुम्भो रन्ध्रकोशानिवेतरान्

5.54.38

स्वात्मरत्नप्रकाशाढ्यां स्पष्टां कुसुमलाञ्छिताम् ।
दधार कन्धरां धीरो मेरुः शृङ्गशिखामिव

5.54.39

बभार हृदयाकाशे मनः संयममागतम् ।
विन्ध्यखात इवोन्मत्तं गजं युक्तिवशीकृतम्

5.54.5.54.40

शरन्नभोवदासाद्य निर्मलामतिसौम्यताम् ।
जहार परिपूर्णाब्धेर्निर्वातस्याचलां श्रियम्

5.54.41

दुधावातिविकल्पौघान्प्रतिभासमुपेयुषः ।
पुरः परिस्फुरद्रूपान्मशकानिव मारुतः

5.54.42

आगच्छतो यथाकामं प्रतिभासान्पुनः पुनः ।
अच्छिनन्मनसा शूरः खङ्गेनेव रणे रिपून्

5.54.43

विकल्पौघे परालूने सोऽपश्यद्धदयाम्बरे ।
तमच्छन्नविवेकार्कं लोलकज्जलमेचकम्

5.54.44

तमप्युन्मार्जयामास सम्यक्स्वान्तविवस्वता ।
सम्यग्ज्ञानोदितेनाशु पवनेनेव कज्जलम्

5.54.45

तमस्युपरते कान्तं तेजःपुञ्जं ददर्श सः ।
शार्वरे तिमिरे शान्ते प्रातःसंध्यामिवाम्बुजम्

5.54.46

तल्लुलाव स्थलाब्जानां वनं बाल इव द्विपः ।
अपिबच्चाप्यसृक्पूरं वेताल इव वेगतः

5.54.47

तेजस्युपरते तस्य घूर्णमानं मनो मुनेः ।
निशाब्जवदगान्निद्रा लोलं क्षीबवदेव वा

5.54.48

मेघमालामिव मरुद्व्यालो नीलाब्जिनीमिव ।
यामिनीमिव तीक्ष्णांशुस्तामप्याशु लुलाव सः

5.54.49

निद्राव्यपगमे तस्य भावयामास तन्मनः ।
व्योमश्यामलदृग्जन्तुर्नभसीव शिखण्डकान्

5.54.5.54.50

पयोद इव तापिच्छं नीहारमिव मारुतः ।
दीपस्तम इवाच्छात्म तदप्याशु ममार्ज सः

5.54.51

व्योमसंविदि नष्टायां मूढं तस्याभवन्मनः ।
निद्रायां तु विलीनायां मैरेयमदवानिव

5.54.52

मोहमप्येष मनसस्तं ममार्ज महाशयः ।
यामिनीजनितं जाड्यं भुवनादिव भास्करः

5.54.53

ततस्तेजस्तमोनिद्रामोहादिपरिवर्जितम् ।
कामप्यवस्थामासाद्य विशश्राम मनः क्षणम्

5.54.54

विश्रम्याशु पपाताङ्ग संविदं विश्वरूपिणीम् ।
सेतुरुद्धं सरोवारि प्रतीपं स्वमिवास्पदम्

5.54.55

चिरानुसंधानवशात्स्वदनाच्च स्वसंविदः ।
ततश्चिन्मयतामागाद्धेम नूपुरतामिव

5.54.56

चित्तत्वमथ संत्यज्य चित्तं चित्तत्त्वतां गतम् ।
अन्यदेव बभूवाशु पङ्कः कुम्भस्थितो यथा

5.54.57

चेत्यं संत्यज्य चिच्छुद्धा चित्सामान्यमथाययौ ।
त्यक्तवीच्यादिभेदोऽब्धिर्वाःसामान्यमिवैकधीः

5.54.58

त्यक्तभूतौघमननं ततो विश्वंभरं महत् ।
चिदाकाशं ततः शुद्धं सोऽभवद्बोधमागतः

5.54.59

तत्र प्रापदथानन्दं दृश्यदर्शनवर्जितम् ।
अनन्तमुत्तमास्वादं रसायनमिवार्णवम्

5.54.5.54.60

शरीरात्समवेतोऽसौ कामप्यवनिमागतः ।
सत्तासामान्यरूपात्मा बभूवानन्दसागरः

5.54.61

द्विजचेतनहंसोऽसावानन्दसरसि स्थितः ।
अतिष्ठच्छरदच्छे खे कलापूर्ण इवोडुपः

5.54.62

बभूवावातदीपाभो लिपिकर्मार्पितोपमः ।
वीतवीच्यम्बुधिप्रख्यो वृष्टमूकाम्बुदस्थितिः

5.54.63

अथैतस्मिन्महालोके तिष्ठन्नुद्दालकश्चिरम् ।
अपश्यद्व्योमगान्सिद्धानमरानपि भूरिशः

5.54.64

आगतानि विचित्राणि सिद्धिजालानि चाभितः ।
शक्रार्कपददातॄणि नीरन्ध्राण्यप्सरोगणैः

5.54.65

तानि नादरयांचक्रे सिद्धिवृन्दानि स द्विजः ।
गम्भीरमतिरक्षुब्धो विलासानिव शैशवान्

5.54.66

सिद्धिसार्थमनादृत्य तस्मिन्नानन्दमन्दिरे ।
अतिष्ठदथ षण्मासान्दिक्तटेऽर्क इवोत्तरे

