भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 5.45

5.45.45

पञ्चचत्वारिंशः सर्गः

5.45.1

श्रीवसिष्ठ उवाच ।
अथापश्यदसौ गाधिः स्वाधिपीवरया धिया ।
अन्तर्जलस्थ एवान्तरात्मनात्मनि निर्मले

5.45.2

भूतमण्डलपर्यन्तग्रामोपान्तनिवासिनाम् ।
श्वपचानां स्त्रिया गर्भे स्थितिमात्मानमाकुलम्

5.45.3

गर्भवासभराक्रान्तं पीडितं पेलवाङ्गकम् ।
श्वपचीहृदये सुप्तं स्वविष्ठायामिवाकुलम्

5.45.4

शनैः पक्वतया काले प्रसूतं मेचकच्छविम् ।
श्वपच्या प्रावृषेवाब्दं श्याममावलितं मलैः

5.45.5

संपन्नं श्वपचागारे शिशुं श्वपचवल्लभम् ।
इतश्चेतश्च गच्छन्तमुत्पीडमिव यामुनम्

5.45.6

द्वादशाब्ददशां यातं संस्थितं षोडशाब्दिकम् ।
पीवरांसमुदाराङ्गं पयोदमिव मेदुरम्

5.45.7

सारमेयपरीवारं विहरन्तं वनाद्वनम् ।
निघ्नन्तं मृगलक्षाणि पौलिन्दीं स्थितिमागतम्

5.45.8

तमाललतयेवाथ श्रितं श्वपचकान्तया ।
स्तनस्तबकशालिन्या नवपल्लवहस्तया

5.45.9

श्यामया मलिनाकारदशनामलमालया ।
वनपल्लवया भूरिविलासवलिताङ्गया

5.45.10

विलसन्तं वनान्तेषु तया सह नवेष्टया ।
श्यामलं श्यामया भृङ्गं भृंग्येव कुसुमर्द्धिषु

5.45.11

वनपर्णलतापत्रे वसन्तं व्यसनातुरम् ।
विन्ध्यकान्तारमाकारमभ्यागतमिवोद्भटम्

5.45.12

विश्रान्तं वनकुञ्जेषु सुप्तं गिरिदरीषु च ।
निलीनं पत्रपुञ्जेषु गुल्मकेषु कृतालयम्

5.45.13

किंकिरातावतंसाढ्यं यूथिकास्त्रग्विभूषितम् ।
केतकोत्तंससुभगं सहकारस्रगाकुलम्

5.45.14

लुलितं पुष्पशय्यासु भ्रान्तमद्रितटीषु च ।
तज्ज्ञं काननकोशेषु बहुज्ञं मृगमारणे

5.45.15

प्रसूतमथ शैलेषु पुत्रान्निजकुलाङ्कुरान् ।
अत्यन्तविषमोदन्तान्खदिरः कण्टकानिव

5.45.16

कलत्रवन्तं संपन्नं स्थितं प्रक्षीणयौवनम् ।
शनैर्जर्जरतां यातं वृष्टिहीनमिव स्थलम्

5.45.17

ततो भूतग्रहग्रामजन्मदेशमुपेत्य तम् ।
संस्थितं मठिकां पर्णैः कृत्वा दूरे मुनीन्द्रवत्

5.45.18

जराजरठतां यातं स्वदेहसमपुत्रकम् ।
जीर्णंप्रायरसश्वभ्रतमालतरुसंनिभम्

5.45.19

प्रौढं श्वपचगार्हस्थ्यं कुर्वाणं बहुबान्धवम् ।
क्रूरनामार्थवचनं परां वृद्धिमुपागतम्

5.45.20

अथापश्यदसौ गाधिर्यावत्तस्य कलत्रिणः ।
जरठः श्वपचेभ्यश्च स्वात्मनो भ्रमहारिणः

5.45.21

तत्कलत्रमशेषेण नीतमावृत्य मृत्युना ।
आसारसलिलेनाशु वनपर्णगणो यथा

5.45.22

प्रलपत्येक एवासावटव्यां दुःखकर्शितः ।
वियूथ इव सारङ्गो विगतास्थोऽश्रुलोचनः

5.45.23

दिनानि कतिचित्तत्र नीत्वा शोकपरीतधीः ।
जहौ स्वदेशं संशुष्कपद्मं सर इवाण्डजः

5.45.24

विजहार बहून्देशाननास्थश्चिन्तयान्वितः ।
प्रेर्यमाण इवान्येन वातनुन्न इवाम्बुदः

5.45.25

एकदा प्राप कीराणां मण्डले श्रीमतीं पुरीम् ।
खेचरो विहरन्शून्ये सद्विमानमिवाम्बरे

5.45.26

नृत्यद्रत्नांशुकच्छन्नमार्गवृक्षलताङ्गनम् ।
आगुल्फाकीर्णकुसुमं चन्दनागुरुसुन्दरम्

5.45.27

सामन्तैर्ललनाभिश्च नागरैश्च निरन्तरम् ।
स्वर्गमार्गोपमं राजमार्गमध्यमवाप सः

5.45.28

मणिरत्नकृतागारं तत्र मङ्गलहस्तिनम् ।
ददर्शामरशैलेन्द्रमिव संचारचञ्चलम्

5.45.29

मृते राजनि राजार्थं विहरन्तमितस्ततः ।
रत्नज्ञमिव रत्नार्थं चिन्तामणिदिदृक्षया

5.45.30

तमसौ श्वपचो नागं कौतुकोद्धुरया दृशा ।
चिरमालोकयामास स्पन्दयुक्ताचलोपमम्

5.45.31

आलोकयन्तमादाय तं करेण स वारणः ।
स्वकटेऽयोजयन्मेरुस्तटेऽर्कमिव सादरम्

5.45.32

तस्मिन्कटगते नेदुर्जयदुन्दुभयोऽभितः ।
कल्पाम्बुद इवाकाशमधिरूढे महार्णवाः

5.45.33

पूरिताशो बभौ राजा जयतीति जनस्वनः ।
उदभूत्संप्रबुद्धानां विहगानामिवारवः

5.45.34

उदभूद्बन्दिवृन्दानां घनकोलाहलस्ततः ।
वेलाविलुलिताम्बूनामम्बुधीनामिव ध्वनिः

5.45.35

तं तत्रावरयामासुर्मण्डनार्थं वराङ्गनाः ।
क्षीरोदगतविभ्रान्ता लहर्य इव मन्दरम्

5.45.36

मानिन्यस्तं गुणप्रोतैर्नानारत्नैरपूरयन् ।
नानाप्रभाप्रभातार्का वेला इव तटाचलम्

5.45.27

तुषारशिशिरस्पर्शैस्तास्तं हारैरभूषयन् ।
श्यामा वननदीपूरैर्वर्षाः श्रृङ्गमिवोत्तमम्

5.45.38

विचित्रवर्णसौगन्ध्यैः पुष्पैरावलयन्स्त्रियः ।
वनं मधुश्रिय इव तं लोलकरपल्लवाः

5.45.39

नानावर्णरसामोदैस्तास्तमाशु विलेपनैः ।
अलेपयन्प्रभाजालैर्नगोऽभ्रमिव धातुभिः

5.45.40

रत्नकाञ्चनकान्तोऽसावाददे चित्तमाततम् ।
संध्याभ्रतारेन्दुनदीव्याप्तं मेरुरिवाम्बरम्

5.45.41

भूषितः सविलासाभिर्बालवल्लीभिरावृतः ।
रत्नपुष्पांशुकाकीर्णः कल्पवृक्ष इवाबभौ

5.45.42

तादृशं तमुपाजग्मुः परिवारसमन्विताः ।
सर्वाः प्रकृतयः फुल्लं मार्गद्रुममिवाध्वगाः

5.45.43

ता एनमासने सैंहे तत्राभिषिषिचुः क्रमात् ।
तस्मिन्नेव गजे शक्रमैरावत इवामराः

5.45.44

एवं स श्वपचो राज्यं प्राप कीरपुरान्तरे ।
आरण्यं हरिणं पुष्टमप्राणमिव वायसः

5.45.45

कीरीकरतलाम्भोजप्रमृष्टचरणाम्बुजः ।
सर्वाङ्गे कुङ्कुमालेपैः संध्याम्बुधरशोभनः

5.45.46

जज्वाल कीरनगरे नागरीगणवानसौ ।
सिंहीगणयुतः सिंहो यथा कुसुमिते वने

5.45.47

हरिहतकरिकुम्भोन्मुक्तमुक्ताकलाप-
प्रविरचितशरीरः शान्तचिन्ताविषादः ।
अरमत सह सद्भिस्तत्र भोगैः सरस्यां
रविकरमदतप्तो वारिपूरैरिवेभः

5.45.48

परिविसृतनृपौजाः सर्वदिक्संस्थिताज्ञः
कतिपयदिवसेहासिद्धदेशव्यवस्थः ।
प्रकृतिभिरलमूढाशेषराजन्यभारः
स गवल इति नाम्ना तत्र राजा बभूव

5.45.45

इत्यार्षे श्रीवासिष्ठमहारामायणे वा० दे० मोक्षोपायेषूपशमप्रकरणे गाधिवृत्तान्ते श्वपचराज्यलाभो नाम पञ्चचत्वारिंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc