भाषा

ENहिગુ
ग्रंथ पाठ

योगवासिष्ठ · अध्याय 5.24

5.24.24

चतुर्विंशः सर्गः

5.24.1

बलिरुवाच ।
केनोपायेन बलवान्स तात परिजीयते ।
कोऽसावतिमहावीर्यः सर्वं प्रकथयाशु मे

5.24.2

विरोचन उवाच ।
मन्त्रिणस्तस्य तनय नित्याजेयस्थितेरपि ।
श्रृणु वच्मि सुसाधत्वं येनासौ परिजीयते

5.24.3

पुत्र युक्त्या गृहीतोऽसौ क्षणादायाति वश्यताम् ।
युक्तिं विना दहत्येष आशीविष इवोद्धतः

5.24.4

बालवल्लालयित्वैनं युक्त्या नियमयन्ति ये ।
राजानं तं समालोक्य पदमासादयन्ति ते

5.24.5

दृष्टे तस्मिन्महीपाले स मन्त्री वशमेति च ।
तस्मिंश्च मन्त्रिण्याक्रान्ते स राजा दृश्यते पुनः

5.24.6

यावन्न दृष्टो राजासौ तावन्मन्त्री न जीयते ।
मन्त्री च यावन्न जितस्तावद्राजा न दृश्यते

5.24.7

राजन्यदृष्टे दुर्मन्त्री स दुःखाय फलत्यति ।
मन्त्रिण्यनिर्जिते राजा सोऽत्यन्तं यात्यदृश्यताम्

5.24.8

अभ्यासेनोभयं तस्मात्सममेव समारभेत् ।
राजसंदर्शनं तस्य मन्त्रिणश्च पराजयम्

5.24.9

पौरुषेण प्रयत्नेन स्वभ्यासेन शनैःशनैः ।
द्वयं संपाद्य यत्नेन देशमाप्नोषि तं शुभम्

5.24.10

त्वमभ्यासे फलीभूते तं देशमभिगच्छसि ।
यदि दैत्येन्द्र तद्भूयो मनागपि न शोचसि

5.24.11

संशान्तसकलायासा नित्यप्रमुदिताशयाः ।
साधवस्तत्र तिष्ठन्ति प्रशान्ताशेषसंशयाः

5.24.12

श्रृणु कः पुत्र देशोऽसौ सर्वं प्रकटयामि ते ।
देशनाम्ना मयोक्तस्ते मोक्षः सकलदुःखहा

5.24.13

राजा तु तत्र भगवानात्मा सर्वपदातिगः ।
तेन मन्त्री कृतः प्राज्ञो मनो नाम महामते

5.24.14

मनोनिष्ठतया विश्वमिदं परिणतिं गतम् ।
घटत्वेनेव मृत्पिण्डो धूमोऽम्बुदतयैव च

5.24.15

तस्मिञ्जिते जितं सर्वं सर्वमासादितं भवेत् ।
दुर्जयं तद्विजानीयात्युक्त्यैव परिजीयते

5.24.16

बलिरुवाच ।
या युक्तिर्भगवंस्तस्य चित्तस्याक्रमणे स्फुटम् ।
तां मे कथय तत्तावद्यथा जेष्यामि दारुणम्

5.24.17

विरोचन उवाच ।
विषयान्प्रति भोः पुत्र सर्वानेव हि सर्वथा ।
अनास्था परमा ह्येषा सा युक्तिर्मनसो जये

5.24.18

एषैव परमा युक्तिरनयैव महामदः ।
स्वमनोमत्तमातङ्गो द्रागित्येवावदम्यते

5.24.19

एषा ह्यत्यन्तदुष्प्रापा सुप्रापा च महामते ।
अनभ्यस्तातिदुष्प्रापा स्वभ्यस्ता प्राप्यते सुखम्

5.24.20

क्रमादभ्यस्यमानैषा विषयारतिरात्मज ।
सर्वतः स्फुटतामेति सेकसिक्ता लता यथा

5.24.21

नासाद्यते ह्यनभ्यस्ता कांक्षतापि शठात्मना ।
पुत्र शालिरिवाव्युप्ता तस्मादेनां समाहर

5.24.22

तावद्भ्रमन्ति दुःखेषु संसारावटवासिनः ।
विरतिं विषयेष्वेते यावन्नायान्ति देहिनः

5.24.23

अभ्यासेन विना कश्चिन्नाप्नोति विषयारतिम् ।
अप्यत्यन्तबलो देही देशान्तरमिवागतिः

5.24.24

ध्येयत्यागमतोऽजस्रं ध्यायता देहधारिणा ।
भोगेष्वरतिरभ्यासाद्वृद्धिं नेया लता यथा

5.24.25

पुरुषार्थादृते पुत्र नेह संप्राप्यते शुभम् ।
क्रियाफलं परिप्राप्तुं हर्षामर्षविवर्जितम्

5.24.26

दैवमित्युच्यते लोके न दैवं देहवत्क्वचित् ।
अवश्यं भवितव्याख्या स्वेहया नियतिश्च या

5.24.27

उच्यते दैवशब्देन सा नरैरेव नेतरैः ।
यद्यस्येह यदा यत्र संपन्नं समतां गतम्

5.24.28

हर्षामर्षविनाशाय तद्दैवमिति कथ्यते ।
दैवं नियतिरूपं च पौरुषेणोपजीयते

5.24.29

सम्यग्ज्ञानविलासेन मृगतृष्णाभ्रमो यथा ।
यथा संकल्प्यते यद्यत्पौरुषेण तथैव तत्

5.24.30

फलवत्तागृहीतत्वे फलवत्तासुखप्रदम् ।
कर्ता नो मन एवेह यत्कल्पयति तत्तथा

5.24.31

नियतिं यादृशीमेतत्संकल्पयति सा तथा ।
नियतानियतान्कांश्चिदर्थाननियतानपि

5.24.32

करोति चित्तं तेनैतच्चित्तं नियतियोजकम् ।
नियत्यां नियतिं कुर्वन्कदाचित्स्वार्थनामिकाम्

5.24.33

स्फुरत्यस्मिञ्जगत्कोशे जीवो व्योम्नीव मारुतः ।
नियत्या विहितं कुर्वन्कदाचिन्नियतिं चरः

5.24.34

संज्ञार्थं रूढनियतिशब्दः स्फुरति सानुवत् ।
तस्माद्यावन्मनस्तावन्न दैवं नियतिर्न च

5.24.39

मनस्यस्तंगते साधो यद्भवत्यस्तु तत्तथा ।
जीवो हि पुरुषो जातः पौरुषेण स यद्यथा

5.24.36

संकल्पयति लोकेऽस्मिंस्तत्तथा तस्य नान्यथा ।
पुरुषार्थादृते पुत्र न किंचिदिह विद्यते

5.24.37

परं पौरुषमाश्रित्य भोगेष्वरतिमाहरेत् ।
न भोगेष्वरतिर्यावज्जायते भवनाशनी

5.24.38

न परा निर्वृतिस्तावत्प्राप्यते जयदायिनी ।
विषयेषु रतिर्यावत्स्थिता संमोहकारिणी

5.24.39

तावद्भवदशादोला विलोलान्दोलनस्थितिः ।
अभ्यासेन विना पुत्र न कदाचन दुःखदा

5.24.40

भोगभोगिभरप्रोता कदाशा विनिवर्तते

5.24.41

बलिरुवाच
भोगेष्वरतिरेवान्तः कथं सर्वासुरेश्वर ।
स्थितिमायाति जीवस्य दीर्घजीवितदायिनी

5.24.42

विरोचन उवाच ।
आत्मावलोकनलता फलिनी फलति स्फुटम् ।
जीवस्य भोगेष्वरतिं शरदीव महालता

5.24.43

आत्मावलोकनेनैषा विषयारतिरुत्तमा ।
हृदये स्थितिमायाति श्रीरिवाम्भोजकोटरे

5.24.44

तस्मात्प्रज्ञानिकाषेण विचारेणातिचारुणा ।
देवमालोकयेद्भोगाद्रतिं चावहरेत्समम्

5.24.45

चित्तस्य भोगैर्द्वौ भागौ शास्त्रेणैकं प्रपूरयेत् ।
गुरुशुश्रूषया चैकमव्युत्पन्नस्य सत्क्रमे

5.24.46

किंचिद्व्युत्पत्तियुक्तस्य भागं भोगैः प्रपूरयेत् ।
गुरुशुश्रूषया भागौ भागं शास्त्रार्थचिन्तया

5.24.47

व्युत्पत्तिमनुयातस्य पूरयेच्चेतसोऽन्वहम् ।
द्वौ भागौ शास्त्रवैराग्यैर्द्वौ ध्यानगुरुपूजया

5.24.48

साधुतामागतो जीवो योग्यो ज्ञानकथाक्रमे ।
निर्मलाकृतिरादत्ते पट उत्तमरञ्जनाम्

5.24.49

शनैः शनैर्लालनीयं युक्तिभिः पावनोक्तिभिः ।
शास्त्रार्थपरिणामेन पालयेच्चित्तबालकम्

5.24.50

परे परिणतं ज्ञाने शिथिलीभूतदुर्ग्रहम् ।
ज्योत्स्नाऽहीनस्फटिकवच्चेतः शीतं विराजते

5.24.51

प्रज्ञया परया ऋज्व्या भोगानामीश्वरस्य च ।
सममेवाथ देहस्य रूपमाश्ववलोकयेत्

5.24.52

प्रज्ञाविचारवशतः सममेव सदा सुत ।
आत्मावलोकनं तृष्णासंत्यागं च समाहरेत्

5.24.53

परदृष्टौ वितृष्णत्वं तृष्णाभावे च दृक्परा ।
एते मिथः स्थिते दृष्टी तेजोदीपदशे यथा

5.24.54

भोगपूगे गतास्वादे दृष्टे देवे परावरे ।
परे ब्रह्मणि विश्रान्तिरनन्तोदेति शाश्वती

5.24.55

विषयाकलितानन्दमनन्तोदेति निर्वृतिः ।
न कदाचन जीवानामात्मविश्रवणादृते

5.24.56

यज्ञदानतपस्तीर्थसेवाभिर्जायते सुखम् ।
न तपोभिर्न दानेन न तीर्थैरपि जायते

5.24.57

भोगेषु विरतिर्जन्तोः स्वभावालोकनादृते ।
कयाचिदपि नो युक्त्या बुद्धिरात्मावलोकने

5.24.58

स्वप्रयत्नादृते पुंसः श्रेयसे संप्रवर्तते ।
भोगसंत्यागसंप्राप्तपरमार्थादृते सुत

5.24.59

न ब्रह्मपदविश्रान्तिसुखमासाद्यते परम् ।
आब्रह्मस्तम्बपर्यन्ते जगत्यस्मिन्न कुत्रचित् ॥ ऽ

5.24.60

तद्वदाश्वस्यते भाते परमे कारणे यथा ।
पौरुषं यत्नमाश्रित्य दैवं कृत्वा सुदूरतः

5.24.61

भोगान्विगर्हयेत्प्राज्ञः श्रेयोद्वारदृढार्गलान् ।
प्रौढायां भोगगर्हायां विचार उपजायते

5.24.62

वृद्धायां प्रावृषि श्रीमांशरत्काल इवामलः ।
विचारो भोगगर्हातो विचाराद्भोगगर्हणम्

5.24.63

अन्योन्यमेते पूर्येते समुद्रजलदाविव ।
भोगगर्हाविचारश्च स्वात्मालोकश्च शाश्वतः

5.24.64

अन्योन्यं साधयन्त्यर्थं सुस्निग्धाः सुहृदो यथा ।
पूर्वं दैवमनादृत्य पौरुषेण प्रयत्नतः

5.24.65

दन्तैर्दन्तान्प्रसंपीड्य भोगेष्वरतिमाहरेत् ।
देशाचाराविरुद्धेन बान्धवैकमतेन च

5.24.66

पौरुषेण क्रमेणादौ धनानि समुपार्जयेत् ।
धनैरभ्याहरेद्भव्यान्सुजनान्गुणशालिनः

5.24.67

प्रवर्तते समासङ्गात्तेषां भोगविगर्हणा ।
ततो विचारस्तदनु ज्ञानं शास्त्रार्थसंग्रहः

5.24.68

ततः क्रमेण परमपदप्राप्तिः प्रजायते ।
यदा तूपरते काले विषयेभ्यो विरम्यसे

5.24.69

तदा विचारवशतः परमं पदमेष्यसि ।
सम्यक्प्राप्स्यसि विश्रान्तिमात्मन्यत्यन्तपावने

5.24.70

न पुनः कल्पनापङ्के दुःखाय निपतिष्यसि ।
स्थितापि नास्था ते शुद्ध नमस्तेऽस्तु सदाशिव

5.24.71

देशक्रमेण धनमल्पविगर्हणेन
तेनाङ्ग साधुजनमर्जय मानपूर्वम् ।
तत्संगमोत्थविषयाद्यवहेलनेन
सम्यग्विचारविभवेन तवात्मलाभः

5.24.24

इत्यार्षे श्रीवासिष्ठमहारामायणे वाल्मीकीये दे० मोक्षोपायेषूपशमप्रकरणे चित्तविचिकित्सायोगोपदेशो नाम चतुर्विंशः सर्गः

मूल पाठ: yogavāsiṣṭhaḥ · Sanskrit Wikisource contributors · Sanskrit Wikisource · CC BY-SA 4.0

Esc