5.54.67

जीवन्मुक्तपदं तत्तद्यावत्संप्राप्तवान्द्विजः ।
तत्र सिद्धाः सुराः साध्याः स्थिता ब्रह्महरादयः

5.54.68

आनन्दे परिणामित्वादनानन्दपदं गतः ।
नानन्दे न निरानन्दे ततस्तत्संविदाबभौ

5.54.69

क्षणं वर्षसहस्रं वा तत्र लब्ध्वा स्थितिं मनः ।
रतिमेति न भोगौघे दृष्टस्वर्ग इवावनौ

5.54.5.54.70

तत्पदं सा गतिः शान्ता तच्छ्रेयः शाश्वतं शिवम् ।
तत्र विश्रान्तिमाप्तस्य भूयो नो बाधते भ्रमः

5.54.71

तत्पदं साधवः प्राप्य दृश्यदृष्टिमिमां पुनः ।
नायान्ति खदिरोद्यानं लब्धचैत्ररथा इव

5.54.72

तां महानन्दपदवीं चित्तादासाद्य देहिनः ।
दृश्यं न बहु मन्यन्ते राजानो दीनतामिव

5.54.73

चेतस्तत्पदविश्रान्तं बुद्धं दृश्यदशां प्रति ।
कदर्थाद्बोधमायाति नायात्येवाथवानघ

5.54.74

उद्दालकोऽत्र षण्मासान्दूरोत्सारितसिद्धिभूः ।
उषित्वोन्मिषितोम्भोदकोशादर्को मधाविव

5.54.75

ददर्श संप्रबुद्धात्मा पुनः परमतेजसः ।
प्रणामलालसाः स्निग्धाश्चन्द्रविम्बवपुर्धराः

5.54.76

रमणीर्गौरमन्दाररेणुभ्रमरचामराः ।
स्फुरत्पताकापटला द्युविमानपरम्पराः

5.54.77

अस्मदादीन्मुनीन्दर्भपवित्राङ्ककराम्बुजान् ।
विद्याधरीभिर्वलितान्विद्याधरपतीनपि

5.54.78

ते तमूचुर्महात्मानमुद्दालकमुनिं तथा ।
प्रसादेन प्रणामान्नो भगवन्नवलोकय

5.54.79

आरुह्येदं विमानं त्वमेहि त्रैविष्टपं पुरम् ।
स्वर्ग एव हि सीमान्तो जगत्संभोगसंपदाम्

5.54.5.54.80

आकल्पमुचितान्भुङ्क्ष्व भोगानभिमतान्विभो ।
स्वर्गादिफलभोगार्थमेवाशेषतपःक्रियाः

5.54.81

हारचामरधारिण्यो विद्याधरवराङ्गनाः ।
पश्येमास्त्वमुपासीनाः करिण्यः करिणं यथा

5.54.82

कामो धर्मार्थयोः सारः कामसाराः सुयोषितः ।
वसन्त इव मञ्जर्यः स्वर्ग एव भवन्ति ताः

5.54.83

एवं कथयतः सर्वानतिथीनित्यसौ मुनिः ।
परिपूज्य यथान्यायमतिष्ठद्गतसंभ्रमम्

5.54.84

नाभ्यनन्दन्न तत्याज तां विभूतिं स धीरधीः ।
भो सिद्धा व्रजतेत्युक्त्वा स्वव्यापारपरोऽभवत्

5.54.85

अथ स्वधर्मनिरतं भोगेष्वरतिमागतम् ।
तमुपास्य ययुः सिद्धा दिनैः कतिपयैः स्वयम्

5.54.86

जीवन्मुक्तः स च मुनिर्विजहार यथासुखम् ।
यावदिच्छं वनान्तेषु मुनीनामाश्रमेषु च

5.54.87

मेरुमन्दरकैलासहिमवद्विन्ध्यसानुषु ।
द्वीपोपवनदिक्कुञ्जजङ्गलारण्यभूमिषु

5.54.88

ततःप्रभृति संप्राप्तपदमुद्दालको द्विजः ।
गुहासु गिरिकुक्षीणामवसद्ध्यानलीलया

5.54.89

कदाचिदह्ना मासेन कदाचिद्वत्सरेण च ।
कदाचिद्वत्सरौघेण ध्यानासक्तो व्यबुध्यत

5.54.5.54.90

उद्दालकस्तदारभ्य व्यवहारपरोऽपि सन् ।
सुसमाहित एवासौ चित्तत्त्वैकत्वमागतः

5.54.91

चित्तत्त्वैकघनाभ्यासान्महाचित्त्वमुपेत्य सः ।
बभूव सर्वत्र समस्तेजः सौरमिवावनौ

5.54.92

चित्सामान्यचिराभ्यासात्सत्तासामान्यमेत्य सः ।
दृश्येऽस्मिंश्चित्ररविवन्नास्तमायान्न चोदयम्

5.54.93

शमपरपदलाभप्राप्तिसंशान्तचेता
गलितजननपाशः क्षीणसंदेहदोलः ।
शरदि खमिव शान्तं व्याततं चोर्जितं च
स्फुटममलमचेतस्तद्वपुः संबभार

5.54.54

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे उद्दालकविश्रान्तिर्नाम चतुःपञ्चाशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc